उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।। ५ ।।

उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः  ।। ५ ।।

भाष्यम्

स च योगारोहः प्रयत्नेन कर्तव्य इत्याह– उद्धरेदित्यादिना ।। ५ ।।

भावप्रदीपिका

नन्वेवं योगारोहस्य दुष्करत्वात्, मार्गान्तरेणापि सुख-सम्भवात्, किमनेन ? इत्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतारयति– स चेति ।। ५ ।।

भावप्रकाशिका

ननु योगनिरूपणावसरे कोयमात्मोद्धारः ? इत्याशङ्क्य, उत्तरश्लोकमवतार्य तात्पर्यकथनेन परिहरति– स चेति ।। मोक्षसुखापेक्षया संसारसुखस्या-र्वाग्गतिरूपत्वात् तत उद्धारहेतुर्योगोवश्यकर्तव्य इति भावः ।। ५ ।।

प्रमेयदीपिका

नन्वेवं विध्युपयुक्तमुक्त्वा समाधियोगे विधेये किमर्थ-मात्मोद्धारकर्तव्यतोच्यते ? इत्यतोऽनया वाचोभङ्ग्या योग एव विधीयत इत्याह– स चेति ।। यस्याधिकार्यादिकमुक्तं ‘स एव च योगः’ इति वक्तव्ये यदारोहग्रहणं कृतं तत् तेन तावत्पर्यन्तं योगः कर्तव्यः। न मध्य एव त्याज्य इति ज्ञापनार्थम् । प्रयत्नेन अभियोगेन ।। ५ ।।

भावबोधः

।। तावत्पर्यन्तमिति । योगारोहलक्षणापरोक्षज्ञानपर्यन्तं ध्यानलक्षण-समाधियोगः कार्य इत्यर्थः ।। ५ ।।

भावदीपः

।। अधिकार्यादिकमिति ।। आदिपदेन फलपर्यन्तं कर्मानुष्ठानग्रहः ।। वाचोभङ्ग्येति ।। उद्धरेत् इत्याद्युक्तरीत्येत्यर्थः ।। तावत्पर्यन्तं सम्पूर्णोपायसिद्धिपर्यन्तम् ।। इत्यपि ग्राह्यमिति ।। एतेन कस्य इत्येतत् किंविशेषणकस्येति व्याख्यातं भवति ।। ५ ।।

भावरत्नकोशः

।। विध्युपयुक्तम् समाधिविध्युपयुक्तम् अधिकार्यादिकम् । वाचोभङ्ग्या वाचोरीत्या । अवसरसङ्गतिकथनरूपत्वं स एव इत्यस्य स्फुटयति– यस्येति ।। समाधियोगस्येत्यर्थः । अधिकार्यादिकम् इत्यत्र आदिपदेन कारणलक्षणयोः समाधियोगाधिकारत्वे-नोक्तकर्मण आफलप्राप्तेरनुष्ठेयत्वस्य च सङ्ग्रहः । आरोहग्रहणम् इत्यनन्तरं तत् इति शेषः ।। तेन योगिना । तावत्पर्यन्तम् योगारोहणापरोक्षज्ञानरूपकार्यपर्यन्तम् । ननु कर्तव्यपदेनैव प्रयत्नसाध्यत्व-लाभात् प्रयत्नेन इति व्यर्थमित्यत आह– अभियोगेनेति ।। अभियोग आग्रह इति सुधा । बहुश्रुतत्वादिना जातेन परिचयातिशयेनेत्यर्थः । अभियोगस्त्वाग्रहः इत्यमरव्याख्याने तथोक्तेः ।।५।।

भावदीपिका

।। विध्युपयुक्तमिति ।। समाधियोगविधानोपयुक्तमित्यर्थः । योग एवेति ।। समाधियोग एवेत्यर्थः । तावत्पर्यन्तमिति ।। योगारोहलक्षणापरोक्षज्ञानपर्यन्तं ध्यानलक्षणसमाधियोगः कार्य इत्यर्थः । तथा चानेनावहननादिवत् असकृत् फलप्राप्तिपर्यन्तमनुष्ठेय-मिति प्रश्नोत्तरं जातमिति द्रष्टव्यम् । अभियोगेनेति ।। आग्रहेणेत्यर्थः । आसक्तिविशेषेणेति यावत्

।। ५ ।।

भावप्रकाशः

।। विध्युपयुक्तमिति ।। अधिकार्यादिकमित्यर्थः । वाचोभङ्ग्येति ।। वाचोरीत्येत्यर्थः ।। अधिकार्यादिकमिति ।। आदिपदेन कारणलक्षणयोः सङ्ग्रहः । योगारूढ-लक्षणोक्तौ योगलक्षणस्याप्युक्तप्रायत्वादिति बोध्यम् । तावत्पर्यन्तमिति । योगारूढलक्षणापरोक्ष-ज्ञानपर्यन्तं समाधिरूपयोगः कार्य इत्यर्थः ।

ननु कर्तव्य इत्यनेनैव प्रयत्नासाध्यत्वलाभात् प्रयत्नेनेति व्यर्थमित्यत आह– अभियोगेनेति ।। अभियोगस्तु शपथ इति विश्वोक्तेः शपथेनेत्यर्थः । आदरातिशयेनेति यावत् । यद्वाऽभितः सर्वतः सर्वस्मिन् देशे शरीरेन्द्रियमनोभिर्वा भगवति योगेनेत्यर्थः ।। ५ ।।