ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ।। ५४ ।।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ।। ५४ ।।
भाष्यम्
ब्रह्मभूयाय कल्पते । ब्रह्मणि भावो ब्रह्मभूयं ब्रह्मणि स्थितिः । सर्वदा तन्मनस्कतेत्यर्थः ।। ५३,५४ ।।
भावप्रदीपिका
ब्रह्मभूयशब्देन ब्रह्मत्वमिति आह– ब्रह्मणीति । मद् भक्तिं लभते इत्यादिवाक्यशेषाद्ब्रह्मणि भावोऽपि न मोक्ष इत्याह– सर्वदेति ।। ५३ ।।
प्रमेयदीपिका
‘ब्रह्मभूयाय ब्रह्मत्वाय’ इति प्रतीतिनिरासार्थं व्याचष्टे– ब्रह्मेति ।। ‘इत्यर्थः’ इति शेषः । भावो न जन्मादि’ इत्याशयेन विवृणोति– ब्रह्मणीति ।। इयमपि न मुक्तिः । ‘ब्रह्मभूतः’ इति पुनर्भक्त्यादिलाभश्रवणादिति भावेनाऽह– सर्वदेति ।। ५३,५४ ।।
भावदीपः
।। ब्रह्मभूत इतीति ।। ‘ब्रह्मभूतः’ इति श्लोक इत्यर्थः
।। ५३,५४ ।।
वाक्यार्थप्रदीपः
।। ब्रह्मभूयाय ब्रह्मत्वाय इति प्रतीतिनिरासार्थमिति । यद्यपि वदः सुपीत्यतः सुपीत्यनुवृत्तौ भुवो भाव इत्यनेन तय् भवनमिति तच्छब्द उपपदे भुवतेर्धातोः भवनरूपे अर्थे क्यप्प्रत्यये कित्वात् गुणाभावे च सति निष्पन्नत्वात् ब्रह्मभूयशब्दस्य तद्भवनमात्रार्थतया न तत्वार्थत्वम् । तथापि स्यात् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि इत्यभिधाने ब्रह्मभूयब्रह्मत्वशब्दसायुज्यशब्दानामपर्यायत्वस्य अभिधानात् व्याकरणस्य साधुत्वा-न्वाख्यानप्रकरणमात्रपरत्वात् युक्तमेव ब्रह्मभूयशब्दस्य ब्रह्मार्थत्वमिचि अवधेयम् ।।
यद्विद्याधीशगुरोः शुश्रूषान्या नरोचते तस्मात् ।
अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीविद्याधीशतीर्थतत्पूज्यचरणानां निजशिष्यकेशवेन विरचिते व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे त्रयोदशोध्यायः ।।
भावरत्नकोशः
ब्रह्मभूयाय ब्रह्मभावाय इति शङ्करोक्तेराह– इति प्रतीतीति ।। इयमपि ब्रह्मणि स्थितिरपि । पुनः ब्रह्मणि स्थित्यनन्तरमपि । भक्तीति ।। ‘मद्भक्तिं लभते पराम्’ इति श्रवणादित्यर्थः ।।
गीताक्षरार्थस्तु- ततः किम् इत्यत उच्यते– ब्रह्मभूत इति ।। ब्रह्मणि सर्वदा समालग्नमनाः प्रसन्नात्मा अलौकिकसुन्दरविषयलाभेन प्रसादयुक्ततया स्वत एव विषयेष्वप्रवृत्तमनाः, प्रसन्न आत्मा परमात्मा यस्य स इति वा, प्रायेण नष्टं न शोचति न वा अप्राप्तं काङ्क्षति सर्वभूतेषु समः षष्ठाध्यायोक्तरीत्या समबुद्धिः सन् पराम् उत्कृष्टां मद्भक्ति मयि भक्ति लभते ।। ५३,५४ ।।
भावदीपिका
।। पुनर्भक्त्यादीति ।। मुक्तौ च पुनर्भक्त्यादिलाभाभावादिति भावः ।। ५३ ।।