य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते।। १९ ।।
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।। १९ ।।
भाष्यम्
व्यवहारस्तु भ्रान्त इत्याह– य एनमिति ।। कुतः? उक्तहेतुभ्यो नायं हन्ति न हन्यते ।।
भावप्रदीपिका
जीवनित्यत्वे वध्यघातुकव्यवहारस्य का गतिः? इत्येतत्परिहर्तुमुत्तरश्लोकमवतार्य व्याचष्टे– व्यवहारस्त्विति ।।
भावप्रकाशिका
तर्हि वघ्यघातकभावव्यवहारस्य का गतिः? इत्यत आह– व्यवहारस्त्विति ।। अप्रमेयेश्वर-प्रतिबिम्बत्वम्, नित्योपाधिकत्वम्, ‘नित्यो नित्यानाम्’ इत्यादिवेदान्तप्रसिद्धेश्च इत्युक्तहेतवः ।।
प्रमेयदीपिका
‘य एनम्’ इति पुनरात्मनित्यत्वं किमित्युच्यते? इत्यतो नास्य नित्यत्वप्रतिपादने तात्पर्यम् । किन्तु निष्टङ्कितं चेदात्मनो नित्यत्वं तर्हि का गतिस्तद्धननव्यवहारस्य? इत्याशङ्क्य तस्य भ्रान्तत्वमनेनोच्यत इत्याह– व्यवहारस्त्विति ।। व्यवहारोऽत्र ज्ञानम् । तथाऽपि ‘नायं हन्ति न हन्यते’ इति पुनरुक्तिरेवेति चेन्न । ज्ञानानां प्रामाण्यस्य बाधकैकापोद्यत्वात् । कुतो बाधकादस्य भ्रान्तत्वम्? इत्याशङ्क्य स्वपक्षसाधकानामेवोक्तहेतूनामेतद्वाधनेऽपि व्यापार-प्रदर्शनार्थत्वादस्येत्याह– कुत इति ।।
नन्वत्र हननमेकमेव । तत्कथम् ‘उभौ’ इति? कथं च ‘नायं हन्ति न हन्यते’ इति? अथैकस्या अपि क्रियायाः कारकभेदादेवमुक्तिः, तर्हि करणाधिकरणोक्तिरपि प्रसज्यत इति। उच्यते । आत्मनो नित्यत्वमिवास्वातन्त्र्यमपि प्राक् प्रतिपादितम् । यथोक्तं तात्पर्यनिर्णये । तत्र हननव्यवहारवत् स्वातन्त्र्यव्यवहारस्यापि भ्रान्तत्वमनेनोच्यत इति ‘उभौ’ इत्याद्युपपद्यते । अत एव भाष्यकारो ‘व्यवहारस्तु’ इति सामान्येनाह, नतु हननव्यवहार इति निष्कृष्य ।।
भावबोधः
ननु ‘उभौ तौ न विजानीत’ इति हननादिज्ञानस्यैव भ्रमत्वमुक्तम् । तत्कथं ‘व्यवहारास्तु’ इति भाष्यमित्यत आह– व्यवहारोऽत्र ज्ञानमिति ।। पुनरुक्तिरेवेति ।। ‘न विजानीत’ इति ज्ञानस्य भ्रमत्वोक्त्या अर्थाभावसिद्धौ पनरर्थाभाववचनं पुनरुक्तिरिति भावः ।। स्वपक्ष-साधकानामिति ।। नित्यस्यानाशिनोऽप्रमेयस्येत्युक्तानामुपाधिः बिम्बतत्सन्निधिनाशाभाव-प्रतिबिम्बत्वानामात्मनि सत्त्वास्वातन्त्र्यरूपस्वपक्षसाधकानां हेतूनाम् । एतद्बाधनेऽपि । हननादिरूपात्मविनाशनादिपरपक्षबाधनेऽपि व्यापरे इत्यर्थः ।। एकमेवेति ।। एकधर्मावच्छिन्न-विषयकभ्रान्तिमतां जात्यपेक्षया चेदेकवचनं भवेत्, पुरुषव्यक्तिबाहुल्यापेक्षया चेद्बहुवचनं भवेत् । तत्कथमुभाविति द्विवचनमित्यर्थः ।। कथं चेति ।। हननज्ञानस्य भ्रमत्वोपपादनायार्थाभाव-निश्चयरूपबाधप्रतिपादनस्योक्तहेतुभ्यो न हन्यते इत्येतावतैव सिद्धेः ‘नाहं हन्ति’ सति व्यर्थमित्यर्थः ।। करणाधिकरणेति ।। अत्र हतमनेन हतमित्यपि वक्तव्यं स्यादित्यर्थः । प्रकृतक्रियायां सम्प्रदानापादानयोरभावादेवमुक्तम् ।। यथोक्तं तात्पर्यनिर्णये इति ।। यद्यपि नित्यवं जीवस्याप्यस्ति । तथाऽपि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेत्यादिना तस्मा-दनाशिनोऽप्रमेयस्य विष्णोः पूजार्थं ‘युध्यस्व’ इत्यन्तेन ग्रन्थेनाविनाशि त्वित्यादिश्लोकार्थतया ईश्वरस्य स्वातन्त्र्यं जीवस्यास्वातन्त्र्यं चोक्तमित्यर्थः ।।
अननोच्यत इति ।। ततश्चायं श्लोकार्थः– य एनं जीवं स्वातन्त्र्येण हननादिकर्तारं वेत्ति, यश्चैवं जीवं हतमनित्यं वेत्ति तावुभौ तत्त्वं न विजानीतः । भ्रान्ताविति यावत् । कुतो बाधकादिति चेत्, यतस्तदधीनत्वे सति तत्सदृशत्वाख्यप्रतिबिम्बत्वरूपास्वातन्त्र्याद्धेतोः ‘नायं हन्ति’ स्वातन्त्र्येण हननादिकर्ता न भवति । यतश्च बिम्बनित्यत्वादिहेतुभ्यो न हन्यते– न विनश्यतीति स्वातन्त्र्यानित्यत्वरूपार्थाभावनिश्चयलक्षणबाधोऽस्तीति ।
भावदीपः
गीतायां ‘न विजानीतः’ इत्युक्तेः भाष्ये ‘व्यवहारस्तु’ इत्युक्तिः कथम्? इत्यत आह– व्यवहार इति ।। स्वपक्षसाधकानामेवेति ।। जीवनित्यत्वसाधकानां बिम्बस्य नित्यत्वात्, उपाधेश्च नित्यत्वात्, तत्सन्निधेरनाशाच्चेति हेतूनामित्यर्थः ।। करणेति ।। शस्त्रेण कुरुक्षेत्र इत्युक्तिप्रसङ्गादित्यर्थः ।। कथञ्चेति ।। ‘न हन्यते’ इत्येतावदुक्तौ च हननबुद्धेर्भ्रमत्वोक्ति-सम्भवादिति भावः ।। यथोक्तं तात्पर्यनिर्णय इति ।। ‘गीता’इति आदौ योज्यम् । गीतातात्पर्ये हि ‘यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथाऽपि सर्वप्रकारेणाविनाशित्वं विष्णोरेव’ इत्यादिना ‘तस्मादनाशिनोऽप्रमेयस्य विष्णोः पूजार्थं युध्यस्व’ इत्यन्तेन ग्रन्थेन ‘अविनिाशि तु तद्विद्धि’ इत्यादिश्लोकार्थतया ईश्वरस्य स्वातन्त्र्यं जीवस्यास्वातन्त्र्यं चोक्तमित्यर्थः ।। तत्रेति ।। एवं-सतीत्यर्थः ।।
