बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ।। ४ ।।

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।

सुखं दुःखं भवोऽभावो भयं चाभयमेव च ।। ४ ।।

भाष्यम्

तत् प्रथयति– बुद्धिरित्यादिना ।। कार्याकार्यविनिश्चयो बुद्धिः । ज्ञानं प्रतीतिः ।। ‘ज्ञानं प्रतीतिर्बुद्धिस्तु कार्याकार्यविनिश्चयः’ इति ह्यभिधानम् । दमः इन्द्रियनिग्रहः । शमः परमात्मनि निष्ठा । ‘शमो मन्निष्ठता बुद्धेः दम इन्द्रियनिग्रहः’ इति भागवते ।। ४ ।।

भावप्रदीपिका उत्तरश्लोकद्वयमवतारयति– तदिति ।। आदित्वम् । बुद्धिज्ञानशब्दयोरर्थभेदं सप्रमाणकमाह– कार्येति ।। दमादिशब्दार्थं सप्रमाणकमाह– दम इति ।।

प्रमेयदीपिका

तर्हि ‘आदिम्’ इत्यनेन ‘बुद्धिः’ इत्यादिकं गतार्थमित्यत आह– तदिति ।। सर्वादित्वम् । ‘बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्’ इति गौतमवचनात् । ‘बुद्धिर्ज्ञानम्’ इति पुनरुक्तिरित्यत आह– कार्येति ।। कुत एतत्? इत्यत आह– ज्ञानमिति ।। ‘ज्ञायते अनेनेति ज्ञानं शास्त्रम्’ इत्यसत्। आध्यात्मिक-धर्मप्रसङ्गात् । ‘दमो बाह्येन्द्रियोपशमः शमोऽन्तःकरणस्य’ इति कश्चित् । तदसत् । एकेनैव शब्देन सिद्धत्वात् । किन्तु दमः क्रियासु विनयः । शमो बाह्यान्तःकरणसंयमः’ इत्यपरः । तदप्यसदिति भावेनाऽह– दम इति ।। कुतः? इत्यत आह– शम इति

।। ४ ।।

भावबोधः

।। आध्यात्मिकेति ।। बुद्ध्यादीनां बहूनामाध्यात्मिकधर्मत्वादिति भावः ।। ४ ।।

भावदीपः

‘ज्ञानम्’ इत्यस्य ‘शास्त्रम्’ इति व्याख्या प्रकृतप्रसङ्गा-ननुगुणेत्याह– आध्यात्मिकेति ।। आत्मानमधिकृत्य स्थितधर्मः, प्रसङ्गात् शास्त्रस्य च तथात्वादित्यर्थः ।। ४ ।।

भावरत्नकोशः

।। तर्हि ‘अनश्चासौ आदिश्च सर्वस्य’ इति व्याख्याने । आदिमित्यनेनेति ।। ‘अनादिम्’ इति गीतायाम् ‘सर्वस्यानः, सर्वस्यादिः’ इति भगवतः सर्वकारणत्वस्य प्राप्तत्वात् । ‘बुद्धिज्ञानादिकं मत्त एव’ इति भगवत्कारणकत्वस्य बुद्ध्यादौ पुनरभिधाने, तद्वाक्यं पुनरुक्तमित्यर्थः । ‘प्रथयति’ इति भाष्यस्य ‘विस्तारयति’ इत्यर्थः । अनर्थान्तरम् अर्थान्तराभावः । शब्दाः पर्याया इत्यर्थः । आध्यात्मिकेति ।। बुद्धेरसम्मोहादेश्च आत्मानं देहमधिकृत्य प्रवर्तमानधर्मरूपत्वात्, तत्प्रसङ्गे शास्त्रग्रहणस्यानुचितत्वादिति भावः । ‘दमः बाह्यकरणानाम् अनर्थेभ्यो विषयेभ्यो नियमनम् । शमः अन्तःकरणस्य तथा नियमनम््’ इति रामानुजभाष्यमर्थतोऽनुवदति– दमो बाह्येति ।। अन्तःकरणस्य उपशम इत्यस्य बुद्ध्या विविक्तस्यानुवृत्तिः । एकेनेति ।। दमशब्दस्य इन्द्रियनिग्रहार्थत्वात्, तेनैव बाह्याभ्यन्तरेन्द्रिय-निग्रहग्रहणसम्भवेन शमशब्दस्य वैयर्थ्यादित्यर्थः । बाह्येति ।। बाह्यकरणानाम् अन्तःकरणस्य च संयम इत्यर्थः । ‘बुद्धेर्मन्निष्ठता शमः’ इत्यत्रास्मच्छब्दार्थः परमात्मा । ‘सुखशब्दागतार्थतया’ इति वदन् ‘सुखम् आह्लादः’ ‘तुष्टिः सन्तोषः’ इति शङ्करभाष्यमेकार्थत्वाद् अयुक्त-मित्यभिसन्धत्ते ।।

