निर्मानमोहा जितसङ्घदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ।।५।।

निर्मानमोहा जितसङ्घदोषा अध्यात्मनित्या विनिवृत्तकामाः ।

द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ।।५।।

भाष्यम्

साधनान्तरमाह– निर्मानेति ।। ५ ।।

भावप्रदीपिका

तमेव इत्यनेनैवोपायकथने निर्मानम् इति किमर्थम् ? इत्यत आह– साधनान्तरमिति ।। ५ ।।

प्रमेयदीपिका

तर्हि ब्रह्मज्ञानसाधनं विश्वविमर्शः । तत्र साधनं च तत्प्रपत्तिरिति समस्तमुक्तम्। किमुत्तरेण? इत्यत आह– साधनान्तरमिति ।। ५ ।।

भावरत्नकोशः

उत्तरभाष्यमवतारयन् वृत्तनिर्गलितमनुवदति– तर्हीति ।। ‘प्रपत्तेर्विश्वविमर्शोपायत्वे’ इत्यर्थः । समस्तम् आकाङ्क्षितं सर्वम् । साधनान्तरमितीति ।। ‘ब्रह्मज्ञाने’ इति शेषः ।।

गीताक्षरार्थस्तु– ‘एवम् ‘अश्वत्थमेनम्’ इत्यत्र ‘एनमश्वत्थं छित्वा कार्यत्वपरतन्त्र-त्वादिना विमृश्य, परं तत् परिमार्गितव्यम् इति विश्वावमर्शस्य ब्रह्मज्ञानं प्रत्युपायत्वमुक्तम् । ब्रह्मज्ञानस्य किं फलम् इत्याकाङ्खायाम् ‘यस्मिन् गता न निवर्तन्ति भूयः’ इति प्राप्तपरब्रह्म-स्वरूपाणाम् अपुनरावृत्तिलक्षणं फलं चोक्तम् । इदानीं विश्वविमर्शादन्यच्च ब्रह्मज्ञानसाधनं तज्ज्ञानफलं चाव्ययमित्युच्यते– निर्मानेति ।। निर्गतौ मानमोहौ अहङ्कारमिथ्याप्रत्ययौ येभ्यस्ते निर्मानमोहाः, जितः सङ्गदोषः दुर्जनसङ्गलक्षणदोषो यैस्ते जितसङ्गदोषाः,

मृतौ वाऽपि न चाप्येकत्ववादिभिः ।

 समत्ववादिभिश्चाहं सङ्गच्छेयं कथञ्चन’

इत्यादेः । अध्यात्मनित्याः अध्यात्मे श्रवणादिना परमात्मस्वरूपालोचने नित्याः ध्रुवाः परिनिष्ठिताः, विनिवृत्तकामाः विशेषतो निवृत्तकाम्यकर्मनिषिद्धविषयाभिलाषाः, सुखदुःखसंज्ञैः सुखदुःखहेतुत्वात् लक्षणया ‘सुखं दुःखम्’ इति संज्ञा शब्दो येषां तानि तैः द्वन्द्वैः शीतोष्ण-लाभालाभजयापजयादिरूपैः विमुक्ताः अत एव विमूढाः निवृत्ताविद्याः रजस्तमस्स्वभावशून्या वा, अव्ययं तत्पदं भगवत्स्वरूपं गच्छन्ति अवगच्छन्ति, ततः प्राप्नुवन्ति च इति, ‘गच्छन्ति’ इत्यस्यार्थद्वयं द्रष्टव्यम् । ‘इदं च साधनान्तरमाह’ इति भाष्येण ‘कीदृशं तत्पदं यत्प्राप्तिः पुरुषार्थः’ इति टीकया च गम्यते । साधनान्तरम् इत्यत्र विश्वविमर्शादन्यद् ब्रह्मज्ञाने साधनं निर्मानत्वादि इत्यर्थस्य प्राप्तिः पुरुषार्थ इत्यस्य स्फुटमवगमादिति ।। ५ ।।