अनेन ‘य एनम्’ इति श्लोकेन उच्यते । य एनं जीवं स्वातन्त्र्येण हन्तारं वेत्ति यश्चैनं जीवं हतं मन्यते । तावुभौ स्वातन्त्र्यज्ञानी जीवहननज्ञानी चेत्युभौ न विजानीतः भ्रान्ति-मन्तौ । कुतः? ईश्वरप्रतिबिम्बत्वहेतुना स्वातन्त्र्याभावात् नायं स्वातन्त्र्येण हन्ति बिम्ब-नित्यत्वादिप्रागुक्तहेतुभ्यो नित्यत्वेन न हन्यते यस्मादित्येवं रूपेणोच्यत इति हेतोः ‘उभौ’ इत्याद्युपपद्यत इत्यर्थः ।।
भावरत्नकोशः
किमित्युच्यत इति ।। किं पुनरुक्तेः प्रयोजनमित्यर्थः ।। भ्रान्तत्वमिति हननज्ञानस्य भ्रमत्वोक्तौ नित्यत्वप्राप्तेरवर्जनीयत्वादिति भावः । तस्य व्यवहारशब्दितस्य ज्ञानस्य । व्यवहारशब्दस्य प्रसिद्ध्या अभिलापार्थत्वे वेत्ति मन्यते विजानीत इति ज्ञानवाचिपदप्रयोगो गीतायामयुक्तः स्यादित्यत आह– व्यवहारोऽत्रेति ।। रूढ्याऽभिलपनार्थस्यापि व्यवह्रियते अनेनेति व्युत्पत्त्या ज्ञानार्थत्वं भ्रान्तपदसन्निधानादिति भावः । तथाऽपि त्रिपाद्या अन्यतात्पर्य-कत्वेन पुनरुक्तित्वपरिहारेऽपि । पुनरुक्तिरेवेति ।। हननव्यवहारभ्रमत्वस्य पादत्रयेणाभि-धानादन्त्यपादो ‘न त्वेवाहम्’ ‘नित्यस्यानाशिनः’ इत्यादिना पुनरुक्त इत्यर्थः । एवेति वदतो न किमपि प्रयोजनमस्येत्यभिमानः । प्रयोजनोक्त्याऽभिमानं खण्डयितुं शङ्कामुत्थापयति– ज्ञानानामिति ।।
ननु कथं बाधकैकापोद्यत्वादिति ।। यावता ‘पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधि-करणेन’ इति सूत्रं ‘विशेषणं विशेष्येण’ इति सिद्धे पूर्वनिपातनियमार्थं कृतम् । अत एवैक-वैयाकरण इत्युदाहरणे एकशब्दस्य पूर्वनिपातः । यावता च ‘वदस्सुपि क्यप् च’ इति अनुपसर्गे सुप्युपपदे भावेऽर्थे वदतेः क्यब्विहितः । तथा चोदाहरन्ति सत्योद्यमिति ।। अत्र कित्त्वाद् वस्य सम्प्रसारणम् । प्रत्युदाहरन्ति च । सुपि किम्? वाद्यम् । अनुपसर्ग इत्येव । प्रवाद्यमिति ।। अत्र चापशब्द उपसर्गः । क्यप् च कर्मणि । अत एक बाधकापवाद्यत्वादिति प्रयोक्तव्यमिति ।। उच्यते– ‘दोषैकदृक्पुरोभागी’, ‘ह्लादैकमयीम्’ इत्यादिदर्शनात् सङ्ख्यार्थस्यैकशब्दस्य पूर्व-निपातो न केवलार्थस्य । अत्र केवलार्थ एकशब्दः । यच्च वदेरनुपसर्ग एव क्यबिति, सत्यमेवैतत् । अयं चापशब्द उपसर्गप्रतिरूपकमव्ययान्तरं नोपसर्गः । सम्प्रसारणं तु कित्त्वात् । यद्यपि भाव इति तदपि न । सिद्धान्तकौमुद्यां ‘कर्मण्यपि प्रत्यय इत्येके’ इत्युक्तत्वात् । अतो यथान्यासमेव प्रयोगः साधुरिति ।।
