तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ।। ३३ ।।

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।

मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ।। ३३ ।।

भाष्यम्

कालशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची । ‘कल बन्धने’ ‘कल च्छेदने’ ‘कल ज्ञाने’ ‘कल कामधेनौ इति हि पठन्ति । प्रसिद्धश्च स शब्दो भगवति ।

नियतं कालपाशेन बद्धं शक्र विकत्थसे ।

 अयं स पुरुषः श्यामो लोकस्य हरति प्रजाः ।

 बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा’

इति मोक्षधर्मे विष्णुना बद्धो बलिर्वक्ति ।

विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे’ इति भागवते ।।

भावप्रदीपिका

ननु परिहारे गुणाकथनात् कथं गुणप्रश्नः ? इत्यत आह– कालेति । ननु कालशब्दस्य रुद्रादिवाचित्वमेव किं न स्यादित्यत आह– प्रसिद्धश्चेति ।

प्रमेयदीपिका

एवं तर्हि ‘कालोऽस्मि’ इत्युत्तरमयुक्तम् । धर्मानुक्ते-रित्यत आह– कालेति ।। धर्मविशिष्टभगवद्वाचीत्यर्थः । कुत एतदित्यत आह– कलेति ।। यथा कामधेनुः सर्वार्थान् ददाति तथाऽयमपि धातुः सर्वार्थवाचीत्यर्थः । तथाच अस्मादण् । कर्तरि घञ् वा । ‘जगत्’ इति च योग्यतया सम्बद्ध्यते । भवत्वयं बन्धनादिधर्मवद्वावाची । भगवद्वाची तु कुतः । अन्यत्र रूढत्वादित्यत आह– प्रसिद्धश्चेति ।। बद्धं मां प्रति विकत्थसे । आत्मानं तु श्लाघसे । कः कालः? अयम् । कथम्? श्यामः प्रजाः हरति । बद्ध्वा तिष्ठति रौद्रश्चेति । अत्र कथं विष्णुवाचित्व-निश्चयः? इत्यत आह– विष्णुनेति ।। कालनामा विग्रहो यस्यासौ तथोक्तः ।।

वाक्यार्थप्रदीपः

।। अणिति ।। तथाच णित्त्वादुपधावृद्धौ काल इति रूपसिद्धिरित्यर्थः ।। कर्तरि घञिति । अकर्तरि च कारके इत्यस्य नञा निर्दिष्टत्वेन अनित्यत्वात् कर्तर्यपि ञित्वादुपधावृद्धौ विवक्षितरूपसिद्धिरिति भावः ।।

भावरत्नकोशः

।। एवं तर्हि ‘धर्मान्तरज्ञानार्थमेव प्रश्नकरणम्’ इति पक्षे । धर्मानुक्तेरिति ।। कालशब्दस्य रूढ्या यमसमयरूपधर्मिविशेषसमर्पकत्वादिति भावः । धर्म-वाचकत्वे ‘कालोऽस्मि’ इति सामानाधिकरण्यानुपपत्तिः इत्यत आह– धर्मविशिष्टेति ।। अयमपि धातुरिति ।। यद्यपि प्रसिद्धधातुपाठे ‘कल शब्दसङ्ख्यानयोः’ इति भौवादिक एकः, ‘कल गतौ सङ्ख्याने च’ इति चुरादावदन्तोऽपरः, ‘कल विक्षेपे’ इति तत्रैवान्य इति त्रिविध एव कलधातुर्लक्ष्यते । तथापि चिरन्तनव्याकरणाद्यनुसारिसर्वज्ञभाष्यकारवचनप्रामाण्यात्, ‘कलिः कामधेनुः’ इति लोकप्रसिद्ध्यनुसाराच्चेयमुक्तिः । अणिति ।। कलते बध्नाति, छिनत्ति, जानातीति वा काल इति कर्तरि औणादिकेऽण्प्रत्यये उपधावृद्धौ च निष्पन्नः कालशब्दः जगद्बन्धकत्वादिगुणविशिष्टं भगवन्तं वक्तीति भावः । घञ्वेति ।। ‘कृत्यल्युटो बहुलम्’ इत्यत्र बहुलग्रहणात् तस्य च सर्वोपाधिव्यभिचारार्थत्वात् ‘अकर्तरि’ इति शास्त्रप्रवृत्तौ कालशब्द इत्यर्थः ।

