आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ।। १२ ।।

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ।। १२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु आशापाशशतरैरिति ।। आशाः अभिलाषाः, पाशा इव तेषां शतैः, बहुविषयावगाहिभिः अभिलाषैरिति यावत्, बद्धाः इतस्तत आकृष्य-माणाः । कामक्रोधौ परमयनं येषां ते कामक्रोधपरायणाः कामभोगार्थं विषयानुभवप्रयोजनाय अन्यायेन परस्वापहारादिरूपेण अर्थसञ्चयान् द्रविणराशीन् ईहन्ते इच्छन्ति । अर्थसंचयान् ईहन्ते चेष्टन्ते व्याप्रियन्त इति अन्ये ।। १२ ।।