अस्य प्रामाण्यस्य । भ्रान्तत्वं भ्रान्तिविषयत्वम् । कल्प्यमिति शेषः । स्वपक्षेति ।। आत्मनित्यत्वं स्वपक्षः । तत्साधकानां बिम्बनित्यत्वोपाधिनित्यत्वबिम्बोपाधिसन्निधिनित्यत्व-रूपाणाम्, नित्यस्येत्यादिनोेक्तानां हेतूनामित्यर्थः । एतद्बाधनेऽपि हननादिरूपात्मनाशज्ञान-प्रामाण्यबाधनेऽपि । व्यापारोऽत्र सामर्थ्यम् । अस्य चतुर्थपादस्य । एकमेवेति ।। हन्तारं हतमिति पदद्वयेऽपि प्रकृतेरेकत्वेन तदर्थभूतं हननमेकमेव । तथा चैकस्मिन् विषये भ्रान्तिमतां जात्यपेक्षयैकवचनम्, व्यक्तिविवक्षया बहुवचनं युक्तम् । उभाविति द्विवचनं त्वयुक्तमिति भावः । कथं चेति ।। ‘न विजानीतः’ इति हननज्ञानस्य यद् भ्रमत्वमुक्तं तद्धननरूपार्थाभावनिश्चये हि स्यात् । तन्निश्चयश्च ‘न हन्यते’ इत्येकेनैव वाक्येनोत्पादयितुं शक्यत इति न हन्तीति व्यर्थमिति भावः । कारकभेदात् तिपः कर्तरि यकश्च कर्मण्यनुशासनात् कर्तृकर्मरूपकारकभेदादित्यर्थः ।।
करणाधिकरणेति ।। हननक्रियायाः सम्प्रदानापादानकारकशून्यत्वेन तदुक्त्यप्रसङ्गेऽपि अनेन करणेनास्मिन् देशे हन्यत इत्यप्युक्तिप्रसङ्गः । क्रियामात्रस्यानेककारकसाध्यत्वादिति भावः । प्राक् ‘अविनाशि तु’ इत्यत्र । नन्वत्र जीवास्वातन्त्र्यं न भाष्यतः प्रतीयत इत्यत आह– यथोक्तं तात्पर्यनिर्णय इति ।। ‘यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथाऽपि सर्वप्रकारेणाविनाशित्वम्’ इत्यादौ ‘तस्मादनाशिनोऽप्रमेयस्य विष्णोः पूजार्थं युध्यस्व तत्प्रदानाधीनत्वाद् दुःखनिवृत्तेः’ इत्यन्तेन गीतातात्पर्यनिर्णय इत्यर्थः । तत्र हि ‘सातिशय-त्वेऽपि कुतस्तत्पूजा कर्तव्येत्यत उक्तं– तदिति ।। न केवलं सर्वप्रकारेण अविनाशित्वात् तत्पूजाऽत्र कर्तव्येत्युच्यते । अपि तु सर्वप्रकारेणाविनाशित्वात् स एव स्वतन्त्रः । ततश्च तदधीनत्वं मुक्तेः युद्धादिस्वकर्मणाऽऽराधितश्चेश्वरो मोक्षं ददात्यतस्तत्पूजा कर्तव्येत्येवाभिप्रेतम्’ इति ‘अविनाशि तु’ इति श्लोके स्वकर्मणाऽऽराधितेश्वराधीनमुक्तिभागितया जीवस्यास्वातन्त्र्य-
मभिमतमिति भावः । अनेन ‘य एनम्’ इति श्लोकेन । इत्यादीत्यादिपदेन ‘नायं हन्ति’ इत्यादि तुरीयपादग्रहः । स्वातन्त्र्यप्रतीतेः भ्रान्तित्वं भाष्यकृत्सम्मतमित्यत्रोपष्टम्भकमाह– अत एवेति ।।
भावदीपिका
