योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ।। ४७ ।।

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ।। ४७ ।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे षष्ठोऽध्यायः ।।

भाष्यम्

ज्ञानिभ्यः योगज्ञानिभ्यः । तपस्विभ्यः कृच्छ्रादिचारिभ्यः ।उक्तं च

कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते ।

तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः ।।

ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम्’ इति गारुडे ।

अज्ञात्वा ध्यायिनो ध्यानाज्ज्ञानमेव विशिष्यते ।

ज्ञात्वा ध्यानं ज्ञानमात्रात्, ध्यानादपि तु दर्शनम् ।

दर्शनादपि भक्तेश्च न किञ्चित् साधनाधिकम्’ इति च नारदीये ।।४६-४७।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः ।। ६ ।।

भावप्रदीपिका

ज्ञानस्य योगसाध्यत्वात् कथं ततोऽधमत्वम् ? इत्यत आह– ज्ञानिभ्य इति । ननु ज्ञानस्यापि तपोरूपत्वात् कथं तपोधिकत्वं योगस्यैव ? इत्यत आह– तपस्विभ्य इति । उक्तार्थस्थापनपूर्वकमुत्तरश्लोकव्याख्यानाय पुराणवचनमुदाहरति– उक्तं चेति । अनेनायमर्थः सिद्ध्यति ‘सर्वेषां योगिनां मध्ये यो मां विषयार्थी भजते स युक्ततरः । यस्तु मद्गतेनान्तरात्मना भजते स युक्ततमः’ इति । ननु ज्ञानशब्देन भगवज्ज्ञानमेव किं न स्यात् ? कुतो योगज्ञानम् ? इत्यत आह– अज्ञात्वेति ।। ४६–४७ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां श्रीपद्मनाभतीर्थभट्टारकविरचितयां श्रीमद्भगवद्गीताभाष्यभावप्रदीपिकायां षष्ठोध्यायः ।।

भावप्रकाशिका

यत एवं योगज्ञानेच्छुरप्यन्ततः परमाप्नोति, अतः सर्व-साधनोत्तमत्वादवश्यानुष्ठेयो योग इति भावेनोत्तरं श्लोकं व्याचक्षाणः तद्विषयज्ञानादेव ध्यान-योगोऽधिकः, न परमात्मज्ञानादपीत्याह – ज्ञानिभ्य इति । ज्ञानानुसन्धानस्यैव मुख्यत-पस्त्वाद्योगस्य च तदुत्तमत्वनियमासम्भवात् । अत्र कृच्छ्रादिचरणं तप इति भावेनाह– तपस्विभ्य इति ।।

ध्यानस्य कृच्छ्राद्युत्तमत्वमुत्तरश्लोकव्याख्याने गारुडपुराण इत्याह– उक्तं चेति । एतदुक्तं भवति । सर्वेषां योगिनां मध्ये यः श्रद्धावान् योगेन हरिं भजते अणिमादिफलगतेनाप्यन्त-रात्मना स युक्ततरः । रमाविरिञ्चादिसर्वयोगिभ्यो हरिगतेनैवान्तरात्मना चेत् युक्ततम इति । ननु ध्यानयोगः परमात्मज्ञानादप्युत्तमः किं न स्यादित्यत आह– अज्ञात्वेति । तदेवं ज्ञान-ध्यानयोः परस्परोत्तमत्वात्, ध्यानयोगः स्वविषयज्ञानादेवाधिको न भगवज्ज्ञानात् परोक्षादपि । किं पुनरपरोक्षज्ञानात् भक्तितश्चेत्यर्थः । ‘यो मां भजते स युक्ततमः’ इति भक्तिर्हि सर्वसाधनाधिकत्वेनोच्यते ।। ४६, ४७ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीगीताभाष्यटीकायां

श्रीनरहरितीर्थभट्टारककृतौ भावप्रकाशिकायां षष्ठोऽध्यायः ।।

प्रमेयदीपिका

ननु ज्ञानं योगस्य फलम् । तत्कथं ज्ञानिभ्योऽप्यधिको मतः ? इत्यत आह– ज्ञानिभ्य इति ।। यद्यपि ज्ञानतपसा पूता इति ज्ञानमपि तपः । तथाऽपि तदतिरिक्तमेवात्र विवक्षितमित्याह– तपस्विभ्य इति ।। ब्रह्मज्ञानादाधिक्यस्यासम्भवाद्योग-ज्ञानाधिक्यस्य पृथगुक्तत्वादिति भावः । अत एव पूर्वं तद्व्याख्यातम् ।। उक्तार्थमुपपादयन् श्लोकद्वयार्थं पुराणवाक्येनाऽह– उक्तं चेति ।। मुमुक्षुणांं मुमुक्षूणाम् । एतेन सर्वेषामपि योगिनां मध्ये यो मां भजते स युक्ततरो मतः । तत्रापि मद्गतेनान्तरात्मना यो भजते स युक्ततमो मतः इति व्याख्यातं भवति । ज्ञानिभ्योऽपि मतोऽधिक इत्येतद्योगज्ञानविषयमेव, न तद् ब्रह्मज्ञानविषयम् इत्येतत् पुराणवाक्येन स्थापयति– अज्ञात्वेति ।। ‘योगम्’ इति शेषः । साधनाधिकं साधनेष्वधिकम् ।। ४६,४७ ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां श्रीजयतीर्थमुनिविरचितायां प्रमेयदीपिकायां षष्ठोऽध्यायः समाप्तः ।। ६ ।।