अन्यत्र यमसमयादौ । ‘मां श्लाघसे’ इत्यन्वयस्यानवसरत्वाद् उक्तम्– मां प्रतीति ।। ‘श्लाघसे’ इत्यत्र कर्मोक्तिः– आत्मानमिति ।। ‘कत्थ श्लाघायाम्’ इति धातुः । क इति ।। ‘कालपाशेन’ इत्यत्र कालशब्देन विवक्षित कालः क इति प्रश्नः । परिहारः– अयमिति ।। अयं कालः स पुरुषः परमात्मेत्यर्थः । कथं केन प्रवृत्तिनिमित्तेन कालशब्दवाच्य इत्यर्थः । श्यामः इति प्रथमं कालशब्दप्रवृत्तिनिमित्तम्, ‘कृष्णे नीलासितश्यामकालश्यामलमेचकाः’ इत्यभिधानात् । प्रजाः हरति इति द्वितीयम्, ‘कल च्छेदने’ इति धातोेः । न्यायदीपिकायां ‘कल संहरणे’ इत्यपि पठितम् । बद्ध्वा तिष्ठति ‘बन्धकः’ इति तृतीयम्, ‘कल बन्धने’ इति पाठात् । रौद्रः उग्ररूपश्चेत्यर्थः । अत्रत्य‘इति’शब्दः ‘श्यामः’ इत्यादौ प्रत्येकं सम्बद्ध्यते । ‘कालो विग्रहो यस्य’ इति विग्रहे प्रकृतोपयोगः न स्फुटं प्रतीयते, इत्यतोऽभिप्रेतं विग्रहं दर्शयति– कालनामेति ।।

भावदीपिका

‘केन धर्मान्तरेण विशिष्टस्त्वम्’ इति प्रश्ने, ‘अहं कालोऽस्मि’ इति कथनमसङ्गतम् ? कालशब्दस्य भगवद्धर्मवचित्वे ‘जगद्बन्धनादिधर्माऽस्मि’ इत्युत्तरस्या-सङ्गतत्वात्, प्रत्ययविशिष्टस्यातदर्थत्वाच्चाह– धर्मविशिष्टेति ।। अणित्यादि ।। ‘कल’ इत्यस्माद् अणि णित्त्वात्, घञि ञित्त्वाद्वा ‘अत उपधायाः’ इति उपधावृद्धौ, प्रत्ययाकार-सम्बन्धे च सति ‘कालः’ इति रूपम् । अन्यत्रेति ।। क्षणलवादावित्यर्थः । श्लाघसे स्वात्मस्तुतिं करोषि । कथम् केन निमित्तेन कालशब्दवाच्यः । ‘कल कामधेनुः’ इति धातोः ‘श्यामो रौद्रश्च’ इति कालशब्दार्थकथनं युक्तम् । ‘कालश्यामलमेचका’ इत्यभिधानाच्च श्यामत्वं कालशब्दार्थ इति च द्रष्टव्यम् । ‘प्रजाः हरति’, ‘मां बद्ध्वा तिष्ठति’ इत्यपि कालशब्दार्थकथनं युक्तम् । ‘कल च्छेदने’ ‘कल बन्धने’ इति धातोरिति ज्ञेयम् । प्रमाणे ‘लोकस्य रौद्रः भयङ्करः’ इत्यन्वयो द्रष्टव्यः ।

भावप्रकाशः

धर्मवाचित्वे कालोऽस्मीति सामानाधिकरण्यानुपपत्तिरित्यत आह– धर्मविशिष्टेति ।। अणिति ।। कलतेऽसाविति कालः । औणादिकोऽण् उपधावृद्धिश्चेति भावः । कतरि घञ् वेति । घञः कर्तृभिन्नकारकार्थत्वेऽपि कृत्यल्युटो बहुलमित्यत्र बहुलमिति योगविभागेन कृन्मात्रस्यार्थव्यभिचारोक्तेः कर्तरीत्युक्तम् ।

।। श्लाघस इति ।। कत्थ श्लाघायामित्युक्तेरिति भावः । कथमिति ।। केन प्रवृत्तिनिमत्तेन कालशब्दवाच्य इत्यर्थः । श्याम इत्येकं प्रवृत्तिनिमित्तं कृष्णे नीलासितश्यामकालश्यामलमेचका इत्यमरोक्तेः । प्रजा हरतीति ।। द्वितीयं कल च्छेदन इत्युक्तेः । वध्वा तिष्ठतीति तृतीयं कलबन्धन इति धातोरिति विवेकः । रौद्रश्चेति ।। रौद्रं तु उग्रममी त्रिषु इत्यमरोक्तेरुग्र इत्यर्थः । अस्मिन् पक्षे कालशब्दः प्रकृतपुरुषे गौणः ‘कालो दण्डधरः’ इत्यमरोक्तेः । यमवाचिनः कालशब्दस्य तन्निष्ठेग्रत्व गुणयोगेन प्रकृते प्रयोगादिति । भाष्ये रशनाशब्दो रज्जुवाची ।

 

Load More