ननु गीताभाष्ययोर्विरोधः । गीतायां ‘नायं हन्ति’ इत्यादिनाऽर्थाभावेन ज्ञानस्य भ्रमत्वोक्तेर्भाष्ये तु व्यवहारस्य भ्रमत्वोक्तेरत आह– व्यवहारोऽत्रेति ।। पुनरुक्तिरिति ।। ‘न विजानीत’ इति ज्ञानस्य भ्रमत्वोक्त्यैवार्थाभावसिद्धौ पुनरर्थाभाववचनं पुनरुक्तमित्यर्थः । अर्थाभावनिश्चयरूपबाधप्रतिपादनायेति शेषः ।। स्वपक्षसाधकानामिति ।। नित्यस्येत्यादि-नोक्तानां जीवनित्यत्वरूपस्वपक्षसाधकानामुपाधिबिम्बतत्सन्निधिनाशाभावानामित्यर्थः ।। एतद्बाधनेऽपीति ।। आत्महननादिरूपविनाशाख्यपरपक्षबाधनेऽपीत्यर्थः ।। हननमेकमेवेति ।। तथा च हननरूपैकधर्मावच्छिन्नात्मविषयकभ्रान्तिमतां पुरुषाणां समुदायविवक्षा चेदेकवचनं भवेत् । पुरुषव्यक्तिबाहुल्यापेक्षा चेत् बहुवचनापत्तिरत उभाविति द्विवचनं कथमित्यर्थः ।। कथञ्चेति ।। हननज्ञानस्य भ्रमत्वोपपादनायार्थाभावनिश्चयरूपबाधप्रतिपादनस्योक्तहेतुभ्यो न हन्यत इत्येतावतैव सिद्धेर्नायं हन्तीति व्यर्थमित्यर्थः । एकस्या हननरूपायाः । कारकभेदात् कर्तृकर्मरूपकारकभेदादित्यर्थः । एवमुक्तिः नायं हन्तीति कर्तृकारकोक्तिः, न हन्यत इति कर्मकारकोक्तिरित्यर्थः ।।
करणाधिकरणोक्तिरपीति ।। अत्र हतमनेन हतमित्यपि वक्तव्यं स्यादित्यर्थः । हनन-क्रियायां सम्प्रदानापादानयोः प्रसक्त्यभावादनुक्तिरिति ध्येयम् ।। यथोक्तमिति ।। यद्यपि नित्यत्वं जीवस्याप्यस्ति तथाऽपि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेत्यादिना तस्मादनाशिनोऽ-प्रमेयस्य विष्णोः पूजार्थं युध्यस्वेत्यनेनाविनाशि त्वित्यादिश्लोकार्थतया ईश्वरस्य स्वातन्त्र्यं जीवस्यास्वातन्त्र्यं चोक्तमित्यर्थः ।। अनेनोच्यत इति ।। तथा च य एनं जीवं स्वातन्त्र्येण हननादिकर्तारं वेत्ति यश्चैनं जीवं हतमनित्यं वेत्ति तावुभौ तत्त्वं न विजानीतः । भ्रान्ताविति यावत् । कुतो बाधकादिति चेत्, यतस्तदधीनत्वे सति तत्सदृशत्वाख्यप्रतिबिम्बत्वरूपा-स्वातन्त्र्याद्धेतोर्नायं हन्ति स्वातन्त्र्येण हननादिकर्ता न भवति, यतश्च बिम्बनित्यत्वादिहेतुभ्यो न हन्यते न विनश्यतीति स्वातन्त्र्यानित्यत्वरूपार्थाभावनिश्चयलक्षणबाधोऽस्तीति श्लोकार्थो द्रष्टव्यः ।। अत एवेति ।। हननव्यवहारस्वातन्त्र्यव्यवहारयोरुभयोरपि भ्रान्तत्वप्रदर्शनरूपं प्रयोजनमस्ति यतोऽत एवेत्यर्थः ।
भावप्रकाशः
