यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ।। ५ ।।

यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ।। ५ ।।

भाष्यम्

एकमपि’ (५.४) इत्यस्याभिप्रायमाह– यत् साङ्ख्यैरिति ।। योगिभिः अपि ज्ञानद्वारा ज्ञानफलं प्राप्यते इत्यर्थः ।। ५ ।।

भावप्रदीपिका

एवमप्युत्तरार्धे योगस्य ज्ञानान्तरङ्गत्वं (कथं) कर्मण इत्याशङ्क्य, उत्तरश्लोकमवतार्य व्याचष्टे– एकमिति ।। ५ ।।

भावप्रकाशिका

ननु यद्यपि ज्ञानमेकमास्थितः कर्मफलमपि विन्दते स्वर्गादिकम् । ‘पुरुषार्थोऽतःशब्दात्’ इत्यादेः । तथाऽपि कर्मणो ज्ञानाङ्गत्वे किमायातमित्यत आह– एकमपीत्यस्येति । यथा साङ्ख्यैः कर्मफलं प्राप्यते, तथा योगिभिरपि ज्ञानफलं प्राप्यते । तदपि ज्ञानद्वारा । ‘नान्यः पन्था अयनाय विद्यते’, ‘कर्मणा ज्ञानमातनोति, ज्ञानेनामृती भवति’ इत्यादिश्रुतेः । अतः कर्मणो ज्ञानान्तरङ्गत्वमित्यर्थः ।। ५ ।।

प्रमेयदीपिका

योगस्य ज्ञानसाधनत्वे प्रमिते भवेदेतत् । तदेव कथम्? इत्यत उक्तम्– एकमपीति ।। तदनुपपन्नम् । उभयोर्मध्ये सम्यगेकमप्यास्थितः फलं विन्दत इति योजनायां द्वयोः साफल्यमात्रमुच्यते । एकमपि सम्यगास्थित उभयोः फलं विन्दत इति पक्षे तु द्वयं किञ्चित् फलं प्रति स्वतन्त्रसाधनमित्युच्यते। पक्षद्वयेऽपि न प्रकृतोपयोग इत्यत आह– एकमपीति ।। एवमनुपयोगेऽपि भगवानेव स्ववाक्याभिप्रायमाह । स ग्राह्य इत्यर्थः ।। अनेनापि योगस्य ज्ञानसाधनत्वे किं प्रमाणमुक्तम्? इत्यतो व्याचष्टे– योगिभिरपीति ।।

तरति शोकमात्मवित्’ (छां.उ.) इत्यादिना यत् ज्ञानफलं मोक्षाख्यं प्रमितं तत्तावत् योगिभिरपि प्राप्यते इत्युच्यते ‘अपाम सोमम््’ (ऋ.६.४.११) इत्यादिना । तत्र विचार्यम्- किं द्वयमपि स्वतन्त्रं मुक्तिसाधनम्, उत समुच्चितम्? अथचैकं साक्षात् साधनम्, अपरं तत्साधनत्वेनेति । न प्रथमद्वितीयौ । ‘नान्यः पन्थाः’ (श्वे.उ.६.१५) इत्यादि विरोधात् । तृतीयेऽपि चिन्त्यं किं कस्य साधनमिति? तत्र न तावज्ज्ञानं कर्मसाधनत्वेन मोक्षहेतुः ।‘न किञ्चिदन्तराधाय’ इत्यादिविरोधात् । अतः परिशेषाद् योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इति सिद्ध्यति । तथाच योगस्य ज्ञानसाधनत्वं सिद्धमित्यर्थः । अत्र ‘योगिभिः’ इति वदता योगशब्दो धर्मिणामुपलक्षकः, अर्श आद्यजन्तो वेति सूचितम् ।। ५ ।।

