अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ।। १६ ।।

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ।। १६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं चिन्ताप्रकार उक्तः । अथ तत्फलमुच्यते– अनेकेति ।। अनेकचित्तविभ्रान्ताः अनेकार्थविषयकचित्तवृत्तिभिः विविधं भ्रान्ताः अनवस्थिताः मोहजालसमावृताः मोहः मिथ्याप्रत्ययः, पुत्रादिस्नेहो वा, स जालमिव तेन नियन्त्रिताः कामभोगेषु विषयानुभवेषु प्रसक्ताः प्रकर्षेण सक्तहृदयाः सन्तः तेनोपचितकल्मषाः अशुचौ नानाप्रकारैः मनसः क्लेशकरे नरके रौरववैतरण्यादौ पतन्ति ।। १६ ।।