यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ।। ४१ ।।

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ।। ४१ ।।

भाष्यम्

यद्यद्विभूतिमदिति विस्तरः । विष्ण्वादीनि तत्स्वरूपाण्येव । अन्यानि तु तेजोयुक्तानि । तथाच पैङ्गिखिलेषु–

विशेषका रुद्रवैन्येन्द्रदेवराजन्याद्या अंशयुताऽन्यजीवाः ।

 कृष्णव्यासौ रामकृष्णौ च रामकपिलौ यज्ञप्रमुखाः स्वयं सः’ इति ।

स एवैको भार्गवदाशरथिकृष्णाद्यास्त्वंंशयुताऽन्यजीवाः’ इति गौतम-खिलेषु । ‘ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ।। एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’ इति भागवते ऋष्यादीन् अंशयुतत्वेनोक्त्वा वराहादीन् स्वरूपत्वेनाह ।।

भावप्रदीपिका एष तूद्देशतः इति पूर्वपरामर्शो भवतीत्याह– यदिति ।। प्रोक्तः इति ।। शास्त्रान्तर इत्यर्थः । मम तेजोंशसम्भवम् इति विष्ण्वादीनामप्यंश-संयुक्तत्वशङ्कां सप्रमाणकं निराचष्टे– विष्ण्वादीनामिति ।। विशेषकाः गरुडानन्त-ब्रह्माणः ।

प्रमेयदीपिका

‘एष तूद्देशतः’ इति ‘एतत्’शब्दोऽनुक्रान्तपरामर्शी इति प्रतीतिनिरासार्थम् आह– यद्यदिति ।। वक्ष्यमाणं बुद्धिस्थमेतच्छब्देन परामृश्यते । शृङ्गग्राहिकयोक्तेरपि लक्षणोक्तेर्विस्तरत्वादिति भावः ।। विभूतिमदादिकं मम तेजो-रूपेणांशेन सह भवतीत्युक्त्या विष्ण्वादीनाम् अपि भगवदंशयुक्तत्वं प्रतीयते । तेषामप्येतल्लक्षणोपेतत्वात् । तन्निवृत्त्यर्थमाह– विष्ण्वादीनीति ।। तर्हि किंविषय-मेतद्वाक्यम्? इत्यत आह– अन्यानि त्विति ।। कुत एतत्? इत्यत आह– तथा चेति ।। विशेषकाः गरुडानन्तविरिञ्चाः । वैन्यः पृथुः । राजन्यग्रहणेन गृहीतस्यापि पुनरुक्तिः साक्षादवतारत्वविशेषोक्तिबाधनार्थम् । कृष्णः धर्मसूनुरपि । रामः भार्गवोऽपि । अंशयुक्तत्वेनोक्त्वा ‘कलाः’ इत्यनेन कला इव कलाः । न स्वरूपत्वेन । ‘एते स्वांशकलाः’ इत्यनेन स्वरूपांशरूपा एव कलाः । नतु पूर्ववदुपचारेणेति ।।

भावबोधः

।। श्रृङ्गग्राहिकयेति ।। ‘आदित्यानामहं विष्णुः’ इत्यादि-व्यक्तिविशेषोक्तेरपि ‘यद्यद्विभूतिमत्’ इति लक्षणोक्तेः बहुसङ्ग्राहकत्वादिति भावः । प्रकृता-पेक्षयेति ।। भागवते मृडयन्तीति क्रियोक्तेरिति भावः ।। ४१ ।।

भावदीपः

।। शृृङ्गग्राहिकयेति ।। ‘आदित्यानामहं विष्णुः’ इत्यादिव्यक्ति-विशेषोक्तितोऽपि ‘यद्यद् विभूतिमत्’ इति लक्षणोक्तेरनेकसङ्ग्राहकत्वादिति भावः ।। किंविषय-मेतद्वाक्यमिति।। ‘यद्यत्’ इति वाक्यम् ।। धर्मसूनुरपीति ।। वासुदेवः कृष्णः ‘अपि’ पदार्थः।। भार्गवोऽपीति ।। दशरथरामोऽपिपदार्थसमुच्चेयः ।। उक्तत्वेनेति भाष्ये ‘केन’ इत्याकाङ्क्षां पूरयति– कला इत्यनेनेति ।। तेन तदर्थलाभप्रकारमाह– कला इव कला इति ।। ‘स्वरूपत्वेनाह’ इति भाष्ये ‘केन’ इत्याकाङ्क्षां पूरयति– स्वांशकला इत्यनेनेति ।। तदर्थमाह– स्वरूपांश एवेत्यादि ।।