भावबोधः

।। न प्रकृतोपयोग इति ।। योगस्य ज्ञानसाधनत्वासिद्धेरिति भावः ।।

वाक्यार्थप्रदीपः (पां.टि.)– ।। अर्श आद्यजन्तत्वेति ।। योगो विधते यस्येति मत्वर्थे अर्शादिभ्योऽच् इति अचि जयन्त इत्यादिवत् योगशब्दो योगपर इति भावः ।।

भावदीपः

।। न प्रकृतोपयोग इति ।। योगस्य ज्ञानहेतुत्वासिद्धेरिति भावः । योगिभिरिति ।। कर्मयोगवद्भिरित्यर्थः ।। योगशब्द इति ।। गीतास्थः ‘योगैः’ इतिशब्द इत्यर्थः

।। ५ ।।

भावरत्नकोशः

भाष्यं घटयितुं गीतामवतारयति– योगस्येति ।। ‘उभयोः’ इत्यस्य किम् एकशब्देनान्वय उत फलशब्देनेति विकल्पं मनसि निधाय आद्ये आह– उभयोर्मध्ये सम्यगेकमपीति । द्वितीय आह–एकमपीति । ‘इति हि योजनायाम्’ इत्यत्र हिशब्दो ‘यतः’ इत्यर्थे वर्तमानो ‘यत उभयोः’ इति । ‘यत एकमपि’ इति च सम्बध्यते । तेन ‘तदुपपन्नम्’ इति साध्ये हेतुरुक्तो भवति । ‘पक्षद्वयेऽपि’ इत्यतः पूर्वं ‘तथा च’ इति योज्यम् । न प्रकृतोपयोग इति । योगस्य ज्ञानसाधनत्वालाभादिति भावः । एवमनुपयोगेऽपि उक्तयोजनाद्वयप्रकारेणा-नुपयुक्ततया प्रतीयमानत्वेऽपि । ‘आह’ इत्याख्यातोपात्तकर्तारमाह– भगवानिति ।।

अनेनापि योगस्य ज्ञानसाधनत्वलाभप्रकारः कथमुक्त इत्यतस्तत्परिष्करोति– तरतीति ।। अपाम सोममिति । सोमपदोपलक्षितकर्मानुष्ठानेन अमृताः मुक्ता अभूमेत्यर्थः । द्वयं ज्ञानं कर्म च । स्वतन्त्रं स्वर्गं प्रति ज्योतिष्टोमोऽग्निहोत्रं चेव । समुच्चितं दर्शपूर्णमासाविव परस्परसापेक्षम् । प्रथमद्वितीयौ स्वातन्त्र्यसमुच्चयपक्षौ । तृतीये एकं साक्षात्साधनम्, अपरं तत्साधनत्वेन साधनमिति पक्षे । इत्यादीति । ‘निर्वाणायापरोक्षदृक् । अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते ।। इत्या-दीत्यर्थः । गीतागतं ‘योगैः’ इति पदं ‘योगिभिः’ इति कथं व्याख्यातमित्यत आह– अत्रेति ।। अच्प्रत्ययश्च मत्वर्थीयः, इति युक्तं ‘योगिभिः’ इति व्याख्यानमिति भावः ।। ५ ।।

अक्षरार्थस्तु तत्र ‘उभयोर्मध्ये सम्यग् एकमप्यास्थितः फलं विन्दते’ इति योजनायां द्वयोः साफल्यमात्रमुच्यते । ‘एकमपि सम्यगास्थितः उभयोः फलं विन्दते’ इति पक्षे तु द्वयं किञ्चित्फलं प्रति स्वतन्त्रं साधनमुच्यते । पक्षद्वयेऽपि न योगस्य ज्ञानसाधनत्वे प्रमाणमुक्तमित्यतः ‘एकमपि’ इत्यस्याभिप्राय उच्यते यत्साङ्ख्यैरिति । ‘एकमपि सम्यगास्थित उभयोः ज्ञानकर्मणोः फलं विन्दते’ इत्यत्रेदमाकूतम् । ‘तरति शोकमात्मवित्’ इत्यादिना यत् ज्ञानफलं मोक्षस्थानं साङ्ख्यैः ज्ञानि-भिराप्यं प्रमितम्, तत् तावद् योगैः योगिभिरपि प्राप्यमित्युच्यते अपाम सोमम् इत्यादिना । तत्र विचार्यम् किं ज्ञानं कर्म इति द्वयमपि स्वतन्त्रं मुक्तिसाधनम्, उत समुच्चितम् । अथवा एकं साक्षात्साधनम्, अपरं तत्साधनत्वेन परम्परयेति ।

