ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। १ ।।
।। अथ श्रीमद्भगवद्गीतायां पञ्चदशोऽध्यायः ।।
श्रीभगवानुवाच–
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। १ ।।
भाष्यम्
संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन्नध्याये दर्शयति । ऊर्ध्वो विष्णुः । ‘ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणसवर्चसम्’ (तै.आ. ७.१०.१) इति हि श्रुतिः । ऊर्ध्वः उत्तमः सर्वतः ।।
भावप्रदीपिका
एतदध्यायार्थं दर्शयति– संसारेति । तदत्ययोपायः निर्मानत्वादि । तत्र ऊर्ध्वशब्दस्य विष्णुविषयत्वं रूढियोगाभ्यां दर्शयति– ऊर्ध्व इति ।
प्रमेयदीपिका
अध्यायप्रतिपाद्यमर्थमाह– संसारेति ।। संसरत्यनेनेति संसारः । प्रकृत्यादिकं क्षेत्रम् । पूर्वाध्याये संसारैकदेशानां गुणानामेव वृत्तं दर्शितम् । अत्र पुनः समग्रं संसारस्वरूपं प्रदर्श्य तदत्ययेच्छामुत्पाद्य तत्साधनजिज्ञासुं प्रति प्रागुक्तं साधनं प्रपञ्चयति । तत्प्रसङ्गादलौकिकं भगवन्महिमानं च दर्शयति अनेनाध्याये-नेत्यर्थः ।।
जगद्वृक्षस्योर्ध्वमूलत्वं घटयितुमूर्ध्वशब्दाभिधेयं तावदाह– ऊर्ध्व इति ।। कुतः? श्रौतप्रयोगादित्याह– ऊर्ध्वेति ।। आदौ तावदहम् ऊर्ध्वेन विष्णुना पवित्रः निष्पापोऽस्मि । ततो वाजिरूपश्च नेता च । वाजिनीः सूर्यः । तत्र वसतीति वाजिनीवसुः । तेन वाजिनीवसुना विष्णुना अमृतं प्रारब्धकर्मनिर्मुक्तश्च अस्मि । ‘स तेजसि सूर्ये सम्पन्नः’ इति श्रुतेः । ततश्च तेनैव सवर्चसं सप्रभम् । अनुभूयमानमिति यावत् । द्रविणं धनं सुखं च अस्मि इत्यर्थः ।।
वर्चसशब्दोऽकारान्तोऽप्यस्ति । ‘ब्रह्महस्तिभ्यां वर्चसः’ इत्यत्र योगविभागात् समासान्तो वा। विष्णुप्रसङ्गदर्शनाय श्रुतिशेषोदाहरणम् । इदानीं तस्य तत्र प्रवृत्तौ निमित्तमाह– ऊर्ध्व इति ।। उन्नतो ह्यूर्ध्व उच्यते । अतो ब्रह्मादिलोकस्थत्वादिलक्षणा सूक्ष्मत्वादिगुणयोगो वा नाऽश्रयणीयः । सर्वतः सर्वस्मात् प्रपञ्चात् । सर्वैश्च गुणैः ।।
भावबोधः
।। वाजिरूपश्चेति ।। ‘वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकम्’ इति वचनादिति भावः । ननु वर्चश्शब्दस्य सकारान्तत्वेन ‘सवर्चः’ इति भवेत् कथं ‘सवर्चसः’ इत्युक्तमित्यत आह– वर्चसशब्द इति ।। समासान्तो वेति ।। ‘वर्चसः’ इति योगविभागात् वर्चस्सहितं सवर्चसमिति समासान्ताकारो भवतीत्यर्थः । उत्तमत्वं कथमूर्ध्वशब्दप्रवृत्तिनिमित्त-मित्यत आह– उन्नत इति ।। उन्नतोत्तमशब्दयोः पर्यायत्वादुन्नतत्वमेवोत्तमत्वमित्यर्थः । अत इति ।। मुख्यार्थानुपपत्तेरभावादित्यर्थः । ब्रह्मादिलोकेति ।। विष्णोः सत्यलोकादूर्ध्व-लोकस्थितिरूपशक्यसम्बन्धादित्यर्थः । सूक्ष्मत्वादिति ।। विष्णोः ध्रुवमण्डलादूर्ध्ववस्तुगत-सूक्ष्मत्वादिप्रकारकप्रतीतिविषयत्वादिगुणयोग इत्यर्थः ।
