बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ।। ११ ।।

बलं बलवतां चाहं कामरागविवर्जितम् ।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ।। ११ ।।

भावरत्नकोशः

बलवतां बलवत्सु कामरागविवर्जितम् । असन्निकृष्टेषु विषयेषु तृष्णा कामः, प्राप्तेषु विषयेषु रञ्जना, अशोभनेषु शोभनाध्यासो वा रागः, ताभ्यां विवर्जितम् । बलम् अहमस्मि । भूतेषु धर्माविरुद्धः कामोऽस्मि । अत्र प्रकरणे अप्सु इत्यादि सप्तमी अबादिनां रसादौ भगवदुपासने पार्षदत्वज्ञापनाय ।। ११ ।।

Load More