भावरत्नकोशः

।। वक्ष्यमाणं बुद्धिस्थम् । ‘वक्ष्यमाणतया बुद्धिस्थम्’ इति तद्ग्रहणे निमित्तकथनम् । अनुक्रान्तपरामर्शित्वाभावे उपपत्तिमाह– शृङ्गग्राहिकयेति ।। ‘धात्वर्थनिर्देशे ण्वुल् वक्तव्यः’ इति वचनात्् ण्वुलन्तोऽयं शब्दः । ‘आदित्यानामहं विष्णुः’ ‘वृष्णीनां वासुदेवोऽस्मि’ इत्यादिरूपेण गोः शृङ्गग्रहणेनेवोक्तेरपि लक्षणोक्तेः बहुव्यक्तिग्राहकत्वाद् विस्तरोक्तित्वं स्वरसम् इति एतच्छब्देन वक्ष्यमाणस्य ग्रहणं युक्तमिति भावः । विभूतिमदादिकं विभूतिमत्, श्रीमद्, ऊर्जितं च तेषां विष्ण्वादीनाम् एतल्लक्षणोपेतत्वात् विभूतिमत्, श्रीमद्, ऊर्जितमित्युक्तलक्षणोपेतत्वात् । तर्हि विष्ण्वादिरूपाणां स्वरूपत्वे, एतद्वाक्यं ‘यद् विभूतिमदादिकं तत् मम तेजोंशसम्भवम्’ इति वाक्यम् । कुत एतत् विष्ण्वादीनि स्वरूपाणि, अन्यानि तु तेजोयुक्तानि इति व्याख्यानं कुतः प्रमाणात् ज्ञातव्यमित्यर्थः । विशेषक-शब्दोऽखण्डप्रातिपदिकं व्यावर्तकवचनश्चेत््् प्रकृतानुपयोगः ? इत्यतस्तदर्थमाह– गरुडानन्त-विरिञ्चा इति ।। विः पक्षी गरुडः । अनन्तः शेषदेवः । कः विरिञ्च इति विवेकः । अप्रतीतेर्व्याख्याति– वैन्यः पृथुरिति ।। विशेषोक्तीति ।। ‘जातो नारायणांशेन पृथू राजा क्षितीश्वरः’ ‘नवमं पार्थिवं वपुः’ इत्यादिविशेषोक्तात्यर्थः ।

कृष्णव्यासौ’ ‘रामकृष्णौ’ ‘रामकपिलौ’ इत्यत्र कृष्णशब्दो रामशब्दश्च द्विरुपात्तः । तत्रैको वसुदेवसूनुः कृष्णः, दशरथसूनू रामश्च प्रसिद्धः । अपरः कृष्णो रामश्च कौ ? इति न प्रतीयते । अत आह– कृष्णो धर्मसूनुरपि रामो भार्गवोऽपीति ।। न केवलं वसुदेवसूनुः कृष्णः स्वयं भगवान् परमपुरुषः । अपि तु अन्यः कृष्णो धर्मसूनुरपि स्वयं सः । न केवलं दाशरथी रामो भगवान्, किन्त्वन्यो रामो भार्गवोऽपीति प्रत्यायनाय अपिशब्द इति स्वामिनः । अन्ये तु आद्यकृष्णशब्दार्थोक्तिः धर्मसूनुरिति, द्वितीयरामशब्दार्थोक्तिः भार्गव इति । यद्यपि धर्मात्, भृगोरप्युत्पन्न इति उत्पत्त्यादिदोषित्वात् न भगवत्त्वमिति शङ्का । तथापि,

न च गर्भेऽवसद्देव्या न चापि वसुदेवतः ।

 न चापि राघवाज्जातो न चापि जमदग्नितः ।

 नित्यानन्दाद्वयोऽप्येवं क्रीडतेऽमोघदर्शनः ।।’

