स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ।। ३६ ।।
अर्जुन उवाच–
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः
।। ३६ ।।
भाष्यम्
यदेतद् वक्ष्यमाणं तत् स्थाने युक्तमेवेत्यर्थः । अग्नीषोमाद्यन्तर्यामितया जगद्धर्षणाद् हृषीकेशः । केशत्वं त्वंशूनां तन्नियतत्वादेः । प्रमाणं तु ‘शशिसूर्यनेत्रम्’ इत्यत्रोक्तम् । हृषीकाणामिन्द्रियाणामीशत्वाच्च हृषीकेशः । तेषां विशेषतः ईशत्वं च ‘यः प्राणे तिष्ठन्’इत्यादौ सिद्धम् ।
भावप्रदीपिका
स्थाने इति पदार्थान्वयौ दर्शयति– यदेतदिति । हृषीकेशपदार्थमाह– अग्नीति । अग्नीषोमसूर्यान्तर्यामितया तदंशुभिः स्वकेशैर्जगद्घर्षणादे-रित्यनेन हर्षाः केशा यस्येति विग्रहः सूचितः । सूर्याद्यंशूनां भगवत्केशत्वं कथम् ? इत्यत आह– केशत्वमिति । तन्नियतत्वादिना तदभेदोक्तिरित्येतत्कुत इत्यत आह– प्रमाणं त्वति । हृषीकेशपदस्यार्थान्तरमाह– हृषीकाणामिति । सर्वेशस्येन्द्रयेशत्वं किं विशिष्याभिधीयते ? इत्यत आह– तेषामिति ।
प्रमेयदीपिका
‘स्थाने’ इत्येतत् ‘युक्तम्’ इत्यर्थेऽव्ययं चास्ति । अस्ति च सप्तम्यन्तं पदम् । तत् किमत्राभिप्रेतम्? कथं चास्यान्वयः? इत्यत आह– यदिति ।। स्थाने विषये एवेति वा बहुमानस्थाने त्वयीति वा योजनायां साध्या-हारत्वमिति भावः । हृषीकेशशब्दस्य प्रकृतोपयुक्तमपूर्वमर्थमाह– अग्नीति ।। अत्राऽद्ये-नादिशब्देन सूर्यो गृह्यते । द्वितीयेन बोधनस्थापने । ‘अग्न्याद्यंशुभिः स्वकेशैः’ इति शेषः ।। जगद्धर्षणादेरिति ।। बोधनस्थापनाभ्यां जगद्धर्षणादित्यर्थः । सूर्याद्यंशूनां कथं भगवत्केशत्वम्? इत्यत आह– केशत्वं त्विति ।। तन्नियतत्वतज्जन्यत्वादिना तादात्म्योक्तिरित्यत्र किं प्रमाणमित्यत आह– प्रमाणं त्विति ।। इत्यत्र एतद्व्याख्यानावसरे ।।
अनेन वक्ष्यमाणं वाक्यं विवृतं भवति । तथा चाग्न्यादिषु स्थित्वा स्वकेश-नियतैस्तदंशुभिः जगतः बोधनस्थापनाभ्यां हर्षणादियुक्तं भवति । हृष्यतेः कीप्रत्ययः । हृष्यो हर्षहेतवः केशाः अस्येति हृषीकेशः । नानेन प्रसिद्धोऽर्थस्त्याज्य इति भावेन तमप्याह– हृषीकाणामिति ।। ननु जगदीशस्य विशेषत इन्द्रियेशत्वं कथमित्यत आह– तेषामिति ।। पुरुषार्थोपयुक्तज्ञानक्रियाशक्तिप्रेरकत्वेनेति भावः ।।
भावबोधः