ननु नात्र व्यवहारोऽभिलापः य एवं वेत्तीत्यादिना ज्ञानस्यैवोक्तेरित्यत आह– व्यवहरोऽत्र ज्ञानमिति ।। पुनरुक्तिरेवेति ।। न विजानीत इति ज्ञानस्य भ्रमत्वोक्तौ अर्थाद्धननाभाव-सिद्धेरिति भावः । यद्वा तात्पर्यार्थस्य पादत्रयेण प्रतिपादितत्वान्नायं हन्तेत्यादिनाऽत्म-नित्यत्वोक्तौ नत्वेवाहमित्यादिना पुनरुक्तिरिति व्याख्येयम् । बाधकैकापोद्यत्वादिति ।। अत्रापेत्युपसर्गप्रतिरूपकम् । अतो न वदः सुपिक्यप् चेत्यनेनोपसर्गभिन्ने सुबन्ते उपपदे वदतेः क्यब्विधानविरोधः । ननु तथाप्युक्तसूत्रेण भाव एव क्यबुक्तः । सिद्धान्तकौमुद्यामुत्तरसूत्रादिह भाव इत्याकृष्यत इत्युक्तत्वात् । तत्कथं कर्मणि प्रत्यय इति चेन्न । सिद्धान्तकौमुद्यामेव कर्मणि प्रत्ययावित्येक इत्युक्तत्वेन कर्मण्यपि तदुपपत्तेः ।। स्वपक्षसाधकानामिति ।। आत्मनित्यत्व-साधकानामुपाधिबिम्बतत्सन्निधिनाशाभावानामित्यर्थः । एतद्बाधनेऽपि आत्मविनाशज्ञान-प्रामाण्यबाधनेऽपि । एकमेवेति ।। एकस्मिन्विषये भ्रान्तिमतां जातिविवक्षयैकवचनम् । व्यक्ति-विवक्षया बहुवचनं वा युक्तम् । उभाविति द्विवचनं त्वयुक्तमिति भावः । कथञ्चेति ।। हनन-ज्ञानस्य भ्रमत्वोपपादकार्थाभावस्य न हन्यत इत्येकेनैव वाक्येन प्रतिपादनसम्भवादिति भावः । कारणाधिकरणेति ।। अत्र हतमनेन हतमित्युक्तिरित्यर्थः । हननक्रियायाः सम्प्रदानापादान-शून्यत्वात् करणाधिकरणमात्रग्रहणम् । प्रागिति ।। अविनाशि त्वित्यत्रेत्यर्थः । तात्पर्यनिर्णये इति ।। यद्यपि नित्यत्वं जीवस्याप्यस्ति तथाऽपि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेत्यादौ तस्मादनाशिनोऽप्रमेयस्य विष्णोः पूजार्थं युद्धस्वेत्यन्ते तात्पर्यनिर्णय इत्यर्थः । सर्वप्रकारेणा-विनाशित्वोक्त्या पूज्यत्वोक्त्या च विष्णोः स्वातन्त्र्यलाभे तद्विपरीतस्य जीवस्यास्वतन्त्र्यं प्रतिपादितप्रायमिति भावः । अनेनेति ।।
ततश्चायं गीतार्थः । य एनं जीवं स्वातन्त्र्येण हननकर्तारं वेत्ति यश्चैनं जीवहननं (जीवं हतं इति भाव्यमिति भाति) अनित्यं वेत्ति तावुभौ तत्त्वं न विजानीतो भ्रान्ताविति यावत् । कुतो बाधकादिति चेत् यतस्तदधीनत्वे सति तत्सदृशत्वाख्यप्रतिबिम्बत्वरूपाद्धेतोः । नायं हन्ति हननस्वतन्त्रो न भवति । यतश्च बिम्बनित्यत्वादिहेतुभ्यो न हन्यते न नाश्यते तस्मादित्येवं स्वातन्त्र्यानित्यत्वरूपार्थाभावनिश्चयलक्षणबाधोस्तीति ।।