ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ।। २१ ।।

ते तं भुक्त्वा स्वर्गलोकं विशालं

क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।

एवं त्रयीधर्ममनुप्रपन्ना

गतागतं कामकामा लभन्ते ।। २१ ।।

भाष्यम्

तथाऽपि मद्भजनमेवान्यदेवताभजनाद्वरमिति दर्शयति– त्रैविद्या इत्यादिना ।। २०,२१ ।।

भावप्रदीपिका

ननु यदि भवान् सर्वक्रत्वादिभोक्ता, तर्हि न भागव-तत्रैविद्यादिभेद इत्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतारयति– तथाऽपीति ।। २०,२१ ।।

प्रमेयदीपिका

‘सदसच्चाहमर्जुन’ इति विज्ञानस्योपसंहृतत्वादुत्तरस्या-सङ्गतिमाशङ्क्याह– तथाऽपीति ।। ‘अहं क्रतुः’ इत्यादिना सर्वक्रत्वादिभोक्तृत्वं यदुक्तं भगवतस्तदसत् इति वक्ष्यामीति गूढाभिसन्धिना ‘यदि सर्वत्र भोक्ता भगवान् तर्हि किं भागवतानां त्रैविद्यानां च फलसाम्यमेव? इति पृष्टस्य इदमुत्तरमित्याशयः । तथाऽपि सर्वत्र भगवतः भोक्तृत्वेऽपि मद्भजनं भागवतैरनुष्ठितम् । देवताः इति पित्राद्युपलक्षणम् । त्रैविद्याद्यनुष्ठितात् वरम् उत्कृष्टफलम् । इत्यादिना श्लोकत्रयेण ।। २०,२१ ।।

भावबोधः

।। तदसदिति वक्ष्यामीति ।। तर्ह्यहं क्रतुरित्याद्यसत्य-मित्यादिनेत्यर्थः । पित्राद्युपलक्षणमिति ।। ‘पितॄन् यान्ति पितृव्रताः’ ‘भूतानि यान्ति भूतेज्याः’ इति पित्रादेरप्युक्तेरिति भावः ।। २०,२१ ।।

भावदीपः

।। विज्ञानस्येति ।। ‘अहं क्रतुः’ इत्यादिनोपक्रान्तस्येति योज्यम् ।। इति वक्ष्यामीति ।। इत्येतच्चोद्यं ‘येऽप्यन्यदेवताः’ इत्येतदवतारिकायां व्यक्ती-करिष्यामीत्यर्थः ।। भागवतानां भगवदेकचिन्तकानाम् ।। त्रैविद्यानामिति ।। स्वर्गादिकामनया भगवद्याजिनाम्, आदिपदेनेतरदेवताभजकानामिति ज्ञातव्यम् । किं साम्यमेव इत्यन्वयः ।। इदमिति ।। त्रैविद्याः इत्यादि श्लोकत्रयमित्यर्थः । तत्र फलभेदस्य कीर्तनादिति भावः ।। पित्राद्युपलक्षणमिति ।। पितॄन् यान्ति पितृव्रताः इत्यादेरपि वक्ष्यमाणत्वादिति भावः

।। २०,२१ ।।

भावरत्नकोशः

।। वक्ष्यामीति ।। ‘तर्हि अहं क्रतुरित्याद्यसत्यम् इत्यादिना’ इति शेषः । सर्वत्र भागवतानुष्ठितेषु त्रैविद्यानुष्ठितेषु च । त्रैविद्यानुष्ठितभगवद्भजनस्य कथमन्यदेवताभजनाद् वरत्वम् ? फलान्तरोद्देश्यकत्वस्योभयत्राविशेषात्, इत्यत आह– भागवतैरनुष्ठितमिति ।। ‘पितॄन् यान्ति’ ‘भूतानि यान्ति’ इति वचनादाह– पित्रादीति ।। ‘त्रैविद्यादि’ इत्यादिपदेन ज्ञानिमिथ्याज्ञानिनोर्ग्रहणम् । वरशब्दितोत्कर्षः फलापेक्षयेति भावेनाह– वरमुत्कृष्टफलमिति ।। आदिपदसङ्ग्राह्योक्तिः– श्लोकत्रयेणेति ।।

ततश्च ते यजमानाः तं प्रार्थितं विशालं विपुलं स्वर्गलोकं तत्र भवं भोगं भुक्त्वा पुण्ये भोगप्रापके क्षीणे सति मर्त्यलोकं विशन्ति । पुनरपि एवम् एव त्रय्या विहितं धर्ममनुप्रपन्ना अनुसृताः कामकामाः कामान् भोगान् कामयमानाः गतागतं यातायातं लभन्ते ।। २१ ।।

भावदीपिका

।। वक्ष्यामीति ।। ‘तर्हि ‘अहं क्रतुः’ इत्याद्यसत्यमित्यनेन’ इत्यर्थः । ‘पितॄन् यान्ति पितृव्रताः, भूतानि यान्ति भूतेज्या’ इति वक्ष्यमाणानुसारेणाह– देवतेतीति ।। अतिप्रसक्तिवारणाय आदिपदग्राह्यतावच्छेदकमाह– श्लोकत्रयेणेति ।।२०,२१।।

भावप्रकाशः

।। वक्ष्यामीति ।। तर्ह्यहं क्रतुरित्याद्यसत्यमित्यनेनेति शेषः । ननु त्रैविद्यानुष्ठितमन्ते मद्भजनं विष्णुपरिवारत्वादिना भागवतानुष्ठितान्यदेवताभजनान्मोक्षप्रदात् कथं वरमित्यत आह– भागवतैरनुष्ठितमिति ।। ‘पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्याः’ इति वाक्यशेषानुसारादाह– पित्राद्युपलक्षणमिति ।। ननु ‘वैष्णवा इति बुद्ध्यैव मानयंत्यन्यदेवताः’ इत्याद्युक्तं ब्रह्मादिकृतान्यदेवताभजनं भगवद्भजनमेतत् कथं तस्माद्वरमित्यत आह– त्रैविद्याद्यनुष्ठितादिति ।। आदिपदेन केवलाज्ञनिमिथ्याज्ञानिनोः सङ्ग्रहः । त्रैविद्यकृतस्य स्वर्गच्युतिहेतुत्वात् । अज्ञकृतस्य मोघत्वात् । मिथ्याज्ञानिकृतस्य च विपरीतफलत्वादिति भावः । योगक्षेमं वहामीत्यपुनरावृत्तिफलोक्त्यनुसारेणाह– उत्कृष्टफलमिति ।। २० ।।