न प्रथमद्वितीयौ । ‘नान्यः पन्थाः’ इत्यादिविरोधात् । तृतीयेऽपि चिन्त्यम् ‘किं कस्य साधनम्’ इति । तत्र न तावज्ज्ञानं कर्मसाधनत्वेन मोक्षहेतुः । ‘न किञ्चिदन्तराधाय’ इत्यादि-विरोधात् । अतः परिशेषाद् योगेनापि ज्ञानद्वारा ज्ञानफलं प्राप्यत इति वक्तव्यमिति सिद्धम्- ‘योगस्य ज्ञानसाधनत्वम्’ इति । अत्र साङ्ख्ययोगशब्दौ धर्मिणामुपलक्षकौ । अर्श आद्यजन्तौ वा । अतः साङ्ख्यं योगं चैकं साध्यसाधनभावेनैकफलसाधनं यः पश्यति सः सम्यक् पश्यति ज्ञानी इति ।। ५ ।।

भावदीपिका

।। भवेदिति ।। ‘मुग्ध’ इत्यादेः काम्यकर्मविषयत्वकल्पन-मित्यर्थः ।। साफल्यमात्रमिति ।। न तु योगस्य ज्ञानसाधनत्वे प्रमाणमिति भावः ।। स्वतन्त्र-साधनमिति ।। ‘उभयोः फलं विन्दते’ इत्युक्तिरुभयोरपि यदि किञ्चित्फलं स्यात्, तर्ह्येवाश्लिष्टा स्यात्, नान्यथेति भावः । तथा चोभयोः किञ्चित्फलं प्रति स्वतन्त्रसाधनत्वोक्त्या, न योगस्य साङ्ख्यशब्दोदितज्ञानसाधनत्वं प्राप्तमिति, नानेनापि प्रमाणमुक्तमिति भावः । प्रकृतं योगस्य साधनत्वम् । एवं योजनेन । ‘यत्साङ्ख्यैः’ इत्यनेन भगवता योगस्य ज्ञानसाधनत्वेऽपि परिशेषप्रमाणम् अभिहितमित्याशयेनोपपादयति– तरति शोकमित्यादिना ।। नान्य इति ।। तत्र ज्ञानातिरिक्तसाधननिषेधादिति भावः । ‘इत्यादि’ इत्यनेन ‘निर्वाणायापरोक्षदृक्’ इति पादो ग्राह्यः । ननु गीतायां ‘योगैः’ इत्युक्तत्वाद् ‘योगिभिः’ इति कथं भाष्ये ? इत्यत आह– अत्रेति ।। निवृत्तधर्मपर्यायो योगशब्दो गीतागतः ।। अर्शआदीति ।। स च मत्वर्थीय इति भावः । तथा च योगोऽस्ति येषां ते योगाः, तैर्योगैरित्यर्थो द्रष्टव्यः ।। ५ ।।

भावप्रकाशः

उभयोरित्यस्य किमेकशब्देनान्वयः,उत फलशब्देनेति विकल्प्याद्ये आह– उभयोर्मध्य इति ।। अन्त्ये आह– एकमपीति ।। न प्रकृतोपयोग इति ।। योगस्य ज्ञानसाधनत्वासिद्धेरिति भावः । नन्वेवमपि प्रमाणालाभ एवेत्यत आह– तरतीति ।। ५ ।।