यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।। २६ ।।
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।। २६ ।।
भाष्यम्
यतो यतः यत्रयत्र । ‘यतो यतो धावति’ इत्यादिप्रयोगात् । आत्मन्येव वशं नयेत् आत्मविषय एव वशीकुर्यादित्यर्थः ।। २६ ।।
भावप्रदीपिका
‘यतो यत इन्द्रियादिन्द्रियात्’ इति प्रतीतिं निराकर्तुं ‘यतो यतो निश्चरति’ इति व्याचष्टे– यत इति । यत्र यत्र विषये ।। २६ ।।
भावप्रकाशिका
सर्वेन्द्रियनिरोधेऽपि मनोऽनिर्गमनाद्यतो यत इन्द्रियाणि निश्चरतीति न व्याख्येयम् । किं तर्हि ? इत्यत आह– यतो यत इति । मनस आत्म-विषयत्वस्यैव प्रस्तुतत्वात् तथैव व्याख्येयम् । न वृथा सप्तमीभङ्गेनात्मवशत्वमात्रमर्थ इति भावेनाह– आत्मनीति ।। २६ ।।
प्रमेयदीपिका
‘यतो यतः श्रोत्रादेः’ इति प्रतीतिनिरासायाह– यत इति ।। शब्दादावित्यर्थः । कुतः सप्तम्यर्थे तसिर्लभ्यत इत्यत आह– यत इति ।। तथाचोक्तं ‘आद्यादिभ्य उपसङ्ख्यानम्’ इति । अन्यथा द्वारमात्रनियमे स्मरणस्य को निवारयिता । षष्ठ्या ह्यत्र भाव्यं सप्तमी तु कथम्? इत्यत आह– आत्मनीति ।। २६ ।।
भावबोधः
।। अन्यथा द्वारमात्रविरोध इति ।। ‘यतो यत’ इत्यस्य श्रोत्रादे-रित्यर्थकत्वे शब्दादिविषयप्रत्यक्षोत्पत्तिनिवारणार्थं मनोनिस्सरणद्वारभूतश्रोत्रादिमात्रनिरोधेऽपि अन्तर्मनःकरणकविषयस्मरणं को निवारयितेत्यर्थः । यत्र यत्र विषये इत्यर्थकत्वे तु विषयविषयक-ज्ञानमात्रं निवारितं भवतीति भावः ।। २६ ।।
भावदीपः
।। यत इतीति ।। ‘यतो यतो धावति दैवचोदितं मनः’इति भागवते दशमस्कन्धाद्याध्याये प्रयोगादिति भाष्यार्थः ।। आद्यादिभ्य इति ।। ‘प्रतियोगे पञ्चम्यास्तसिः’ इति सूत्रे आद्यादिशब्देभ्यः ‘सर्वविभक्त्यर्थे तसेरुपसङ्ख्यानम्’ इति वार्तिककृतोक्तमित्यर्थः ।। ननु ‘यतो यतो यस्माद् यस्मात्, श्रोत्रादिद्वारा मनो निर्गच्छति ततो ततो द्वाराणि नियम्येत्यर्थः कुतो न? इत्यत आह– अन्यथेति ।। द्वारार्थत्व इत्यर्थः।। स्मरणस्येति ।। शब्दस्पर्शादिविषयस्मरण-स्येत्यर्थः । स्वात्मार्थत्वमात्मपदं मत्वा शङ्कते– षष्ठ्या ह्यत्रेति ।। २६ ।।
वाक्यार्थप्रदीपः (पां.टि.)– ।। कुतः सप्तम्यर्थे तसिरिति ।। प्रतियोगेपञ्चम्यास्तसिल् इति सूत्रे पञ्चम्यन्तादेव तसेर्विधानादित्यर्थः ।। तथाचोक्तमिति ।। प्रतियोगे पञ्चम्यास्तसिरिति सूत्रे कार्यापनेनेति शेषः ।। तद्वाक्यान्युदाहरति–आद्यादिभ्य उपसङ्ख्यानमिति ।। आदिमध्यपार्श्व-पृष्टादिभ्य उपसङ्ख्यानमिति वार्तिकस्यायं सङ्ग्रहः ।तथाच सप्तम्यन्तेभ्य आद्यादिशब्देभ्यः तसेः कात्यायनेनैव विहितत्वात् युक्तः सप्तम्यन्तादपि तसिरिति ।। नचैतन्निर्मूलत्वादुपेक्ष्यम् ।। तस्यादित उदात्तमर्धह्रस्वमित्यस्यैव तन्मूलत्वात् ।। नचाद्यादित्वाभावात् कथं यच्छब्दात् तदुपपत्तिरिति वाच्यम् । वृत्तिकृता तस्याकृतिगणत्वोक्तेरदोष इति ध्येयम् ।।
भावरत्नकोशः
।। इति प्रतीतीति । ‘ततस्ततः’ इति तावत्पञ्चम्यन्तम्, ‘नियम्य’ इति श्रवणात् । अतस्तत्प्रतियोगिभूतं ‘यतो यतः’ इत्यपि पञ्चम्यन्तमेवेति ‘श्रोत्रादेः’ इति व्याख्येयमेव’ इति प्रतीतीत्यर्थः । ‘यतो यतो धावति दैवचोदितं मनः’ इति दशम-स्कन्धाद्याध्याये प्रयोगादिति भाष्यार्थः । प्रयोगोऽप्यनुशासनमूल एव वक्तव्य इति, किं तदनु-शासनमित्यत आह– तथा चेति ।। ‘प्रतियोगे पञ्चम्यास्तसिः’ इति सूत्रे ‘आद्यादिभ्य उप-सङ्ख्यानम्’ इति सर्वविभक्तयर्थे तसिरस्तीति कात्यायनेनोक्तमित्यर्थः । ननु यतः यस्मात् श्रोत्रादीन्द्रियद्वारा निर्गच्छति ततो द्वारान् नियम्येति प्रतीतार्थः किं न स्यादित्यत आह– अन्यथेति ।। प्रतीतार्थत्वे मनोनिस्सरणद्वारभूतश्रोत्रादीन्द्रियमात्रनियमे सम्पन्नेऽपि मनसो विषयात् नियमनानापत्त्या तत्करणकशब्दादिविषयस्मरणस्य कः प्रतीकारः? तद्भावे च,