प्रकृतोपयुक्तमिति ।। जगत्प्रहृष्यतीत्यत्र हेतुतयोपयुक्तमित्यर्थः । सूर्याचन्द्रमसाविति प्रमाणानुसारेणाद्यादिशब्दार्थमाह– अत्राद्येनेति ।। बोधयन् स्थापयंश्चेति प्रमाणानुसारेणाह– द्वितीयेनेति ।। ‘केशैर्मे अंशुसंज्ञितैः’ इति प्रमाणानुरोधेनापेक्षितमध्याहरति– अग्न्याद्यंशुभिरिति ।। ‘बोधनात्स्थापनाच्चैव जगतो हर्षसम्भवात्’ इति प्रमाणानुसारेण जगद्धर्षणादित्येतद्व्याचष्टे– बोधनस्थापनाभ्यामिति ।। एतद्व्याख्यानवसर इति ।। ‘तदङ्गजाः सर्वसुरादयोऽपि’ इत्यादिरूपप्रमाणमित्यर्थः । अनेनेति ।। तन्नियतत्वादेरित्यनेन वक्ष्यमाण केशैर्मे अंशुसंज्ञितैरित्येतद्वाक्यं मत्केशनियतत्वजन्यत्वाश्रितत्वादिना निमित्तेन मे केशैरंशुसंज्ञितैः किरणैरिति विवृतं भवतीत्यर्थः । अग्नीषोमादिवाक्यद्वयलब्धमर्थमाह– तथा-चेत्यादिना ।। कीप्रत्यय इति ।। कित्वाल्लघूपधगुणाभाव इति भावः ।।
भावदीपः
।। स्थान इत्यनुवादः, विषय एवेति व्याख्या । हर्षानुरागविषयभूत एव त्वयीति योजनायामित्यर्थः ।। प्रकृतोपयुक्तमिति ।। ‘जगत् प्रहृष्यति’ इति गीतोक्तार्थे ‘हृषीकेश’ इति हेतुगर्भतया पूर्वमर्धमित्यर्थः । प्रसिद्धेन्द्रियेशत्वादर्थादन्यत्वात् ‘अपूर्वम्’ इत्युक्तम् ।। वक्ष्यमाणप्रमाणानुरोधेन क्रमादादिपदद्वयार्थमाह– अत्राद्येनेति ।। अनेनेति ।। नियतत्वादिकथनेनेत्यर्थः । ‘केशैर्मे अंशुसञ्ज्ञितैः’ इति वाक्यं ‘केशनियतैरंशुभिः’ इत्यादिरूपेण विवृतमित्यर्थः ।। कीप्रत्यय इति ।। कित्त्वात् ‘पुगन्तस्य लघूपधस्य च’ इति गुणाभावे हृषीकेश इति रूपमिति भावः ।। नानेनेति ।। अपूर्वार्थकथनेनेत्यर्थः ।। ज्ञानेन्द्रियकर्मेन्द्रियाभिप्रायेणाह– ज्ञानक्रियेति ।।
वाक्यार्थप्रदीपः
।। कीप्रत्यय इति ।। कित्त्वाल्लघूपधगुणाभाव इति भावः ।
भावरत्नकोशः
‘युक्तमित्यर्थेऽव्ययम्’ इति वदन् ‘युक्ते द्वे साम्प्रतं स्थाने’ इत्यभिधानम् अभिसन्धत्ते । ‘स्थाने युक्तमेवेत्यर्थः’ इति वदन् भाष्यकारः परकीययोजनायां दूषणं सूचयतीति भावेन परभाष्यमनुवदंस्तत्र दूषणं दर्शयति– स्थाने विषय एवेति ।। युक्तः विषयो भगवानित्यर्थः । तथा च शङ्करः ‘विषयविशेषणं स्थान इति युक्तो हर्षादिविषयो भगवान् यत ईश्वरः सर्वात्मा सर्वभूतसुहृच्च’ इति । साध्याहारत्वमिति ।। आद्ये पक्षे ‘विषयः’ इत्यस्य, द्वितीये ‘बहुमान’ इत्यस्य ‘त्वयि’ इत्यस्य चाध्याहार्यत्वात्् परव्याख्यानेऽध्याहार एव दोष इत्यर्थः । प्रकृतोपयुक्तमिति ।। ‘जगत्प्रहृष्यति’ इत्येतदुपपादकमित्यर्थः । अपूर्व-मिति ।। यद्यपि ‘हर्षात् सुखात्् सुखैश्वर्यात् हृषीकेशत्वमश्नुते’ इति सभापर्वणि हृषीकेशत्वं प्रसिद्धम् । तथाप्यग्न्याद्यंशुनियामकैः स्वकेशैः जगद्धर्षणमप्रसिद्धमिति एवमुक्तम् ।
