अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ।। ५ ।।
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ।। ५ ।।
भाष्यम्
अपरा अनुत्तमा । वक्ष्यमाणमपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी । चिद्रूपा । भूता सर्वदा सती । ‘एतन्महद्भूतम्’ इति श्रुतेः । जगाद च–
‘प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा ।
अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाऽष्टधा पुनः ।।
महान् बुद्धिर्मनश्चैव पञ्च भूतानि चेति हि ।
अवरा सा जडा श्रीश्च परेयं धार्यते तया ।।
चिद्रूपा सा त्वनन्ता च अनादिनिधना परा ।
यत्समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः ।।
नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि ।
ताभ्यामिदं जगत्सर्वं हरिः सृजति भूतराट्’
इति नारदीये ।। ५ ।।
भावप्रदीपिका
‘इतः’कार्यात्, ‘अपरा’ न भिन्ना, इति प्रतीतिनिरासायाह– अपरेति । जीवभूतेति जीव एवेति भ्रान्तिनिरासायाह– जीवेति । ‘जीवभूत’शब्दार्थमाह– जीवानामिति । विशेषणद्वयं जीवपदस्यार्थः ।‘भूत’शब्दस्य सर्वदा विद्यमानार्थत्वे प्रयोगं दर्शयति– एतदिति । उक्तार्थं प्रमाणेन स्थापयति– जगाद चेति । अत्राहङ्कारस्य महत्यन्त-र्भावः । इयं पूर्वोक्ता अनन्ता देशेन । आभ्याम् इत्यनेन ‘एतद्योनीनि’ इति व्याख्यातम् ।।५।।
भावप्रकाशिका
अपरशब्दस्याभेदेऽपि प्रयोगात्, प्रकृत्यात्मनैषाम् अभेद-सम्भवाच्च अभेदवाच्ययमित्याशङ्क्याह– अपरेति । अहङ्कारादिरूपिण्या अस्याः प्रकृतेर्महान्तं मूलप्रकृतिं वाऽपेक्ष्यानुत्तमत्वशङ्कायामाह– वक्ष्यमाणामिति । यतोऽत्र ‘इयम्’ इति मूल-प्रकृतिरेवोच्यते सैवाष्टकार्यरूपेणाष्टधा भिन्ना । अहङ्कारात् सात्विकान्मनः, राजसात् बुद्धिः, तामसात् खादयः पञ्चेति सेयं सकार्यमूलप्रकृतिरपरेत्युच्यते । पृथक्कार्यरूपेणाष्टधा भिन्ना । अतः सूक्तं– वक्ष्यमाणामपेक्ष्य इति ।।
एतेनैतदपि प्रत्युक्तम् । यदुक्तं मायिना भूम्यादिशब्दैस्तन्मात्राण्येवोच्यन्ते, न स्थूलानि । मनोबुद्ध्यहङ्कारशब्दैस्तु मनोबुद्ध्यहङ्कारकारणान्यहङ्कारमहदव्यक्तानि, ‘भिन्ना प्रकृतिरष्टधा’ इति वचनादिति । तदसत् । भूम्यादिशब्दैः स्थूलसूक्ष्माभिधानेऽप्यौषध्यादिकारणत्वेन प्रकृतित्वसम्भवात् न स्वार्थसङ्कोचः कार्यः ।
मनोबुद्ध्यहङ्कारशब्दैस्तत्तदर्थाभिधानेऽपि स्थूलप्रकृतिव्यतिरिक्तानां प्रकृतिविकृतानामेवाष्ट-विधत्वसम्भवात् न स्वार्थपरित्यागः कल्पनीयः । मनोबुद्ध्योश्च संशयनिश्चयकारणत्वेन प्रकृतित्वमिति ।।
