अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। १४ ।।
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। १४ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु किञ्चाहम् उपजीव्यतया विश्वनरसम्बन्धी वैश्वानरः जाठरजातवेदा भूत्वा प्राणिनां देहमाश्रितः देहे प्रविष्टः सन् प्राणापानाभ्यां मुख्यप्राण-रूपाभ्यां समायुक्तः सहितः, ‘भक्ष्यम्, भोज्यम्, लेह्यम्, चोष्यं च’ इति चतुर्विधमन्नं प्राणिभि-र्भुक्तं पचामि पक्त्वा देहाद्युपचयकारणं करोमि । यत्र यद् दन्तैरवखण्ड्य भक्ष्यते अपूपादि तद् भक्ष्यम् । यत्तु केवलं जिह्वया विलोड्य निगीर्यते पायसादि तद् भोज्यम् । यत्तु जिह्वायां निक्षिप्य रसास्वादनेन निगीर्यते द्रवीभूतं गुडादि तल्लेह्यम् । यत्तु दंष्ट्रादिभिर्निष्पीड्य रसांशं निगीर्य अवशिष्टं त्यज्यते इक्षुखण्डादि तच्चोष्यमिति चतुर्विधमन्नं विवेचयन्ति ।। १४ ।।
भावप्रकाशः
गीतायां पचाम्यन्नं चतुर्विधमिति । भक्ष्यं भोज्यं लेह्यं चोष्यं चेत्यन्नं चतुर्विधम् । तत्र दन्तैरवखण्ड्य यद् भुज्यते तद्भक्ष्यम् । यत् तु अनति-काठिन्यादप्रयत्नवत् खण्डानपेक्षं चर्वयित्वैव निगीर्यते तद्भोज्यम् । लेह्यं प्रसिद्धम् । यस्योष्ठदशनरसनादिभिः निष्पीडितस्य सफूत्कारेण मुखमारुतेन रसो निष्पीयते तच्चोष्यम् । यथेक्षुखण्डादीति ।। १४ ।।