भावदीपः
सम्पूर्वात् ‘सृ गतौ’ (पा.धा.९३५) इत्यतः करणे घञ् इत्युपेत्याह– संसरतीति ।। क्षेत्रमिति ।। त्रयोदशाध्याये ‘महाभूतान्यहङ्कारः’ (१३.६) इति श्लोकोक्तं प्रकृत्यादीत्यर्थः । वृत्तमिति ।।‘सत्वं रजस्तमः’ इत्यादिना कार्यप्रवृत्तिर्दर्शितेत्यर्थः । संसारेति ।। प्रकृत्यादिक्षेत्रस्वरूपमित्यर्थः ।। प्रागुक्तमिति ।। प्रथमषट्काद्युक्तं निवृत्तकर्म भगवज्ज्ञानध्यानरूपं साधनमित्यर्थः । ‘कुतः’ इत्यनन्तरम् ‘इत्यतः’ इति शेषः ।। इति श्रुतेरिति ।। षट्प्रश्नश्रुतेरित्यर्थः ।। नपुंसकद्रविणशब्दे विशेषणत्वात् ‘वर्चसः’ इति भाव्यमित्यत आह– वर्चसशब्द इति ।। योगविभागादिति ।। ब्रह्मशब्दाद्धस्तिशब्दाच्च परस्य वर्चःशब्दस्याच्प्रत्यये ‘ब्रह्मवर्चसम्’ इत्यादि सिद्ध्यर्थमयमेको योगः,‘वर्चसः’ इति पुनरन्यो योगो विभज्य कर्तव्यः । अन्यत्रापि वर्चसशब्दः समासान्तो भवतीत्यर्थ इति । तथाच ‘सवर्चसम्’ इत्यकारान्तः साध्विति भावः । अत इति ।। मुख्यार्थसम्भवादिति भावः । ब्रह्मादीति ।। अत्युन्नतसत्यलोकवैकुण्ठलोकस्थत्वाद् ऊर्ध्व इति लक्षणा वा सूक्ष्मत्वाद् अतीन्द्रियत्वादि-गुणयोगाद् गौणीवृत्तिर्वा नाऽश्रयणीयेति भावः ।।
वाक्यार्थप्रदीपः
ननु वर्चस्शब्दस्य सकारान्तत्वात् वर्चसा सहितं सवर्च इति भवितव्यम् । सवर्चसमिति तु कथमित्यत आह– वर्चसशब्द इति ।। ननु ब्रह्महस्तिभ्यां वर्चस इति ब्रह्मवर्चस्शब्दादेव समासान्तप्रत्यविधानात् अत्र वर्चस्शब्दस्य केवलत्वात् कथं समासान्तप्रत्यय इत्यत आह– ब्रह्महस्तिभ्यामिति ।। वर्चसमिति योगविभागात् वर्चसा सहितं सवर्चसमिति समासान्तोकारो भवतीत्यर्थः ।।
भावरत्नकोशः
।। अध्यायेति ।। पञ्चादशाध्यायेत्यर्थः । अभ्यर्हितत्वाद् ‘एतद् इत्यनुक्तिः । ‘त्रयोदशाध्यायोक्तम्’ इति तात्पर्यनिर्णयवचनात्, ‘ऊर्ध्वमूलम्’ इत्यादौ प्रकृत्यादिक्षेत्रस्यैवाभिधानाच्चाह– संसरत्यनेनेति ।। सम्पूर्वात् ‘सृ गतौ’ इत्यतः करणे घञि निष्पन्नः संसारशब्द इति भावः । प्रकृत्यादिकम् प्रकृतिकारणकम् । क्षेत्रम् ‘महाभूतानि इत्यादिनोक्तानि चतुर्विंशतितत्त्वानीति व्याख्येयम् । ‘प्रकृतिशब्देन महाभूतानि इत्यादिनोक्तानि चतुर्विंशतितत्त्वानि गृह्यन्ते’ इति त्रयोदशाध्यायटीकोक्तेः । तेन ‘त्रयोदशाध्याये प्रकृतेः क्षेत्रत्वानभिधानाद् कथमेवमुक्तिः’ इति चोद्यं निरस्तम् । केचित्तु