ननु कोपरि वक्ष्यमाणेतःपरत्वेन ? इत्याकाङ्क्षायां जीवशब्दात् तथैवान्यैर्व्याख्यातत्वाच्च जीवा एवेति प्राप्ते, आह– जीवभूतेति । ननु ‘जीव प्राणधारणे’ इति धातोः श्रीरपि जीवभूता चेत्, संसारिवत् देहेन्द्रियप्राणधारिणी स्यादित्यत आह– जीवानामिति । स्वयं भगवानिव ज्ञानानन्दादिगुणसान्द्रसुन्दरमूर्तिरूपा यतो ब्रह्मादिसर्वजीवानां प्राणधारिणी । अत एव जीवशब्दोक्ता । यतः श्रीरेवाह स्वसूक्ते ‘मया सोऽन्नमति यो विपश्यति यः प्राणिति’ इत्यादि । चिद्रूपत्वाच्च जीवशब्दोक्ता सेत्याह– चिद्रूपेति ।।
‘एतन्महद्भूतम्’ इत्यादिश्रुताविव सर्वदा सत्त्वमेव भूतशब्दार्थः न तु जातत्वमिति भावेनाह– भूतेति । नहि महत्त्वेन जातमिति श्रुत्यर्थः । जीवभूतां जीवत्वं प्राप्तामिति यदन्येनोक्तं तदनेन निरस्तं भवति । ‘ययेदं धार्यते जगत्’ ‘एतद्योनीति भूतानि सर्वाणि’ इत्येकस्या एव सर्वजगदाधारत्वं सर्वभूतोत्पत्त्यादिकत्वं चोच्यमानम् । ‘अहं मित्रावरुणोभा बिभर्मि’, ‘यं कामये तं तम्’ इत्याद्युक्ता श्रीरेव जीवभूता प्रकृतिः, न बहवः संसारिण इत्यलं विस्तरेण ।
इममेवार्थं ‘भूमिः’ इत्यादिसार्धश्लोकद्वयस्यान्यत्र भगवान् व्यक्तमुवाचेत्याह– जगादेति । देवस्य इति देवाद्भेदः प्रकृत्योरुच्यतेऽत्र । ‘इयं मे पराम्’ इति गीतायामपि । अतोऽपि न भगवत्स्वरूपा जीवभूता प्रकृतिः । पुनरिति । मूलप्रकृतिरूपतः पृथक् प्रकृतिविकृति-रूपेणैवाष्टधेत्यर्थः ।। ५ ।।
प्रमेयदीपिका
अपरशब्दस्यानेकार्थत्वाद् विवक्षितमर्थमाह– अपरेति ।। अनुत्तमत्वस्य सापेक्षत्वात् किमपेक्षया? इत्यत आह– वक्ष्यमाणामिति ।। सन्निधानादिति भावः । ‘जीवलक्षणां जीवत्वं वा प्राप्ताम्’ इति व्याख्याननिरासार्थमाह– जीवभूतेति ।। कथं सा जीवभूता? इत्यत आह– जीवानामिति ।। प्राणधारिणी इत्येवोक्ते स्वप्राणधारिणी इति प्रतीतिः स्यात् । तन्निरासार्थमुक्तम्– जीवानामिति ।। सर्वजीवदेहेषु स्थित्वा तदीयान् प्राणान् तत्र धारयतीत्यर्थः । स्वप्राणधारिणी कुतो न स्यात्? इत्यत आह– चिद्रूपेति ।। ज्ञानात्मकविग्रहवती ।। यद्वा ‘जीव प्राणधारणे’(पा.धा.५६२) इत्यतो जीवशब्दस्य यौगिकार्थमुक्त्वा गौणीं वृत्तिमाश्रित्यार्थान्तरमनेनोक्तम् । भूतशब्दस्य सर्वदा सत्ववाचित्वे प्रयोगं दर्शयति– एतदिति।। प्रकृतिमपेक्ष्य श्रियः परत्वोपादानदार्थम् एतत् ।।
‘भूमिः’ इत्यादेरभिमतमर्थं पुराणवाक्येन स्थापयति– जगाद चेति ।। देवस्यैव । सृज्यत इति सृष्टिः=कार्यम् । कार्यरूपेणेत्यर्थः । अनेन ‘भूम्यादिशब्दैः पञ्चतन्मात्राण्येव उच्यन्ते । न स्थूलानि भूतानि । मनः इति तत्कारणमहङ्कारः । बुद्धिरिति महत्तत्वम् । अहङ्कार इत्यविद्यासहितमव्यक्तम् । ‘भिन्ना प्रकृतिरष्टधा’ इति वचनात्’ इति व्याख्यानं निरस्तम् ।।