यदुक्तम् ‘अनादिम्’ इति सर्वकारणत्वं तद् विविच्यते– बुद्धिरित्यादिना ।। कार्याकार्य-विनिश्चयो बुद्धिः, ज्ञानं प्रतीतिः । असम्मोहः अकार्येच्छाराहित्यम्, मिथ्याज्ञानाभावो वा । ‘क्षमा क्रोधाभावेन सह अपकर्तुरनपकृतिः’ इति षोडशाध्यायभाष्यम् । ‘सत्यं यथार्थज्ञानपूर्वकम् अनुष्ठानम्’ इति तैत्तिरीयभाष्यम्, यथार्थभाषणं वा । दमः इन्द्रियनिग्रहः, शमः परमात्मनिष्ठता, सुखम् अनुकूलवेदनीयम्, दुःखम् प्रतिकूलवेदनीयम् । ‘भवः उत्पत्तिः भावः सत्ता’ इति तत्वोद्योतटीका । भयं त्रासः, अभयं त्रासविरोधिमनोव्यापारः ।। ४ ।।

भावदीपिका

।। तर्ह्यादिमित्यनेनेति ।। ‘बुद्धिम्’ इत्यनेनापि सर्वकारणत्वस्यैवोच्यमानत्वात्, तस्य च ‘आदिम्’ इत्यनेनैवोक्तत्वादिति भावः । अनर्थान्तर-मिति ।। पर्याय इत्यर्थः । आहेति ।। ज्ञानसामान्यस्य ज्ञानपदेनैवोक्तत्वाद् बुद्धिपदम् उक्तार्थकमेवेत्याहेत्यर्थः । आध्यात्मिकेति ।। बुद्ध्याद्याध्यात्मिकधर्मप्रसङ्गे ज्ञानशब्देन तथाविधं ज्ञानमेव ग्रहीतुं युक्तम्, न शास्त्रम् इति । अन्यथा प्रायपाठविरोधः स्यादित्यर्थः । एके-नैवेति ।। बाह्यान्तरिन्द्रिययोः उभयोरप्युपशमनस्य सामान्यत इन्द्रियोपशमवाचिना दमशब्देनैव सिद्धत्वात्, शमशब्दस्य वैयर्थ्यमित्यर्थः । क्रियास्विति ।। गुर्वादिपूजादिरूपास्वित्यर्थः । बाह्यान्तःकरणेति ।। बाह्यवस्तुविषयेऽन्तःकरणसंयम इत्यर्थः ।। ४,५ ।।

भावप्रकाशः

।। आदिमित्यनेनेति ।। अनादिशब्दान्तर्गतेनेति शेषः । आदिरित्यनेनेति पाठेऽहमादिर्हीत्यनेनेत्यर्थः इत्याहुः– एकेनैवेति ।। दम इन्द्रियनिग्रह इत्युक्तेर्दमशब्देनैव सिद्धत्वादित्यर्थः ।। ४,५ ।।