‘हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् ।
अव्यक्तादि शरीरं तत् क्षेत्रं तु क्षीयतेऽत्र यत् ।।’
इति तात्पर्यनिर्णये अव्यक्तशब्दितप्रकृतिग्रहणाद् अत्र प्रकृत्यादिकम् इत्युक्तम् । एवं च यथाश्रुतमपि समञ्जसमित्याहुः । तदभव्यमिव । अव्यक्तशब्देन तत्रापि प्रकृतेरनभिप्रेतत्वात् । अत एव न्यायदीपिका ‘देहादितया परिणतैतदुपघातादेव जीवो हिंसित इत्युच्यते’ इति । एतदुपघातात् देहादितया पीरणताव्यक्तशब्दितप्रकृत्युपघाताद् इति तदर्थः । एवं च न्याय-दीपिकारीत्या अव्यक्तशब्देन तात्पर्यकृदुपात्ताव्यक्तपरम्परापरिणामदेहादेरेव ग्राह्यतया आहत्य प्रकृतेर्न क्षेत्रत्वलाभ इति अपरे । अन्ये तु ‘ईश्वरातिरिक्तः सर्वोऽपि चेतनाचेतनवर्गः क्षेत्रमुच्यते’ इति त्रयोदशाध्यायटीकोक्तेः प्रकृतेरपि क्षेत्रत्वविवक्षया प्रकृत्यादिकं क्षेत्रमित्युक्तमिति वदन्ति ।
ननु समनन्तरातीताध्याये क्षेत्रस्य तदत्ययोपायस्य च निरूपितत्वाद् इह पुनस्तदुक्तौ पुनरुक्तिः । त्रयोदशाध्यायार्थविवेचनपरत्वे चास्य तदानन्तर्यापत्तिः । संसारतदत्ययोपाय-विज्ञानानामत्र प्रतिपादने वाक्यभेदापत्त्या एकवाक्यता च न स्यात् । कथं चानन्तर्यसङ्गतिः इत्यत आह– पूर्वाध्याय इति ।। वृत्तं वर्तनम् स्वस्वकार्यप्रवर्तकत्वरूपा स्थितिः । तत्साधनजिज्ञासुं संसारात्ययसाधनज्ञानेच्छुम् । ‘अन्नं बुभुक्षुः’ इति महाभाष्यप्रयोग इव ‘साधनजिज्ञासुम् इति प्रयोगो युक्तः । प्रागुक्तम् आ षष्ठसमाप्तेरुक्तम् । साधनम् ‘निर्मा-नत्वादिकम्’ इति भावप्रदीपिका
। तत्प्रसङ्गात् साधनप्रपञ्चप्रसङ्गात् । तथाच पूर्वाध्याये एकदेशकीर्तनम्, अत्र तु समग्रक्षेत्रप्रदर्शनम्, तदपि साधनप्रपञ्चनार्थमेव क्रियत इति न पुनरुक्तिः । अत एवानन्तरसङ्गतिश्च लब्धा । विज्ञानोक्तिश्च प्रासङ्गिकी । साधनं तु प्राधान्येन प्रतिपिपादयिषितम् इत्यध्यायैक्यं चोपपद्यत इति भावः ।
विलक्षणतया ज्ञातव्यं माहात्म्यं विज्ञानम् इत्यभिप्रेत्योक्तम्– अलौकिकं महिमानमिति ।। घटयितुम् वृक्षस्योर्ध्वमूलत्वम् अदृष्टचरम् इति; तद्धटनां कर्तुम् कुतः इत्यनन्तरं ‘चेत्’ इति शेषः । विष्णुनाऽपरोक्षीकृतेन निष्पापः निर्गतानि पापानि यस्मात् स तथा, निर्गतः पापेभ्य इति वा । तथा च सूत्रम् ‘तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ’ इति । ततः