‘कार्यरूपेणाष्टधा भिन्ना’ इति व्याख्यानसम्भवेन प्रसिद्धार्थपरित्यागायोगात् । महत्यहङ्कारस्य अन्तर्भावः ‘इत्येव’ इति सम्बन्धः । ‘जडा’ इत्यवरत्वोपपादनम् । श्रीः परा इत्यस्योपपादनम् इयं धार्यते तया इत्यादि । अनन्ता देशतः गुणतश्च । परा मुख्या । अनादिनिधना न त्वव्यक्तवद् विक्रियावती ।। ५ ।।
भावबोधः
।। गौणीं वृत्तिमिति ।। जीवगतचिद्रूपत्वगुणयोगेनेत्यर्थः । परत्वोप-पादनार्थमिति ।। अनेन ‘सर्वदा सती’ इत्यत्रैकप्रकारेणेति ग्राह्यम् । जडप्रकृतेश्च विकारित्वेन तदभावादिति भावः । गुणतश्चेति ।। ततश्चानेन परत्वोपपादनं न सम्भवतीति भावः । बहुगुणवतीति तात्पर्यम् ।। ५ ।।
भावदीपः
।। गौणीं वृत्तिमिति ।। ‘जीवभूता’ इत्यस्य जीववाचित्वरूप-गुणयोगाज्जीवपदोक्तेत्यर्थः ।। एतदितीति ।। जीवभूतेति विशेषणमित्यर्थः । एवकारान्वयमाह– देवस्यैवेति ।। अनेनेति ।। पुराणवाक्यकथनेनेत्यर्थः ।। ‘अविद्यासहितमव्यक्तम्’ इत्युक्तार्थे चतुर्थपादसंवादमाह– भिन्नेति ।। ‘महान् बुद्धिः मनश्च’ इत्यादौ गीतोक्ताहङ्कारो न गणित इत्यत आह– महतीति ।। एवकारस्य इतिपदेनान्वयमाह– इत्येव इति सम्बन्ध इति ।। ५ ।।
भावरत्नकोशः
।। अनेकार्थत्वादिति ।।
‘अथापरं क्लीबलिङ्गं सिद्धान्ते मुनयो विदुः ।
गजपाश्चात्त्यपादेऽथ त्रिः पूर्वप्रतियोगिनि । अन्यस्मिन्नपि’
इत्यभिधानादिति भाव इति केचित् । अपरे तु परा न भवतीति अपरा, न विद्यते परा यस्याः सा अपरा इत्याश्रयणेऽनेकार्थत्वावेदनादिति भाव इत्याहुः ।
अनुत्तमत्वस्य निकृष्टत्वस्य । अपेक्ष्य ‘उक्ता’ इति भाष्ये शेषः, तेन ल्यबुपपत्तिः । चित्प्रकृतेरुपस्थितावुपायमाह– सन्निधानादिति ।। ‘जीवभूतां क्षेत्रलक्षणाम्’ इति सङ्करभाष्य-मर्थतोऽनुवदति– जीवलक्षणामिति । ‘प्रमाणभूत आचार्यः’ इति महाभाष्ये ‘प्रमाणत्वं प्राप्तः’ इति कैयटव्याख्यानादाह– जीवत्वं वा प्राप्तामिति ।। ननु जीवसम्बन्धिप्राणधारकत्वं जीवानामेव, न तु श्रीदेव्या इत्यत आह– सर्वजीवदेहेष्विति ।। तत्र देहेषु । ‘स्वभावाकृतिसौन्दर्यवपुषु श्लोक-शब्दयोः । रूपम्’ इत्यभिधानादाह– ज्ञानात्मकविग्रहेति ।। यत एवम्, अतः सा प्राणधारिणी कुतो न स्यादिति चोद्यस्य नावकाश इति भावः ।