‘सूर्याचन्द्रमसौ’ इति वक्ष्यमाणप्रमाणे सूर्यग्रहणादाह– सूर्यो गृह्यत इति ।। बोधनस्थापने ‘गृह्येते’ इति योज्यम् । ननु ‘हृष्यः केशा अस्य’ इति ह्यत्राभिप्रेतम् । नैतद्युक्तम् । केश-शब्दस्य भाष्ये अश्रवणात्, इत्यतो भाष्यमनुवदन् शेषमाह– अग्न्याद्यंशुभिः स्वकेशैरिति ।। अग्न्याद्यंशुभिः अग्नीषोमसूर्यांशुभिः । ‘बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात्’ इत्युक्त्यनु-सारेण भाष्यं योजयति– बोधनस्थापनाभ्यां जगद्धर्षणादिति ।। भाष्यादिपदार्थः तज्जन्यत्वम्, टीकादिपदार्थः तदाश्रितत्वम् । व्याख्यानावसरे ‘तदङ्गजाः सर्वसुरादयोऽपि तस्मात्् तदङ्गे-त्यृषिभिः स्तुतास्ते’ इति तज्जन्यत्वादिना तादात्म्योक्तिः इत्यत्र प्रमाणम् ऋग्वेदखिलवचनरूपम् उक्तमित्यर्थः । अनेन ‘तन्नियतत्वादेः’ इति भाषणेन, वक्ष्यमाणं ‘केशैर्मे अंशुसञ्ज्ञितैः’ इति वाक्यं ‘केशनियतैरंशुभिः’ इति व्याख्यातं भवतीत्यर्थः । ‘अग्न्यादि’ इत्यादिभाष्यस्य ‘केशत्वं त्वंशूनाम्’ इति भाष्यस्य च, निर्गलितमर्थं दर्शयति– तथा चेति ।। तदंशुभिः अग्नीषोम-सूर्यकिरणैः हर्षणात् हर्षोत्पादनात् । हृष्यतेः ‘हृष तुष्टौ’ इत्यस्माद् ‘अन्तर्णीतण्यर्थात्’ इति शेषः । कीप्रत्यय इति ।। यद्यप्युणादौ ‘यापोः कित् द्वे च’ इति यातेः पातेश्च विधीयमान ईप्रत्ययः किच्च भवतीति, ताभ्यामेव कीप्रत्ययो विहितः । तथापि बाहुलकाद् हृष्यतेरपि भवति । कित्त्वाच्च लघूपधगुणाभावे वातप्रमीशब्द इव हृषीशब्दो ज्ञातव्य इति भावः । अनेन अपूर्वार्थकथनेन तमपि प्रसिद्धमर्थमपि । तथा च हरिवंशेषु–
‘हृषीकाणीन्द्रियाण्याहुः तेषामीशो यतो भवान् ।
हृषीकेशस्ततो विष्णो ख्यातो वेदेषु पठ्यते ।।’ इति ।
‘अन्तरो यमयति’ इत्यनेन सिद्धं विशेषत ईश्वरत्वमुपपादयति– पुरुषार्थेति ।। ज्ञानेन्द्रिय कर्मेन्द्रियाभिप्रायेणेयमुक्तिः । श्रुतौ प्राणशब्दो घ्राणाभिमानिदेवतावचन इति नवमटीकातोऽवसेयमिति सङ्गतमेवैतच्छ्रुत्युदाहरणम् । ‘इत्यादौ’ इत्यादिशब्देन ‘यो वाचि तिष्ठन्, यश्चक्षुषि तिष्ठन्’ इत्यादिवाक्यपरिग्रहः ।
