इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। १ ।।
।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ।।
श्रीश्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
श्रीमद्भगवद्गीताभाष्यम्
नवमोऽध्यायः
श्रीभगवानुवाच–
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। १ ।।
भाष्यम्
सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये ।। १ ।।
श्रीपद्मनाभतीर्थविरचित गीताभाष्यटीका
भावप्रदीपिका
एतदध्यायार्थं दर्शयति– सप्तमेति ।। यद्यप्यस्य सप्तमानन्तर्यं युक्तम्, तथा-प्यर्जुनेनास्याष्टमे पृष्टत्वान्नवमत्वम् ।
श्रीजयतीर्थविरचितगीताभाष्यटीका
प्रमेयदीपिका
पूर्वसङ्गतत्वेनाध्यायार्थमाह– सप्तमेति ।। ‘भगवन्माहात्म्यम्’ इति शेषः । पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानमिति सप्तमोक्तपदार्थान् अष्टमे व्याख्याय नवमे तद्वाक्यार्थं स्पष्टीकरोतीत्यर्थः ।। १ ।।
श्रीरघूत्तमतीर्थप्रणीता भावबोधाभिधा टिप्पणी
नन्वस्याध्यायस्य सप्तमोक्तस्पष्टनार्थत्वे तदानन्तर्यं स्यादित्यत आह– पदार्थेति ।। १ ।।
श्रीराघवेन्द्रतीर्थविरचितः
भावदीपः
।। पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानमिति ।। इतिशब्दो हेत्वर्थः ।। सप्तमोक्तपदार्था-निति ।। अध्यात्मादिपदार्थानित्यर्थः । तद्वाक्यार्थमिति ।। ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः’ इत्यादिवाक्यार्थमित्यर्थः । एतेन सप्तमानन्तर्यशङ्का अपास्ता ।। १ ।।
श्रीसुमतीन्द्रतीर्थविरचितः
भावरत्नकोशः
‘पूर्वसङ्गतत्वेन’ इत्यनन्तरम् ‘एतद्’ इत्युपस्कर्तव्यम् । नन्वस्याध्यायस्य सप्तमोक्तार्थस्य स्पष्टनार्थत्वे तदानन्तर्यं स्यात्? इत्यत आह– पदार्थेति ।। पदार्थान् ब्रह्म अध्यात्म कर्मादि-पदार्थान्, व्याख्याय ‘अक्षरं ब्रह्म परमम्’ इत्यादिना । तद्वाक्यार्थम्
‘ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ।’
‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।’
इत्यादिवाक्यार्थम् । स्पष्टीकरोतीति ।। यद्यपि ‘स्पष्टयति’ इति भाष्यम् ‘स्पष्टं करोति’ इत्येव व्याख्यातव्यम् । स्पष्टशब्दात् ‘तत्करोति’ इति णिचि ‘स्पष्टयति’ इति निष्पत्तेः । तथा च द्वितीयाध्यायटीकायाम् ‘स्पष्टयति’ इत्येतत् ‘स्पष्टंं करोति’ इति व्याख्यातम् । तथापि पूर्वमेव स्पष्टस्य पुनः स्पष्टनं व्यर्थमिति शङ्क•ं परिहर्तुमभूत-तद्भावार्थकच्विप्रत्ययप्रयोगो भाष्यभावस्फोरणार्थः ।
गीताश्लोकाक्षरार्थस्तु सप्तमाध्यायोक्तं भगवन्माहात्म्यं स्पष्टीक्रियते अस्मिन्नध्याये । अतिविचित्रभगवन्महिमानं वक्तुं श्रोतुरादरजननाय सप्रतिज्ञं वक्ष्यमाणं प्रशस्यते इदमिति द्वाभ्याम् । ‘ते’ इति श्रवणात् ‘पार्थ’ इति लभ्यते । अनसूयवे असूयापदोपलक्षितश्रोतृदोष-शून्याय ते तुभ्यम् । ‘क्रियाग्रहणं कर्तव्यम्’ इति वचनाच्चतुर्थी । इदं वक्ष्यमाणं गुह्यतमम् अतिशयेन संवरणीयम् । ज्ञानविज्ञानशब्दौ कर्मणि ल्युडन्तौ । विशेषज्ञातव्येन सहितं ज्ञातव्यं वक्ष्यामि । यज्ज्ञात्वा अशुभात् संसारात् मोक्ष्यसे ।। १ ।।
श्रीनिवासतीर्थविरचिता
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।
नवमाध्यायटीकायाः क्रियते भावदीपिका ।। १ ।।
विशेष्यानुक्तेराह– भगवन्माहात्म्यमिति ।। नन्वेवं तर्हि सप्तमाध्यायानन्तरमेव स्यात्, न त्वष्टमानन्तर्यम्, इत्यत आह– पदार्थज्ञानेति ।। सप्तमोक्तपदार्थान् ब्रह्मअध्यात्मादि-पदार्थान् । तद्वाक्यार्थम् ‘ते ब्रह्म तद्विदु’ इत्यादिवाक्यार्थभूतं भगवन्माहात्म्यम् ।
उमर्जीकृष्णाचार्यविरचितः
भावप्रकाशः
ननु अस्याध्यायस्य सप्तमोक्तस्पष्टनार्थत्वे तदानन्तर्यं स्यादित्यत आह– पदार्थेति ।।