तथा च प्राचीनटीका ‘ज्ञानानन्दादिगुणसान्द्रमूर्तिरूपा यतो ब्रह्मादिजीवानां प्राणधारिणी । अत एव जीवशब्दोक्ता । यतः श्रीरेवाह स्वसूक्ते ‘मया सो अन्नमत्ति यो विपश्यति यः प्राणिति यः’ इत्यादीति । चिद्रूपत्वाच्च जीवशब्दोक्तेत्याह– चिद्रूपेति ।। प्राचीनटीकामनुरुन्धानो भाष्य-मन्यथापि योजयति– यद्वेति । गौणीं वृत्तिमिति । जीवगतचिद्रूपत्वलक्षणगुणयोगेन जीवशब्दे-नोपचारेण श्रीरेव ग्राह्येत्यर्थः । अनेनाद्यपक्षे ‘जीवा चासौ भूता च’ इति विग्रहः । ‘पुंवत्कर्मधारय’ इति पुंवद्भावः । द्वितीये ‘जीवश्चासौ भूता च’ इति विग्रहः । जीव इव जीव इति जीवशब्दस्य गौणी वृत्तिः । बहुलग्रहणाच्च विशेषणयोरपि समास इत्युक्तं भवति । भूतशब्दस्येति । ‘भवतेः ‘गत्यर्थाकर्मक’ इत्यादिना कर्तरि निष्ठान्तस्य’ इत्युपस्कर्तव्यम् । सर्वदा सत्त्ववाचित्वे सर्वदा विद्यमानार्थवाचित्वे । ‘जीवभूताम्’ इति विशेषणं किमर्थमित्यत आह– प्रकृतामिति ।। ‘भूमिः’ इति पूर्वत्र प्रसक्तां जडप्रकृतिमित्यर्थः । ‘प्रकृतिमपेक्ष्य’ इति पाठे जडप्रकृतिमित्यर्थः । एतत् ‘जीवभूताम्’ इति विशेषणम् ।
‘जडा चैव’ इत्येवशब्दस्य देवस्य भगवत इत्यनेनान्वय इत्याह– देवस्यैवेति ।। नान्य-स्येत्यर्थः । जडप्रकृतेरष्टविधत्वं गीतोक्तं घटयितुं सृष्टिशब्दार्थमाह– सृज्यत इतीति ।। सृजतेः कर्मणि ‘अकर्तरि च कारके’ इत्यनुवृत्तेः क्तिन्प्रत्यय इति भावः । अनेन प्रमाणोदाहरणेन, ‘निरस्तम्’ इति सम्बन्धः । ‘भूमिरिति पृथिवीतन्मात्रमुच्यते, न स्थूला’ इत्यादिसङ्करभाष्यं निष्कृष्यानुवदति– भूम्यादिशब्दैरित्यादि ।
‘महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः ।
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ।।’ इति भागवते,
‘रसमात्राणि चाम्भांसि रूपमात्रं समावृणेत् ।
तन्मात्राण्यविशेषानि अविशेषास्ततो हि ते ।।’
इति विष्णुपुराणे च प्रयोगान्मात्रशब्दो नपुंसकलिङ्गोऽप्यस्ति । तत्कारणं मनसः कारणम् । अहङ्कार उच्यत इति विपरिणम्यानुवर्तते । कुत एवं कल्पनेत्यत उक्तं– भिन्ना प्रकृतिरष्टधेति वचनादिति ।। स्थूलानां प्रकृतित्वायोगादिति भावः । इति व्याख्यानसम्भवेनेति । तथा चानु-पपत्तेरभावेन लक्षणाश्रयणमयुक्तम् । एकेन प्रकृतिपदेनानेकेषामर्थप्रच्यावनं भूयोऽनुग्रहन्यायबाह्यं चेति भावः । प्राचीनटीकायां तु ‘भूम्यादिशब्दैः स्थूलभूम्याद्यभिधानेऽपि तेषामौषध्यादिकारणत्वेन प्रकृतित्वम्, मनोबुद्ध्योश्च संशयनिश्चयकारणत्वेन प्रकृतित्वमवधेयमिति न प्रकृतिशब्दास्वारस्य-मस्मत्पक्षे’ इत्युक्तम् ।
