पञ्चैतानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ।। १३ ।।

पञ्चैतानि महाबाहो कारणानि निबोध मे ।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ।। १३ ।।

भाष्यम्

पुनः सन्न्यासं प्रपञ्चयितुं कर्मकारणान्याह– पञ्चेत्यादिना ।। साङ्ख्ये कृतान्ते ज्ञानसिद्धान्ते ।। १३ ।।

भावप्रदीपिका

उत्तरश्लोकचतुष्टयं पूर्वसङ्गततया अवतारयति– पुनरिति । साङ्ख्यपदेन दर्शनविशेष इत्याह– साङ्ख्य इति ।। १३ ।।

प्रमेयदीपिका

पञ्च इत्यादेः प्रकृतेन सङ्गत्यप्रतीतेस्तामाह– पुनरिति ।। न केवलं काम्यानां कर्मणां न्यासः सन्न्यासः, किन्तु कर्तृत्वाभिमान-त्यागश्चेत्येवं प्रागुक्तं सन्न्यासं पुनः प्रपञ्चयितुम् आत्मनोऽकर्तृत्वे क्रियाऽनिष्पत्ति-प्रसङ्गादङ्गीकार्ये कर्तृत्वे कथं तदभिमानत्यागो युक्तः? इत्याशङ्कापरिहारार्थमात्म-व्यतिरिक्तान्येव कर्मकारणान्याह इत्यर्थः ।। साङ्ख्यशब्दः कापिलतन्त्रे रूढः । ‘कृतं कर्म, तस्यान्तो निवृत्तिर्यत्र उच्यते’ इत्युपनिषत्सु कृतान्तशब्दं कश्चिद्व्याख्यातवान् । तदुभयं निवर्तयितुमाह– साङ्ख्य इति ।। ज्ञानार्थः सिद्धान्तः ज्ञानसिद्धान्तः । ‘सिद्धान्तः’ इति शास्त्रं लक्ष्यते । कापिलतन्त्रस्य निन्दितत्वात् । उपनिषत्स्वपि कर्मत्यागाप्रतिपादनात् ।। १३ ।।

भावबोधः

ननु प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः । तत्र कथं कारणानि प्रोक्तानीत्युच्यते इत्यत आह– शास्त्रं लक्ष्यत इति ।।

भावदीपः

।। सन्न्यासमिति ।। ‘त्यागरूपं प्रपञ्चयितुं कर्मकारणान्याह’ इत्यन्वयः । किमर्थं प्रपञ्चनम्? इत्यत उक्तम्– इत्येवं प्रागुक्तमिति ।। ‘शरीर’ इत्यादिश्लोकेन वक्तुमित्यर्थः ।। आत्मव्यतिरिक्तान्येवेति ।। तथाच आत्मजीवत्वाकर्तृत्वेपि न क्रियानुप-पत्तिदोष इति भावः । प्रामाणिकत्वेनाभ्युपगतार्थस्य सिद्धान्तशब्दितस्य ज्ञानार्थत्वाभावादाह– शास्त्रं लक्ष्यत इति ।। निन्दितत्वादिति ।। ‘निन्दितत्वाच्चेतरयोर्मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या’ इति द्वितीयाध्यायभाष्य एव प्रपञ्चनादिति भावः ।। कर्मत्यागाप्रतिपाद-नादिति ।। प्रत्युत ‘तान्याचरथ नियतं सत्यकामाः’ (२.१) इत्याथर्वणे, ‘कुर्वन्नेवेह कर्माणि जिजीविषेत् शतसमाः’ (२) इति ईशावास्यादौ तत्र विधानाच्चेत्यपि ध्येयम् ।। १३ ।।