‘कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ।।’
इत्युक्तदोष इति भावः । ‘आत्मन्येव वशं नयेद् आत्मवश्यताम् आपादयेत्’ इति सङ्कर-व्याख्यान इव आत्मशब्दस्य स्वात्मार्थत्वे षष्ठीविभक्तिः स्यात् ? इति शङ्क ते षष्ठ्या हीति । आधाराधेयभावाभावेन सम्बन्धमात्रं वक्तव्यम्, आत्मनो वशम् इति प्रतीतेः, तत्र च ‘षष्ठी शेषे’ इति षष्ठीविभक्तिरेव युक्तेति शङ्कि तुर्हृदयम् । आत्मनीतीति । विषयार्था चात्र सप्तमीविभक्तिरिति न परव्याख्यान इव क्लेशाश्रयणमिति भावः ।।
मध्ये व्युत्थितं चेत् मनः, तदा तत्प्रत्याहारेण वशीकुर्यादित्युच्यते यतो यत इति । आद्यादिभ्य उपसङ्ख्यानात् सप्तम्यर्थे तसिः । यत्र यत्र शब्दादौ विषये स्वतः चञ्चलं मनो अस्थिरं सत् निश्चरति प्रवर्तत इति यावत् । ततस्ततो विषयात् एतत् मनो नियम्य प्रत्याहृत्य आत्मन्येव वशं नयेत् आत्मविषय एव वशीकुर्यात् ।। २६ ।।
भावदीपिका
।। श्रोत्रादेः सकाशात् । यत इतीति ।। ‘यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श’ इति नवमस्कन्धे प्रयोगादित्यर्थः ।। दुर्वासा यत्र यत्र धावति तत्र तत्राम्बरीषसंरक्षणाय भगवदादिष्टं सुदर्शनं पृष्ठतः प्राद्रवन् ददर्शेति तदर्थः । अतो ‘यतः’ इत्यस्य पञ्चम्यर्थत्वे ‘तत्र तत्र’ इत्यस्यायुक्तत्वापत्तेरिति भावः । भाष्ये ‘इत्यादि’ इत्यादिपदात् ।
‘यतो यतोऽसौ प्रहरन् परश्वधो मनोऽनिलौजाः परचक्रसूदनः ।
ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः ।’
इति नवमस्कन्धगतं वाक्यं द्रष्टव्यम् । आद्यादिभ्य इति ।। आद्यादिभ्यः शब्देभ्यः सप्तम्यादि-विभक्त्यन्तेभ्यस्तसिर्भवतीति वार्तिकार्थः । ‘आदौ’ इति ‘आदितः’, ‘मध्ये’ इधति ‘मध्यतः’ इत्याद्युदाहरणम् । ‘आकृतिगणश्चयम्’ इति काशिकायामुक्तत्वात् प्रकृतेऽपि ‘यस्मिन् इति यतः’ इत्यर्थो द्रष्टव्यः । केचित्तु आद्यादिभ्यःप्रथमादिसर्वविभक्तिभ्यस्तसेरुपसङ्ख्यानं कार्यम्, तसेः सार्वविभक्तिकत्वादित्यर्थ इत्याहुः ।।
अन्यथेति ।। ‘यतो यतः’ इत्यस्य ‘श्रोत्रादेः’ इति पञ्चम्यर्थत्वाङ्गीकारे शब्दादिविषयकानु-भवोत्पत्तिनिवारणार्थं मनोनिःसरणद्वारभूतश्रोत्रादिमात्रनिरोधलाभेऽपि अन्तर्मनःकरणकशब्दादि-विषयस्मरणं को वारयिता । तथा च ध्यानासम्भवः । ‘यत्र यत्र विेये’ इत्यर्थकत्वाङ्गीकारे तु शब्दादिविषयकज्ञानमात्रनिवारणलाभेन तत्स्मरणस्यापि निवारणलाभाद् ध्यानोपपत्तिरिति भावः ।। आहेति ।। ‘विषयसप्तमी’ इत्याहेत्यर्थः ।। २६ ।।
भावप्रकाशः
ननु यतो यतः श्रोत्रादेरिति प्रतीत एवार्थः किं न स्यादित्यत आह– अन्यथाद्वारमात्रेति ।। मनोनिःसरणद्वारभूतश्रोत्रादिमात्रेत्यर्थः । को निवारयितेति । मनोनियमनाभावात् तत्करणकविषयस्मरणं स्यादेवेत्यर्थः । यत्र यत्रेत्यर्थोक्तौ च विप्रियज्ञानमात्रमेव निरस्तं भवतीति भावः । षष्ठ्या ह्यत्र भाव्यमिति ।। आत्ममनसोर्नाधाराधेयभावः, किन्तु सम्बन्ध एव । मन आत्मनो वशमिति प्रतीतेः । तत्र च ‘षष्ठी शेषे’ इति षष्ठ्येव युक्तेत्यर्थः ।। २६ ।।