‘महान् बुद्धिर्मनः’ इत्यत्र गीतोक्ताहङ्कारापरिगणनाद् विसंवाद इत्यत आह– महत्यहङ्कार-स्येति ।। कारणवाचिना महच्छब्देन तत्कार्याहङ्कारस्याप्युपलक्षणमिति न विसंवादः । इदमेव प्रमाणं हृदि कृत्वा ‘महतोऽहङ्कार एवान्तर्भावः’ इति प्राग्भाषितमिति भावः । अत्रैवार्ध एवशब्दस्य इतिशब्देनान्वय इत्याह– इत्येवेतीति ।। चशब्दावितरेतरसमुच्चये । इत्येव सृष्ट्याऽष्टधाभिन्ना सा प्रकृतिरित्यपि सम्बन्धो द्रष्टव्यः । ‘जडा’ इति विशेषणं हेत्वर्थगर्भमवरत्वमुपपादयितुं प्रवृत्तमित्याह– जडेतीति ।। ‘श्रीश्च’ इति चशब्दस्तुशब्दार्थ इति भावेनोक्तम्– श्रीस्तु परा उत्तमेति । इयं जडप्रकृतिः तया चित्प्रकृत्या धार्यते ‘जगत्’ इति शेषः । श्रीदेव्याः जडप्रकृतिं प्रति जगद्धारण-शक्तिप्रदत्वमुच्यत इत्युत्तमत्वमुपपादितं भवतीति भावः ।
ननु ‘अनन्ता’ इत्यत्र कालानन्त्योक्तौ ‘अनादिनिधना’ इति पूर्वोत्तरकालकोटिविहीनत्ववचनं पुनरुक्तं स्यादित्यत आह– अनन्ता देशतो गुणतश्चेति ।। आनन्त्यस्य भगवदेकायतत्त्वविशेषस्य द्योतनार्थः ‘सा तु’ इति तुशब्द इत्यतो जडप्रकृतिसाधारणं देशानन्त्यमिति चोद्यं प्रत्यस्तम् । गुणानन्त्यमपि भगवदायत्तमेव विवक्षितमिति न तत्राप्यनुपपत्तिशङ्का । ‘परा’ इति श्रीतत्त्वे परत्ववचनं व्यर्थमित्यतोऽङ्गावतारन्यायेन श्रीविशेषणानादिनिधनत्वविशेषणम् इत्यभिप्रेत्य व्याचष्टे– परा मुख्येति ।। ‘परा’ इति पदं परस्ताच्छ्रुतमपि अनादिनिधनविशेषणमिति ज्ञापनार्थमवैयर्थ्यार्थं च ‘अनन्ता’, ‘अनादिनिधना’ इति पदयोर्मध्ये व्याख्यातम् । श्रीदेव्यां मुख्यानादिविशेषणवत्त्व-कथनस्य व्यावर्त्यमाह– न त्वव्यक्तवदिति ।। ।
गीताक्षरार्थस्तु– न केवलं जडप्रकृतिरेव मद्वशा, अपि तु चित्प्रकृतिरपीत्युच्यते अपरेय-मिति ।। इयं पूर्वश्लोकोक्ता जडप्रकृतिः, अपरा वक्ष्यमाणचेतनप्रकृत्यपेक्षया अनुत्तमा । इतः जड-प्रकृतितस्तु अन्यां जीवभूतां ‘जीवा च सा भूता च’ इति विग्रहः, तां जीवानां प्राणधारिणीं सर्वजीवदेहेषु स्थित्वा तदीयान् प्राणांस्तत्र धारयतीत्यर्थः । यद्वा जीव इव जीव इति चित्त्वसादृश्याद् गौण्या वृत्त्या श्रीतत्त्वं जीवशब्दार्थः । भूता सर्वदा विद्यमाना च । एतच्च विशेषणद्वयं सर्वजीवनदात्री, अनादिनिधनाऽपि श्रीर्भगवदधीनेति माहात्म्यस्फोरणाय । जडप्रकृत्यपेक्षया पराम् उत्तमां प्रकृतिं चित्प्रकृतिं श्रीदेवीं मे मदधीनां विद्धि । परत्वे हेतुः ययेदं धार्यते जगदिति ।। ५ ।।
भावदीपिका
।। अनेकार्थत्वादिति ।। परशब्दस्य वैरिपर्यायत्वात्, अपरशब्दः अवैरित्वाद्यर्थक इत्यर्थः । भाष्ये ‘वक्ष्यमाणाम्’ इत्यनन्तरं ‘पराम्’ इति शेषः । सन्निधानादिति ।। ‘अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्’ इति शब्दसन्निधानादित्यर्थः । ज्ञानात्मकेति ।। तथा च देहातिरिक्तप्राणास्तस्या न सन्ति यतः, अतः ‘स्वप्राणधारिणी’ इत्यर्थो नाङ्गीकार्य इति भावः । गौणीं वृत्तिमिति ।। जीवगतचिद्रूपत्वगुणयोगेनेत्यर्थः ।
