आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ।। २८ ।।

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ।। २८ ।।

भावरत्नकोशः

आयुधानामिति ।। आयुधानामहं वज्रम् इति सजातीयैक-देशश्रैष्ठ्यदविभूतिः, ‘सुदर्शनश्चायुधेषूत्तमः’ इति वचनात् । कामान् दोग्धीति कामधुक् कामधेनुः । प्रजनः प्रजोत्पत्तिहेतुः कन्दर्पः न पुनः केवलभोगार्थः । तस्य अशास्त्रीयत्वात् । सर्पाणाम् एकशिरसां वासुकिः अस्मि ।। २८ ।।