भावदीपिका
।। सप्तम्यन्तं पदम् भूम्यादिस्थानवाचीत्यर्थः । विषय एवेति ।। तथा च ‘तव प्रकीर्त्या सामर्थ्येन जगत् स्थाने स्वविषय एव प्रहृष्यति, अनुरज्यते, न त्वन्यविषये । यद्वा जगत् स्थाने शब्दादिविषय एव प्रहृष्यति, तत्रैवानुरज्यते’ इति गीतार्थो द्रष्टव्यः । बहुमानेति ।। तथा च ‘तव प्रकीर्त्या तव कीर्तनेन जगत्प्रहृष्यति, तथा बहुमानस्थाने त्वयि अनुरज्यते च’ इति गीतार्थो द्रष्टव्यः । साध्याहारत्वमिति ।। ‘विषय एव’ इति एवशब्दस्य, बहुमानशब्दस्य, ‘त्वयि’ इतिशब्दस्य चाध्याहारप्रसङ्गादित्यर्थः । ‘सूर्याचन्द्रमसौ’ इति प्रमाणानुसारेणाह– अत्राद्येनेति ।। ‘बोधयन् स्थापयन्’ इति प्रमाणानुसारेणाह– द्वितीयेनेति ।।
‘बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात्’ इति प्रमाणानुसारेणाह– बोधनस्थापनाभ्या-मिति ।। ‘सूर्याद्यंशुभिः स्वकेशैः’ इति शेषस्य पूरितत्वेन तदुपरि शङ्कते– सूर्याद्यंशूनामिति ।। ‘गीतायामुक्तम्’ इत्यन्यथाप्रतीतेः ‘इत्यत्र’ इत्यस्यार्थमाह– एतद्व्याख्यानेति ।। ‘तदङ्गजाः सर्वसुरादयोऽपि’ इति प्रमाणं तत्रोक्तमस्तीति भावः । अनेनेति ।। ‘तन्नियतत्वादेः’ इत्यनेन वक्ष्यमाणं ‘केशैर्मे अंशुसंज्ञितैः’ इत्येतद्वाक्यं मत्केशनियतत्वतज्जन्यत्वाश्रितत्वादिना निमित्तेन अंशुसंज्ञितैः किरणसंज्ञितैर्मे केशैरिति विवृतं भवतीत्यर्थः । ‘अग्नीषोमादि’ इति वाक्यद्वयलब्धमाह– तथा चेत्यादिना ।। ‘अग्नीषोमकृतैः’ इत्यत्र दीर्घषत्वयोः प्राप्तिः कथम् ? इति चेदुच्यते ‘अग्नेः स्तुत्स्तोमसोमाः’ अग्निशब्दात्परेषां स्तुत् ,स्तोम, सोमानां सस्य षत्वं स्यात् । अग्निस्तुत् ‘स्तु’ इत्यत्रत्यसस्य षत्वे तकारस्य षत्वनिमित्तकष्टुत्वे ‘अग्निष्टुत्’ इति भवति । अग्निष्टोमः । अत्रापि पूर्ववद् रूपम् । अग्नीषोमौ । नन्वग्निशब्दात् परसोमशब्दे स्थितस्य सस्य षत्वे, ‘अग्निषोमौ’ इति स्यात्, दीर्घः कथम् ? इति चेदुच्यते अस्मिन्नेव सूत्रे वार्तिकम् ‘अग्नेर्दीर्घात् सोमस्येष्यते’ इति । अग्निशब्दात्परस्य सोमस्य तत्रत्यसकारस्य षत्वमिष्यत इति यत् तत् दीर्घान्ताग्निशब्दात्परस्यैव, न तु ह्रस्वान्ताग्निशब्दादिति वार्तिकार्थः । तथा च ‘अग्नीषोमौ’ इति युक्तमिति ध्येयम् । कीप्रत्यय इति ।। ‘हृष्’ अस्मात् कीप्रत्यये, ककारलोपे, ‘हृषी’ इति रूपम् । कित्त्वाद्गुणाभावो द्रष्टव्यः । अन्यथा ‘हर्षी’ इति स्यात् । ‘हृषी हृष्यौ हृष्य’ इति हृषीशब्दस्य बहुवचनम्– हृष्य इति ।। कथमिति ।। केन निमित्तेनोच्यत इत्यर्थः । तत्र हेतुः– जगदीशस्येति ।। ज्ञानक्रियाशक्तीति ।। ज्ञानेन्द्रियाणां ज्ञानशक्तिप्रेरकत्वेन, कर्मेन्द्रियाणां कर्मशक्तिप्रेरकत्वेनेत्यर्थः । श्रुतौ प्राणशब्दो घ्राणेन्द्रियवाचीति द्रष्टव्यम् ।
भावप्रकाशः
।।अव्ययं चास्तीति ।। अव्ययवर्गे युक्ते द्वे साम्प्रतं स्थान इत्यमरोक्तेरिति भावः । विषय एवेतीति ।। स्थान इति विषयविशेषणम् । ततश्च तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन जगत्प्रहृष्यति अनुरज्यते चेति यत् तत्स्थाने विषय एव युक्ते विषय एवेत्येकोऽर्थः । युक्तेः हर्षादेर्विषयो भवान् यत ईश्वरः सर्वभूतसुहृच्चेति योजनाया-मित्यर्थः । साध्याहारत्वमिति ।। आद्यपक्षे विषय इति द्वितीये त्वयीत्यध्याहारापात इत्यर्थः । प्रकृतोपयुक्तमिति ।। जगत्प्रहृष्यतीत्येतदुपपादकमित्यर्थः । सूर्याचन्द्रमसाविति वाक्यार्थानु-सारेणाह– अत्राद्येनेति ।। बोधयन् स्थापयंश्चैवेत्येतदनुरोधेनाह– द्वितीयेनेति ।। केशैर्मे अंशुसञ्ज्ञितैरित्येतदनुसृत्याह– अग्न्याद्यंशुभिरिति ।। बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात् इत्येतदाश्रित्याह– बोधनस्थापनाभ्यामिति ।। यद्वा ननु हृष्यः केशा अस्येत्यभिप्रेतम् । नचानेन तल्लाभः केशानामेवानुक्तेरित्यत आह– स्वकेशैरिति शेष इति ।। ननु स्वकेशानां हर्षकत्वमनुपलम्भबाधितमित्यत उक्तम्– अग्न्याद्यंशुभिरिति ।। ननु तथाऽपि प्रकृतनिर्वचनोप-युक्ततया हर्षणमात्रे वक्तव्ये आदिपदं व्यर्थमित्यतो हर्षणनिमित्तबोधकत्वात् सार्थक्यमिति भावेनाह– बोधनस्थापनाभ्यामिति ।।
तज्जन्यत्वादिनेति ।। आदिपदेन तदाश्रितत्वसङ्ग्रहः । एतद्व्याख्यानावसर इति ।। तदङ्गजाः सर्वसुरादयोऽपीत्यादिनेति शेषः । अनेनेति ।। तन्नियतत्वादेरित्यनेनेत्यर्थः । वक्ष्यमाणमिति ।। केशैर्मे अंशुसञ्ज्ञितैरिति वाक्यमित्यर्थः । हृष्यतेरिति ।। अन्तर्भावित-ण्यर्थादिति शेषः । अन्तर्णीतण्यर्थाद्धृषतुष्टावित्यस्माद्धृष्यन्तीत्यर्थे कीप्रत्यये कित्त्वाल्लघूपध-गुणाभावे हृषीशब्दो वातप्रमीशब्दवत् द्रष्टव्य इति भावः ।।