ननु ‘जीवभूताम्’ इति विशेषणस्य किं प्रयोजनमित्यत आह– प्रकृतिमिति ।। जडप्रकृति-मित्यर्थः । अनेन ‘सर्वदा सती’ इत्यत्र ‘एकप्रकारेण’ इति ग्राह्यम् । जडप्रकृतेश्च विकारित्वेन तदभावादिति भावः । एतदिति ।। ‘जीवभूताम्’ इति विशेषणम् । देवस्यैवेति ।। ‘अधीनः’ इति शेषः । ‘सृष्ट्या’ इत्यस्यार्थमाह– सृज्यत इति ।। पञ्चतन्मात्राणि पृथिव्यादिभूतकारणभूतानि गन्ध, रस,स्पर्श,शब्दाख्यानीत्यर्थः । कुत एवं व्याख्येय्मित्यत आह– भिन्ना प्रकृतिरिति ।। भास्करस्येदं व्याख्यानम् । तन्मते च प्रकृतिशब्द उपादानार्थकः । अत एवानुव्याख्याने तन्मतानु-वादसमये ‘न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते’ इत्युक्तम् । एवञ्चात्र गीतायामुत्तरत्रोपादान-कारणस्यैवाष्टधा भिन्नत्वोक्तेः, भूम्यादिशब्दैस्तदुपादानमेव ग्राह्यमिति भावः । प्रसिद्धार्थेति ।। गुणत्रयलक्षणप्रसिद्धप्रकृतिपदार्थेत्यर्थः ।
ननु गीतायामहङ्कारतत्त्वग्रहणात्, प्रमाणे च तदभावाद् विसंवाद इत्यत आह– महतीति ।। कार्यस्य कारणान्तर्गतत्वात्, तद्ग्रहणेन कार्यमपि गृहीतमेवेति भावः । इत्येवेति ।। तथा च ‘इत्येवाष्टधा भिन्ना’ इत्यन्वयो द्रष्टव्यः ।इयम् जडा प्रकृतिः । तया श्रिया । ‘अनादिनिधना’ इति कालानन्त्यस्य वक्ष्यमाणत्वादाह– देशतो गुणतश्चेति ।। ननु श्रियो देशत आनन्त्यं सम्भवति, ‘समना च’ इत्युक्तत्वात् । गुणत आनन्त्यं तु कथम् ?
‘देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ।।’
इति तस्य भगवदसाधारणधर्मत्वावगमेन, अस्यामसम्भवात् । ब्रह्मापेक्षया कोटिगुणाधिकत्वेन गुणतः सान्तत्वमेव, इति चेत्, सत्यम् । गुणतोऽनन्तशब्दस्य बहगुणवत्त्वे तात्पर्यान्न दोष इति ध्येयम् । भाष्ये ‘अनादिनिधनेन परा’ इत्यर्थो द्रष्टव्यः ।। ५ ।।
भावप्रकाशः
।। अनेकार्थत्वादिति ।। ‘अपरस्त्वधुनार्थे स्यात् पश्चाद्गात्रे च दन्तिनः । अवाचीनेऽपरं प्राहु’रिति विश्वोक्तेरिति भावः । ननु जीवसम्बन्धिप्राणधारकत्वं जीवानामेव न तु प्रकृतेरित्यत आह– सर्वजीवेति ।। गौणीवृत्तिमिति ।। जीवगतचिद्रूपत्वगुण-योगेनेत्यर्थः । ननु जीवभूतेति विशेषणं किमर्थमित्यत आह– प्रकृतिमपेक्ष्येति ।। नन्वनन्तेति कालानन्त्योक्तौ अनादिनिधनेति पुनरुक्तं स्यादित्यत आह– अनन्ता देशतो गुणतश्चतेति ।। अत्र गुणानन्त्यमेव बहुगुणत्वरूपं परत्वोपपादकम् । न तु देशानन्त्यं जडप्रकृतिसाधारण्यादिति विवेक्तव्यम् । परशब्दस्यानेकार्थत्वादाह– परा मुख्येति ।। मुख्यत्वं सविशेषणे हीति न्याये-नानादिनिधनत्वान्वयि अन्यथा वैयर्थ्यादिति भावेन तद्व्यावर्त्यमाह– न त्वव्यक्तवदिति ।। ५ ।।