आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ।। ३ ।।
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ।। ३ ।।
भाष्यम्
कियत्कालं कर्म कर्तव्यमित्यत आह– आरुरुक्षोर्मुनेरिति ।। योगम् आरुरुक्षोः उपायसम्पूर्तिमिच्छोः । योगारूढस्य सम्पूर्णोपायस्य । अपरोक्षज्ञानिन इत्यर्थः । कारणं परमसुखकारणम् ।।
भावप्रदीपिका
नन्वयं कर्मयोगः कियत्कालमवश्यं कार्यः ? कदा वा त्याज्यः ? इत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतार्य व्याचष्टे– कियदिति । योगमारुरुक्षोः कर्मयोगः कारणं स्यान्नाम । योगारूढस्य किं प्रति कारणमित्यत आह– कारणमिति ।
भावप्रकाशिका
भवत्वन्तर्गतसंन्यासः कर्मयोगः समाधियोगिनामप्य-वश्यानुष्ठेयः । स च कियत्कालमित्याकाङ्क्षोत्तरत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– कियदिति । युज्यतेऽनेनेति योग उपायः । अपरोक्षज्ञानोपायत्वात् समाधिर्योग उच्यते । आरोहणमुपरि-भावः । योगारोहणं नाम तदुपरिभावकार्यावाप्तिः । सा च योगे सम्पूर्ण एव भवतीति भावेन ‘योगम्’, ‘आरुरुक्षोः’, ‘योगारूढस्य’ इति पदत्रयं व्याचष्टे– योगमित्यादिना । ननु योगमारुरुक्षोर्योगारोहकारणं भवतु कर्मयोगः । आरूढस्य तु शमः किमर्थम् ? इत्यत आह– कारणमिति । परमसुखस्य सर्वेषामपेक्षितत्वेन बुद्धिस्थत्वादनुक्तिरिति भावः ।।
प्रमेयदीपिका
नन्वेवं समाधियोगस्याधिकारिणि निरूपिते तं प्रति स अभिधेयः । ‘आरुरुक्षोः’ इत्यादि किमर्थमुच्यते ? इत्यत आह– कियदिति ।। समाधि-योगाधिकारत्वेनोक्तं कर्म किं सकृदनुष्ठेयम्, उताऽफलप्राप्तेः? इति प्रश्नार्थः ।।
ननु योगो नाम नाश्वादिरिवारोढव्यः । तत् कथमुच्यते ‘योगमारुरुक्षोः, योगारूढस्य? इति । तत्राऽह– योगमिति ।। उपरिभवनसादृश्यादुपचार इत्यर्थः ।। उपायः समाधिरेव । समाधेः पलपरिमाणाद्यवच्छेदाभावात् कादृशी सम्पूर्णता इत्यत आह– अपरोक्षेति ।। साधनस्य हि सम्पूर्णता साध्याय पर्याप्तत्वम् । अतो यावताऽपरोक्षज्ञानं सम्पद्यते तावत्त्वं सम्पूर्णत्वमिति भावः । ननु योगमारुरुक्षोः कर्म कारणम् । सन्निधानाद् ‘योगारोहस्य’ इति लभ्यते । कारणत्वाच्च तत्पर्यन्तं कर्तव्यमिति । कार्यापेक्षया नियतपूर्वभावित्वात् कारणस्य । योगारूढस्य तु शमः किं प्रति कारणम् । ज्ञानस्य तत एव सिद्धेरित्यत आह– कारण-मिति ।। परमसुखं मुक्तिगतम् ।।
भावबोधः
।। सकृदनुष्ठेयमिति । प्रोक्षणादिवदित्यर्थः । आफलप्राप्तेरिति । अवहननादिवदित्यर्थः । प्रश्नार्थ इति । तथा चैवं द्वैविध्यदर्शनात् कियत्कालमिति प्रश्नोपपत्तिरिति भावः । तत एवेति । समाधेरेवेत्यर्थः ।।
भावदीपः
अपरोक्षज्ञानिनः पश्चादेव भवतीति ‘उपरि भवनसादृश्यात्’ इत्युक्तम् ।। तत एव सिद्धेरिति ।। पूर्वतनकर्मण एव सिद्धेरित्यर्थः ।।
भावरत्नकोशः
।। अधिकारिणि कामादिहीननिवृत्तकर्मानुष्ठानवति सः समाधियोगः । असङ्गतवचनत्वं परिहर्तुं परिष्करोति– समाधीति । अधिकारत्वेन अधिकारि-विशेषणत्वेन । एतेनैव ‘कर्म यावता कालेन निर्वर्त्यते तावन्तं कालं कार्यमिति सिद्धमेव । किञ्च योगो हि ज्ञानसाधनतयोपदिष्टः । साधनं च साध्यप्राप्तिपर्यन्तमनुष्ठेयमिति प्रसिद्धमेव । नियत-पूर्वक्षणवृत्तिकारणमिति हि तल्लक्षणम् । अतः कथमयं प्रश्न इति चोद्यं च परिहृतम् । नायं कर्मनिवृत्तिकालप्रश्नः । किन्तु उक्तं कर्म व्रीहिप्रोक्षणादिकमिव सकृदनुष्ठेयम्, उतावहननादिकमिव आफलसमाप्ति आवर्तनीयमिति प्रश्न इति तात्पर्यात् । भाष्ये ‘कियान् कालो यस्य तत् कियत्कालम्’ इति कर्मविशेषणमिति ज्ञातव्यम् । कियांश्चासौ कालश्च कियत्कालः, तम् । ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया । ‘कियति काले’ इत्यर्थ इत्यपि आहुः ।
