यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्ताऽसि निर्वेदं श्रोतव्यस्य श्रुतस्य च ।। ५२ ।।

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।

तदा गन्ताऽसि निर्वेदं श्रोतव्यस्य श्रुतस्य च  ।। ५२ ।।

भाष्यम्

कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीत्याह– यदेति ।।

भावप्रदीपिका

उत्तरश्लोकमवतार्य व्याचष्टे– कियदिति ।।

भावप्रकाशिका

कियत्पर्यन्तमवश्यकर्तव्यानि कर्माण्युक्तलक्षणानि मुमुक्षुणा ? अन्यथा मुक्त्यभावः । कस्मादुपरितनकर्माभावेऽपि नामुक्तिः ? किन्तु तत्रानन्दवृद्ध्या एव शुभकर्माणीत्यभिप्रायाकाङ्क्षोत्तरत्वेनोत्तरश्लोकमवतारयति–कियदिति ।।

प्रमेयदीपिका

‘यदा ते’ इति श्लोके योगसम्बन्धि न किमप्युच्यते? इत्यत-स्तत्सङ्गतिमाह– कियदिति ।। एवं फलकामनादिवर्जितानीश्वराराधनरूपाणि । इत्या-काङ्क्षायाम् आहेत्यर्थः ।। नन्वियमाकाङ्क्षैवानुपपन्ना । योगो हि ज्ञानसाधनतयोपदिष्टः । साधनं च साध्यप्राप्तिपर्यन्तमनुष्ठेयमिति प्रसिद्धमेव । नियतपूर्वक्षणवृत्ति कारणमिति हि तल्लक्षणम् । उच्यते । योगो हि न साक्षाद् ज्ञानसाधनम् । किन्तु श्रवणादिकमेव । प्रमितेः प्रमाणफलत्वात् । योगस्त्वदृष्टद्वारा सत्वशुद्धिमुत्पाद्य श्रवणादीनामुपकरोति । उपकारस्य च द्वयी गतिर्दृष्टा । अतो युक्तैवेयमाकाङ्क्षेति । तथाऽपि ‘जिज्ञासुना’ इति वक्तव्यम् । सत्यम् । मोक्षसाधनज्ञानार्थिनेत्येतावतोऽर्थस्य ग्रहणाय ‘मुमुक्षुणा’ इत्युक्तम् ।।

भावबोधः

द्वयी गतिरिति ।। अवहननादिवत् स्वरूपोपकारित्वं, प्रयाजादिवत् फलोपकारित्वमित्येवंरूपेत्यर्थः ।।

भावदीपः

‘एवम्’ इत्यनुवादः,‘फल’ इत्यादिव्याख्या ।। योगो हीति ।। निवृत्तं कर्मेत्यर्थः ।। उपदिष्ट इति ।। ‘बुद्धिर्योगे त्विमां शृणु’ (२.३९) इत्यादिग्रन्थेनेति भावः । कार्यप्राप्त्युत्तरकालमपि कुतो नानुष्ठेयं कारणम्? इत्यतः कारणव्याघातादिति भावे-नाऽह– नियतपूर्वेति ।। द्वयी गतिरिति ।। पूर्वमनुष्ठानं पश्चादनुष्ठानं चेति द्वयी गतिरित्यर्थः । ज्योतिष्टोमादिप्रधानयागोपकारकाणां मध्ये केषाञ्चित् पूर्वमनुष्ठानस्य केषाञ्चित् पश्चाद् अनुष्ठानस्य दृष्टेरिति भावः ।।

भावरत्नकोशः

भाष्ये ‘एवम्’ इत्यस्य एवंविधानीत्यर्थ इति भावेन व्याचष्टे– एवं फलकामनेत्यादि ।। ‘इति’ इत्यनूद्योत्तरशङ्कोत्थापनाय तत्र शेषमाह– इत्याकाङ्क्षाया-मिति ।। आकाङ्क्षानुपपत्तिमुपपादयति– योगो हीति ।। तल्लक्षणं साधनलक्षणम् । योगः साङ्गं कर्म । श्रवणादिकमेव साक्षाज्ज्ञानसाधनमिति वर्तते । योगस्यासाधनत्वं श्रवणादेस्साधनत्वं चोपपादयति– प्रमितेरिति ।। तर्हि योगविधानं व्यर्थमित्यत आह– योगस्त्विति ।। सत्त्व-शुद्धिम् अन्तःकरणनैर्मल्यम् । ‘श्रवणादीनाम्’ इत्यत्र श्रवणमागमः, मननं युक्त्यनुसन्धान-रूपानुमानम्, निदिध्यासनं प्रत्यक्षमिति त्रयाणां प्रमाणानामित्यर्थः । द्वयी गतिरिति ।। ज्योतिष्टोमादिप्रधानयागोपकारककलापमध्ये कस्यचित् पूर्वमनुष्ठेयत्वं कस्यचित् पश्चादनुष्ठेयत्व-मित्येवंरूपा द्वयी गतिर्दृश्यते । योगश्च श्रवणाद्युपकारकः, कां गतिमवलम्बतामिति विचाराभि-युक्तस्य युक्तैव कियत्पर्यन्तमित्याकाङ्क्षेत्यर्थः । ननु योगो ज्ञानकामुकेन ज्ञानसाधनोपकारक-तयाऽनुष्ठेयश्चेज्जिज्ञासुनेति भाषणीयमिति शङ्कते– तथाऽपीति ।। उक्ताकाङ्क्षायाः कियदिति भाष्यतात्पर्योक्त्या समर्थनेऽपीत्यर्थः ।