भावरत्नकोशः

पुनःशब्दतात्पर्यं दर्शयन् भाष्यार्थमाह– न केवलमिति ।। ‘काम्यानां कर्मणां न्यासम्’ इत्यस्य वैकल्पिककाम्यानाम् अश्वमेधादीनां स्वर्गादिफलानिच्छया विशेषणत्यागेन त्यागः, नियतकाम्यानां कारीर्यादीनां स्वरूपाकरणेन त्याग इत्यर्थ इत्येवमिति प्रपञ्चनप्रकारोक्तिः । क्रियाऽनिष्पत्तिप्रसङ्गात् क्रियाया अनिष्पत्तिप्रसङ्गात् तदभिमानत्यागः कर्तृत्वाभिमानत्यागः । कश्चित् शङ्करः । तथा च तदीयं भाष्यम् ‘कृतमिति कर्मोच्यते, तस्य अन्तः कृतस्य परिसमाप्तिः यत्र स कृतान्तः वेदान्तः’ इति । उभयं रूढिपक्षम् उपनिषद्-ग्रहणपक्षं चेत्युभयम् । ‘ज्ञानसिद्धान्तः’ इत्यत्र ज्ञानस्य सिद्धान्तरूपत्वाभावात् नैवं व्याख्यानं युक्तमित्याशङ्क्य शाकपार्थिवादिवदत्र समासो विवक्षित इत्याह– ज्ञानार्थ इति ।। प्रामाणिक-तयाऽभ्युपगत्यर्थस्य सिद्धान्तपदार्थत्वात्, तत्र प्रोक्तत्वं कथमेतेषाम् इत्यत आह– सिद्धान्त इतीति ।। प्रतिपादकत्वं शक्यसम्बन्ध इति भावः । रूढिबलात् कापिलतन्त्रग्रहणे दोषमाह– कापिलेति ।। निन्दितत्वादिति ।। तथा च द्वितीयाध्याये भाष्यम् ‘निन्दितत्वाच्च इतरयोः साङ्ख्ययोगयोः मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या’ इति । परापव्याख्यानं प्रत्याख्याति– उपनिषत्स्वपीति ।। ‘कर्मत्यागाप्रतिपादनात्’ इत्युपलक्षणम् । प्रत्युत ‘तान्या-चरत नियतं सत्यकामाः’ इत्याथर्वणे, ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ इति काण्वमन्त्रोपनिषदादौ च कर्तव्यताया एवावगमादित्यपि द्रष्टव्यम् ।।

गीताक्षरार्थस्तु न केवलं वैकल्पिककाम्यकर्मणां फलोद्देशेन क्रियमाणत्वस्य विशेषणस्य त्यागेन त्यागः, नियतकाम्यानां स्वरूपाकरणेन त्यागश्च सन्न्यासः । किन्तु कर्तृत्वाभि-मानत्यागश्च इत्येवं प्रागुक्तं सन्न्यासं प्रपञ्चयितुम् आत्मनो कर्तृत्वे क्रियाया अनिष्पत्तिप्रसङ्गाद् अङ्गीकार्ये च कर्तृत्वे कथं तदभिमानत्यागो युक्तः इत्याशङ्कापरिहारार्थम् आत्मव्यतिरिक्तान्येव कर्मकारणान्युच्यन्ते– पञ्चैतानि इत्यादित्रिभिः ।। हे महाबाहो सर्वकर्मणां सिद्धये निष्पत्तये एतानि वक्ष्यमाणानि पञ्च कारणानि मे मम सकाशात् निबोध अवगच्छ । कर्तृत्वाभिमानत्यागे श्रोतुर्विश्वासजननायोच्यते– साङ्ख्ये कृतान्ते प्रोक्तानीति ।। साङ्ख्ये ज्ञानार्थे कृतान्ते सिद्धान्ते, सिद्धान्तशब्देन तत्प्रतिपादकं शास्त्रं लक्ष्यते । कपिलाख्यविष्णुनिर्मितसाङ्ख्य-नामकशास्त्रे ज्ञानानुकूलकर्मकारणानि प्रोक्तानि इति प्रतिज्ञातोक्तिः ।। १३ ।।

भावदीपिका

।। आत्मव्यतिरिक्तान्येवेति ।। जीवव्यतिरिक्तान्येवेत्यर्थः । तथाच जीवव्यतिरिक्तैरेव कारणैः क्रियानिषअपत्तिप्रसङ्गो नास्तीत्याशयः । ननु प्रामाणिकत्वे-नाभ्युपगतार्थस्य सिद्धान्तत्वात् तत्र कथं कारणानि प्रोक्तानि इत्यत आह– सिद्धान्त इतीति ।। परव्याख्याने बाधकमाह– कापिलेति ।। ‘साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च । ज्ञानान्येतानि भिन्ननि’ इत्यादिना मोक्षधर्मे इति शेषः । उपनिषत्स्वपीति । प्रत्युत कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः इति कर्मकरणस्यावश्यकताया एव प्रतिपादनादित्यर्थः ।।

भावप्रकाशः

 ज्ञानस्य सिद्धान्तत्वाभावादाह– ज्ञानार्थ इति ।। शाकपार्थि-वादिरितिवदिति भावः । ननु प्रामाणिकत्वेनाभ्युपगतार्थस्य सिद्धान्तत्वात् सिद्धान्ते प्रोक्तानीति कथमित्यत आह– शास्त्रं लक्ष्यत इति ।। प्रतिपादकत्वं शक्यसम्बन्ध इति कपिलतन्त्रोक्तौ बाधकमाह– कापिलेति ।। अपव्याख्यां प्रत्याह– उपनिषत्स्विति ।। १३ ।।