निष्पाप-त्वानन्तरम् ‘वाजिरूपश्च नेता च वाजिनीः सूर्य उच्यते’ इति तैत्तिरीयभाष्यं हृदि निधायाह– वाजिरूपश्चेति ।। वसतेरौणादिके कर्तरि उप्रत्यय एव वसुशब्दश्च इति भावेनोक्तं– वसतीति ।। ‘अमृतम्’ इत्यस्यार्थः – प्रारब्ध इति ।। सूर्ये स्थितस्य विष्णोः प्रारब्धकर्म-निर्मोचकत्वे प्रमाणम्– स तेजसीति ।। ‘यथा पादोदरस्त्वचा विनिर्मुच्यते, एवमेवायमात्मा पाप्मभिर्विमुच्यते’ इति शेषः । तेनैव सूर्यस्थितविष्णुनैव, तत्प्रसादेनैव ।
धनार्थो द्रविणशब्दः प्रेमास्पदत्वसादृश्यात् सुखमत्र ग्राह्यमिति भावेनोक्तम्– सुखं चेति ।। स्वयोग्यपूर्णानन्दरूप इत्यर्थः । ‘प्रारब्धकर्मनिर्मुक्तः’ इत्यनेन समुच्चयार्थश्चशब्दः । द्रविण-विशेषणं हि वर्चः शब्दः । अतः ‘सवर्चः’ इत्येव स्यात्, कथं ‘सवर्चसम्’ इति निर्देशः इत्यत आह– वर्चसशब्द इति ।। ‘यशसं वीरवत्तमम्’ इत्यादौ यशःशब्द इव वैदिकप्रयोगादेव अकारान्तताऽप्यस्तीति विज्ञायत इति भावः । योगविभागात् ‘ब्रह्महस्तिभ्यां वर्चसः’ इत्यत्र ब्रह्महस्तिभ्याम् इति एको योगः, ‘वर्चसः’ इत्यपर इति सूत्रविभागात्, तस्य चेष्टसिद्ध्यर्थत्वाद् वर्चश्शब्दस्य समासान्तेऽच्प्रत्यये तस्याकारन्तत्वमिष्टं सिध्यतीति भावः । उपलक्षणमेतत् । ‘अच् प्रति अनु अवपूर्वात् सामलोम्नः’ इत्यत्र ‘अच्’ इति योगविभागात् पद्मनाभशब्द इवात्रापि अच्प्रत्यय इत्यपि ज्ञेयमिति केचित् । ऊर्ध्वशब्दस्य विष्णौ श्रौतप्रयोगदर्शनाय ‘ऊर्ध्वपवित्रः’ इत्यंश एवोदाहर्तव्ये किमिति ‘वाजिनीव स्वमृतमस्मि’ इत्यधिकांशोदाहरणम् इत्यत आह– विष्णुप्रसङ्गेति ।। वाजिनीशब्दस्तावद् उक्तव्युत्पत्या सूर्यार्थकः । सूर्ये वसंश्च विष्णुरेव । ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः’ इति पुराणवचनादिति भावः ।
तस्य ऊर्ध्वशब्दस्य तत्र विष्णौ । उत्तमत्वं कथम् ऊर्ध्वशब्दस्य प्रवृत्तौ निमित्तम् इत्यत-स्तदुपपादयति– उन्नतो हीति ।। ‘उन्नतः’ इति ‘उच्चः’ इति ‘उत्तमः’ इति चानर्थान्तरमिति भावः । अत इति ।। मुख्यार्थेऽनुपपत्त्यभावादित्यर्थः । लक्षणेति ।। ऊर्ध्वत्वेन निमित्तेन सत्यादिलोकार्थकोर्ध्वशब्दस्य तत्स्थे विष्णौ लक्षणेत्यर्थः । सूक्ष्मत्वादिगुणयोग इति ।। ‘सूक्ष्मत्वात् कारणत्वात् नित्यत्वात् महत्त्वाच्चोर्ध्वमिति ब्रह्मोच्यते’ इति शङ्कररीत्या अतीन्द्रियत्वादिगुणेन ध्रुवमण्डलाद् ऊर्ध्ववस्तुसादृश्याद् ऊर्ध्वशब्दस्य विष्णौ गौणी वृत्तिर्वा नाश्रयणीयेत्यर्थः । ऊर्ध्वशब्देन उच्चपर्यायेण उत्तमत्वं प्राप्तम् । तच्च सप्रतियोगिकम् इत्यतो भाष्ये प्रतियोगिसमर्पणाय ‘सर्वतः’ इत्युक्तम् । तदनूद्यार्थमाह– सर्वतः सर्वस्मादिति ।। चेतनाचेतनात्मकादित्यर्थः । ‘तृतीयार्थे तसिः’ इति भावेन तस्य विवक्षितमर्थमाह– सर्वैश्च गुणैरिति ।। स्वतन्त्रत्वप्रमुखैः शुभधर्मैरित्यर्थः ।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।
