शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।। ४३ ।।

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।। ४३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु  क्षत्रियकर्मोच्यते– शौर्यमिति ।। शौर्यम् अभीरुत्वं, तेजः शरीरगतं वर्चः, धृतिः धैर्यं, दाक्ष्यं पाटवं, युद्धेऽप्यपलायनं च दानम् औदार्यम्, ईश्वरभावः

प्रसह्य वित्ताहरणं शारीरो दण्ड एव च ।

अशिष्याणां शासनं च तथैवार्थविनाशनम् । एष ईश्वरभावः स्यात्..’

इति शास्त्रावेदितं प्रभुशक्तिप्रकटीकरणं क्षात्रं क्षत्रजातेर्विहितं स्वभावजं क्षत्रजात्यसाधारणं कर्म ।। ४३ ।।