इत्यादिशास्त्रावमर्शेन तत्सूनुत्वमपि तत्र प्रादुर्भावेनैव, न तु स्त्रीपुंसमलाभियोगात्मक-देहयोगित्वेन इत्येवं निश्चीयत इत्येतमर्थमावेदयितुम् अपिशब्द इति व्याचक्षते । ‘अंशयुक्त-त्वेनोक्त्वा’ इति भाष्ये शेषमाह– कला इत्यनेनेति ।। कथं तेन तल्लाभः ? इत्यतो व्याख्याति– कला इव कला इति ।। ‘स्वरूपत्वेन’ इति भाष्यप्रतीकग्रहणम् । तत्र शेषोक्तिः– स्वांशकला इत्यनेनेति ।। तेनोक्तार्थलाभाय व्याचष्टे– स्वरूपांशरूपा एवेति ।। पूर्ववत् कला इव कला इतिवत् । एकत्र कलाशब्दः, अपरत्र स्वांशकलाशब्द एव भिन्नांशत्वे स्वरूपांशत्वे च मानमिति हृदयम् ।

भावदीपिका

।। अनुक्रान्तेति ।। पूर्वोपक्रान्तेत्यर्थः । वक्ष्यमाणमिति ।। तथा च ‘प्रोक्तो यः स उद्देशतः, एष तु वक्ष्यमाणो विस्तरः’ इत्यन्वयेनार्थो द्रष्टव्यः । ननु ‘एष पूर्वोक्त एव विस्तरः’ इत्येतच्छब्दस्य पूर्वप्रकृतपरामर्शकत्वमेव किं न स्यात् ? इत्यत आह– शृङ्गग्राहिकयेति ।। ‘आदित्यानामहं विष्णुः’ इति व्यक्तिविशेषोक्तेरपि ‘यद्यद्विभूतिमत्’ इति लक्षणोक्तेर्बहुसङ्ग्राहकत्वेन पूर्वोक्तस्य विस्तरत्वाभावान्नैतच्छब्दः पूर्वानुक्रान्तपरामर्शीत्यर्थः । ‘विभूतिमदादिकम्’ इत्यत्रादिपदेन श्रीमदादिकं ग्राह्यम् । एतल्लक्षणेति ।। विभूतिमत्त्वादि-लक्षणेत्यर्थः । एतद्वाक्यम् ‘यद्यद्विभूतिमत्’ इति वाक्यम् । साक्षादवतारत्वविशेषोक्तीति ।। ‘एषा विष्णोर्भगवतः कला भुवनपावनी ।’‘विष्णुकलाऽसि वैन्य’ इत्यादि साक्षाद्भगवतारत्व-प्रतिपादकभागवतादिग्रन्थविशेषोक्तीत्यर्थः ।

धर्मसूनुरपीति ।। यमधर्मात् नारायणहरिकृष्णानामुत्पन्नत्वेन धर्मसूनुरपि कृष्णोऽस्तीति सोऽत्र ‘कृष्णव्यासौ’ इत्यत्र कृष्णशब्देन ग्राह्यः । द्वितीयकृष्णशब्देन तु ‘यादवकृष्णः’ इति भावः । रामो भार्गवोऽपीति ।। भार्गवोऽपि रामोऽस्तीति सोऽत्र ‘रामकपिलः’ इत्यत्र राम-शब्देन ग्राह्यः । द्वितीयरामशब्देन तु ‘दाशरथिः’ इति भावः । ‘कलाः’ इत्यनेन साक्षादंशत्व-प्रतीतेः कथमेतत् ? इत्यत आह– कला इवेति ।। ‘स्वांशकलाः’ इत्यनेन कथं स्वरूपांशत्व-लाभः इत्यत आह– स्वरूपांशरूपा एवेति ।। पूर्ववत् ऋष्यादिवत् ।

भावप्रकाशः

अनुक्रान्तपरामर्शित्वे बाधकमाह– शृृङ्गिग्राहिकयेति ।। धात्वर्थनिर्देशे ण्वुल् वक्तव्य इति ण्वुलन्तोऽयम् । ततः शृृङ्गग्रहणेनेत्यर्थः । विस्तरत्वादिति ।। आदित्या नामहं विष्णुरिति व्यक्तिविशेषोक्तेरपि यद्यद्विभूतिमदिति लक्षणोक्तेः बहुसङ्ग्राहकत्वादिति भावः ।।

 

Load More