कुर्मः पञ्चदशाध्यायटीकां भावप्रदीपिकाम् ।। १ ।।
।। वृत्तं स्थितिः । विज्ञानशब्दार्थमाह– भगवदिति ।। तथा च ‘विज्ञायते’ इति कर्मव्युत्पत्त्या विज्ञानशब्दो भगवन्महिमपर इति भावः । ततः विष्णुपरोक्षज्ञानेन निष्पापा-नन्तरम् । ‘वाजिरूपश्च नेता च वाजिनीः सूर्य उच्यते’ इति तैत्तिरीयभाष्यं हृदि निधायाह– वाजिरूपश्चेदिति ।। ‘सूर्यान्तर्गतं विष्णुं प्राप्य प्रारब्धकर्मनिर्मोकः’ इत्यत्र श्रुतिमाह– स तेजसीति ।। ‘स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते, एवमेवायमात्मा पाप्मभिः कर्मभिर्विनिर्मुच्यते’ इति बृहदारण्यकवाक्यादित्यर्थः । अन्यत्राप्युक्तम्–
‘वैश्वानरे द्युनद्यां वा देहे वा सूर्य एव वा ।
विधूय सर्वपापानि याति किंस्तुघ्नकेशवम् ।।’ इति ।
धनम् अनर्घ्यधनरूपः । सुखं सुखरूपः । ननु ‘वर्चसा सहितं सवर्चः’ इति स्यात्, ‘सर्वर्चसम्’ इति कथम् इत्यत आह– वर्चसशब्द इति ।। समासान्तो वेति ।। सवर्चस्शब्दात् समासान्ताच्प्रत्यये ‘सवर्चसम्’ इत्यकारान्तो भवति । ननु केवलात् वर्चस्-शब्दात् कथं समासान्ताच्प्रत्ययः? ‘ब्रह्महस्तिभ्यां वर्चसः’ इति सूत्रेण ब्रह्महस्तिशब्दाभ्यां परवर्चस्शब्दाद् अकारप्रत्ययो विहितः ‘ब्रह्मवर्चसः’ इति प्रयोगदर्शनात्, इत्यत उक्तं – ब्रह्महस्तिभ्यां वर्चस इत्यत्र योगविभागादिति ।। ‘ब्रह्महस्तिभ्याम्’ इत्येकं वाक्यम्, ‘वर्चसः’ इत्यपरं वाक्यम् । तथा च ब्रह्महस्तिभ्यां परात्, तथा केवलवर्चसश्चाकारप्रत्ययो भवतीत्यर्थः । ननु प्रयोगदर्शनाय ‘ऊर्ध्वपवित्रः’ इत्येतावत्येवोदाहर्तव्ये ‘वाजिनीवसु’ इत्यादि-श्रुतिशेषोदाहरणं कस्मात् कृतम् इत्यत आह– विष्णुप्रसङ्गेति ।। उक्तरीत्या वाजिनी-वसुशब्दस्य विष्णुपरत्वादिति भावः । तस्य तत्र प्रवृत्ताविति ।। ऊर्ध्वशब्दस्य विष्णौ प्रवृत्तावित्यर्थः । उत्तमत्वं कथमूर्ध्वशब्दप्रवृत्तिनिमित्तम्? इत्यत आह– उन्नतो हीति ।। उन्नतोत्तमशब्दयोः पर्यायत्वाद् उन्नतत्वमेवोत्तमत्वमित्यर्थः । अत इति ।। उन्नतत्वाख्योत्तमत्व रूपोर्ध्वशब्दमुख्यार्थानुपपत्त्यभावादित्यर्थः । ब्रह्मादिलोकेति ।। विष्णोः सत्यलोकाद्यपेक्षयोर्ध्व-स्थितत्वेन विष्णौ ऊर्ध्वत्वं लाक्षणिकम्, इत्येव लक्षणयैवोर्ध्वशब्दस्य विष्णौ वृत्तौ निमित्तमित्यर्थः । सूक्ष्मत्वादीति ।। ध्रुवमण्डलादिरूपोर्ध्ववस्तुनि स्थितस्य सूक्ष्मत्वादिगुणस्य विष्णौ सत्त्वात्, तस्य तत्र प्रवृत्तौ गौणी वृत्तिरेव निमित्तमित्यर्थः । तसेः सार्व-विभक्तिकत्वादाह– सर्वैश्चेति ।।