भावदीपिका

कुत इत्यत आह– नियतेति ।। तल्लक्षणम् साधनलक्षणम् । साध्यप्राप्तिपर्यन्तं साधनस्यानुष्ठेयत्वे, तदव्यवहितपूर्वक्षणवृत्ति कारणत्वं युक्तं स्यात् । तदभावे च साधनत्वमेव न स्यादिति भावः । योगः साङ्गकर्म । तर्हि ज्ञानसाधनं किमिति पृच्छति– किन्त्विति ।। उत्तरयति– श्रवणादिकमेवेति ।। कुतः श्रवणादिकमेव ज्ञानसाधनमित्यत आह– प्रमितेरिति ।। अपरोक्षज्ञानरूपायाः प्रमितेः श्रवणादिरूपप्रमाणफलत्वमेव न्याय्यम् । नतु योगफलत्वम् । निवृत्तकर्मादिरूपस्य योगस्य प्रमाणत्वाभावादिति भावः । तत्र श्रवणमागमः, मननमनुमानं, निदिध्यासनं प्रत्यक्षमिति विवेकः । तर्हि योगो व्यर्र्थ इत्यत आह– योगस्त्विति ।। सत्त्वशुद्धिम् अन्तःकरणशुद्धिम् । श्रवणादीनाम् श्रवणमनननिदिध्यासन-साक्षात्कारसम्प्रज्ञातसमाध्यसम्प्रज्ञातसमाधीनामित्यर्थः । ननु तथाऽपीयमाकाङ्क्षा कथमनुपपन्ना जातेत्यत आह– उपकारस्य चेति ।। द्वयीगतिः सकृदनुष्ठेयत्वमसकृदनुष्ठेयत्वञ्चेति द्वयी गतिः । अङ्गभूतमुपकारकं द्विविधम्–  स्वरूपोकारं फलोपकारकञ्चेति । ‘व्रीहीनवहन्यात्’ इत्यादाववहननादीनां यागस्वरूपनिष्पादकत्वेनाङ्गत्वम् । प्रधानयागेन फले जननीये, समिधो यजति, इडो यजति, बर्हिर्यजति, तनूनपातं यजति, स्वाहाकारं यजति, इत्युक्तानां पञ्च-प्रयाजानां पञ्चापूर्वजननद्वारा फलोपकारकत्वेनाङ्गत्वम् । एवं प्रकृते योगस्यावहननादि-वदसकृदनुष्ठेयस्य श्रवणादिस्वरूपोपकारकाङ्गत्वम्, उत सकृदनुष्ठितप्रयाजादेरिव फलोप-कारकाङ्गत्वञ्चेति शङ्काभिप्रायः । योगस्य श्रवणादिस्वरूपोपकारकत्वेनासकृदनुष्ठेयत्वमिति उत्तरं भवति । ‘मोहकलिलम्’ इति वचनादिति ज्ञेयम् ।। जिज्ञासुनेति ।। ज्ञानेच्छुना क्रियमाणयोगस्य श्रवणादिजन्यज्ञानस्वरूपोपकारकाङ्गत्वं वा फलोपकारकाङ्गत्वं वेत्याशयेन जिज्ञासुनेति वक्तव्यं न मुमुक्षुणेत्यर्थः ।

भावप्रकाशः

 सत्त्वशुद्धिमिति ।। अन्तःकरणशुद्धिमित्यर्थः । द्वयी गति-रिति ।। अवघातादिवदसकृदनुष्ठयेत्वं प्रोक्षणादिवत् सकृदनुष्ठयेत्वं चेत्येवं रूपेत्यर्थः ।।

 

Load More