‘नाश्वादिरिवारोढव्यो योगः’ इति कृतचोद्यं परिहर्तुमाह– उपरिभवनेति ।। उपचारः गौणी वृत्तिः । सा च गुणनिबन्धना, ‘सिंहो देवदत्तः’ इति यथा । अत्राश्वारोहणक्रियायाम् अश्वोपरिभव-नात्मकत्वमिवापरोक्षज्ञानस्य योगोत्तरभावित्वरूपयोगोपरिभवनमस्तीति उपरिभवनसादृश्यात् आरोहशब्दो योगसम्पूर्तिफलेऽपरोक्षज्ञाने वर्तत इति भावः ।
ननु साधनस्य साध्याय पर्याप्तत्वं सम्पूर्णत्वमस्तु । ‘कियत्कालं कर्म कर्तव्यम्’ इति शङ्कायाः परिहारो नानेन लब्ध इति चोद्यं परिहरन्नेव उत्तरभाष्यमवतारयति– ननु योगमिति ।। तावत्पर्यन्तं योगारोहपर्यन्तमिति कालेयत्वोक्त्या भवति कारणत्वमात्रेण, कार्यनिष्पत्तिकालावध्यनुष्ठेयत्वं कथं लभ्यत इत्यत उक्तम्– कार्यापेक्षयेति ।। प्रोक्षणादेरदृष्टार्थस्य सकृत्कर्तव्येऽपि, दृष्टार्थस्य कर्मणो यावत्फलप्राप्ति अवहननादेरिव कर्तव्यत्वमिति भावः । ‘ज्ञानं प्रति’ इति वदाम इत्याशङ्क्याह– ज्ञानस्येति । तत एव समाधियोगादेव । ननु सर्वविषयोपरतिलक्षणेन शमेन पुरुषस्य क्लेश एव भवेत् । तत्कथं शमः सुखस्य कारणम् । कथन्तरां परमसुखस्येत्यत आह– परमसुखं मुक्तिगत-मिति ।। अपरोक्षज्ञानानन्तरमनुष्ठितः समाधिलक्षणः शमो मुक्तिगतसुखाभिवृद्धेः कारणमिति नोक्तशङ्काऽवकाश इति भाव इत्याशयः ।
भावदीपिका
।। सः समाधियोगः । सकृदनुष्ठेयमिति ।। प्रोक्षणादिवदित्यर्थः । आफलप्राप्तरिति ।। अवहननादिवदित्यर्थः । प्रश्नार्थ इति ।। एवं द्वैविध्यदर्शनात्, अस्यापि कर्मत्वात्, किं सकृदनुष्ठेयम् उत आफलप्राप्तेरिति सन्देहमूलकः ‘कियत्कालं कर्म कर्तव्यम्’ इति प्रश्नो युक्त इत्यर्थः । उपरिभवनेति ।। अश्वमारूढस्य यथाऽश्वोपरिभवनमस्ति, तथा समाधियोग-फलस्यापरोक्षज्ञानस्य समाध्युत्तरभावित्वेन योगोपरि भवनमस्तीत्यर्थः । केचित्तु अश्वोपरि भवनवतो यथा सन्तोषः, तथा योगपूर्तिमतोऽपीत्येवं सन्तोषविशेषेणोपरिभवनवतः साम्याद्गौण इत्याहुः । सन्निधानात् शब्दसन्निधानात् । ज्ञानं प्रति इति चेत्, तत्राह– ज्ञानस्येति ।। तत एवेति ।। समाधियोगादेवेत्यर्थः ।
भावप्रकाशः
नन्वग्निहोत्रादिकर्म यावति काले समाप्येत तावत्कालं कार्यमिति सिद्धमेव । तत्कथमयं प्रश्नः । किञ्च समाध्यधिकारिनिरूपणानन्तरमयं प्रश्नोऽनवसरदुखःस्थ इत्यत आह – समाधियोगाधिकारत्वेनेति ।। उपरिभावेनेति ।। मुनेर्योगोत्तरभावित्वसाम्यादित्यर्थः । पलपरिमाणादीति ।। आदिपदेन संख्यादेः ग्रहः । तत्र कुण्डलादौ पलेन संपूर्णता, वस्त्रादौ परिमाणेन मैत्रीतनयेषु संख्यया देशतः जीवादौ कालतः पूर्णतेति विवेकः ।
नन्वेवमपि कियत्कालमिति प्रश्नस्योत्तरालाभ इत्याशङ्कां परिहरन्नेवोत्तरभाष्यमवतारयति– नन्विति ।। ननु योगारूढस्य शमो ज्ञानहेतुरस्त्वित्यत आह– ज्ञानस्य तत एवेति ।। समाधे-रेवेत्यर्थः ।। तयोश्चेति ।। अपरोक्षज्ञानसमाध्योरित्यर्थः ।