भावप्रकाशः
‘ऊर्ध्वमूलम्’ इत्यादिना प्रकृत्यादिक्षेत्रस्यैवोक्तत्वादाह– संसारत्यनेनेति ।। ‘करणेऽपि घञ्’ इति भावः । नन्वेवमप्यनुपपत्तिरेव । संसारकारणी-भूताविद्यादेः ‘ऊर्ध्वमूलम्’ इत्यादिना प्रदर्शनाभावादित्यत आह– प्रकृत्यादिकमिति ।। अतिप्रसङ्गपरिहारायादिपदसङ्ग्राह्यमाह– क्षेत्रमिति ।। ननु पूर्वाध्याये क्षेत्रस्य तदत्ययोपायस्य चोक्तत्वात् पुनरुक्तिः । बहूनां प्रतिपादनेऽध्यायैक्यं च न स्यात् । अनन्तरसङ्गतिश्च कथमित्यत आह– पूर्वाध्याय इति ।। तथा च पूर्वाध्यायोक्तप्रपञ्चनान्न पुनरुक्तिरिति भावः । अत एवानन्तरसङ्गतिश्च । क्षेत्रोक्तेः साधनप्रपञ्चनार्थत्वाद्विज्ञानोक्तेश्च प्रासङ्गिकत्वात् साधनस्यैव प्राधान्येन प्रतिपाद्यत्वमित्यध्यायैक्यं चोपपद्यत इति भावः । विज्ञानपदार्थमाह– अलौकिकं भगवन्माहात्म्यमिति ।। निष्पाप इति ।। सञ्चितपापशून्य इत्यर्थः । ‘वाजिरूपश्च नेता च वाजिनीः सूर्य उच्यते’ इति प्रमाणानुसारेणाह– वाजिरूपश्चेति ।।
सूर्यस्थविष्णोः प्रारब्धकर्ममोचकत्वे प्रमाणमाह– स तेजसीति ।। ननु वर्चश्शब्दस्य सकारान्तत्वात् ‘सवर्चः’ इति वक्तव्ये सवर्चसमिति कथमुक्तमित्यत आह– वर्चसशब्द इति ।। योगविभागादिति ।। ‘वर्चसः’ इति योगविभागात् तस्य चेष्टसिद्ध्यर्थत्वात् वर्चःशब्दान्त-बहुव्रीहिः समासान्तोऽच्प्रत्यय इत्यर्थः । उपलक्षणमेतत् । अच्प्रत्ययेेति इत्यत्र अजिति योगविभागस्य च इष्टसिद्ध्यर्थत्वात् वर्चःशब्दवदित्यपि ग्राह्यम् । उत्तमत्वं कथमूर्ध्वशब्द-प्रवृत्तिनिमित्तमित्यत आह– उन्नत इति ।। ‘उन्नत उत्तमः’ इति चानर्थान्तरमिति भावः । अत इति ।। मुख्यार्थेऽनुपपत्त्यभावादिति भावः । ब्रह्मादिलोकस्थत्वादिति ।। ऊर्ध्वत्वेन निमित्तेन ब्रह्मादिलोकार्थो य ऊर्ध्वशब्दस्तेन तत्स्थविष्णुलक्षणेत्यर्थः । द्वितीयादिपदेन तदाश्रयत्वं ग्राह्यम् । सूक्ष्मत्वादीति ।। सूक्ष्मत्वादिगुणेन ध्रुवमण्डलादूर्ध्ववस्तुसादृश्या-दूर्ध्वशब्दस्य विष्णौ गौणी वेत्यर्थः । वृक्षमात्रसाम्यमिति ।। ‘पृथङ्मूलं हरिस्तस्य जगद्वृक्षस्य भूमिवत्’ इति नारायणश्रुतौ वृक्षमात्रत्वोक्तेरिति भावः ।