भावबोधः

।। अत एवेति ।। तपश्शब्दस्य योगज्ञानपरत्वप्रदर्शनार्थत्वादेवेत्यर्थः

।। ४७ ।।

।। इति श्रीमद्भगवद्गीताभाष्यटीकाभावबोधे षष्ठेऽध्यायः ।।

भावदीपः

।। अत एवेति ।। ‘तपस्विपदेन ज्ञानग्रहः’ इति ज्ञापनार्थत्वादेव ‘ज्ञानिभ्यः’ इतिपदं पूर्वं व्याख्यातम् । अन्यथा पाठक्रमात् तपस्विपदमेव प्राग् व्याख्येयमिति भावः ।। योगमिति शेष इति ।। एतेन ज्ञानमेवेति ज्ञात्वेति च योगज्ञानविषयमेवेति दर्शितम् । कर्मधारयपक्षे अधिकसाधनमिति स्यादित्यत आह– साधनेष्वधिकमिति ।। ४६,४७ ।।

।। इति श्रीमद्गीताभाष्यटीकाभावदीपे श्रीराघवेन्द्रयतिकृते षष्ठोऽध्यायः ।।

वाक्यार्थप्रदीपः (पां.टि.)– ।। मुमुक्षुणामिति ।। ‘छन्दस्युभयथा’ इत्यतो नामि दीर्घत्वाभावो मूले युक्त इति भावः ।।

।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसरणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यचरणानां निजशिष्यकेशवेन विरचिते

व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे षष्ठोऽध्यायः ।।

भावरत्नकोशः

।। ‘तपस्विभ्यः’ इत्यत्र तपःशब्देन ज्ञानस्यापि ग्रहणे दोष इति चेत्, किं योगस्य ब्र्रह्मज्ञानात् आधिक्यं वक्तव्यम्, योगज्ञानाद्वेति विकल्प्य आद्ये दोषमाह– ब्रह्मेति ।। ‘न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक्’ इत्यादिशास्त्राद् ब्रह्मज्ञानाधिक्यस्य योगादौ क्वाप्यसम्भवादित्यर्थः । द्वितीय आह– योगेति ।। ‘ज्ञानिभ्योऽपि मतोऽधिकः’ इत्यनेन योगज्ञानाद् आधिक्यस्य योगे पृथगुक्तत्वेनात्रावक्तव्यत्वात्, तपःशब्देन कृच्छ्राद्येव ग्राह्यमिति भाव इत्यर्थः । अत एवेति । तपस्विशब्दगततपःशब्दस्य योगज्ञानपरत्वासम्भवादेव, ‘तपस्विभ्यः’ इति पद-व्याख्यानात् पूर्वं ‘ज्ञानिभ्यः’ इति पदं ‘योगज्ञानिभ्यः’ इति व्याख्यातम् । अन्यथा पाठक्रमात् तदेवादौ व्याख्येयं स्यादिति भावः ।

तपस्विभ्यः कर्मिभ्यश्चाधिको योगी’ इत्यस्य तात्पर्यवर्णनपरे ‘कृच्छ्रादेः’ इत्यर्धे तपःशब्देन कृच्छ्रादि, कर्मशब्देन यज्ञादि, योगशब्देन ध्यानयोगश्च ग्राह्य इति भावेनाह– उक्तार्थमिति । ‘छन्दस्युभयथा’ इति ‘मुमुक्षुणाम्’ इति पुराणे नामि दीर्घत्वं नाश्रितमिति भावेनाह– मुमुक्षुणामिति ।

एतेन ‘तत्रापि शेषश्रीब्रह्मशिवादि’ इति पुराणोदाहरणेन । सर्वेषामिति । श्रीब्रह्म-शेषादिसाधारण्येन ध्यानमात्रवन्तो ये युक्तशब्दिता योगिनस्तेषां सर्वेषां मध्य इत्यर्थः । ‘माम्’ इत्यनन्तरं भावप्रदीपिकारीत्या ‘विषयार्थी’ इति, प्राचीनटीकारीत्या ‘अणिमादिफलकत्वे-नाप्यन्तरात्मना’ इति वा संयोज्यम् । तेन युक्ततमादप्यवरत्वं सिद्ध्यति । तत्रापि युक्ततरवर्ग-मध्येऽपि इत्येतदिति । इत्यत्र विद्यमानं ज्ञानिशब्दप्रकृतिभूतं ज्ञानप्रातिपदिकमित्यर्थः । योगमिति शेष इति । अनेन ‘योगं सम्यग्योगप्रकारमज्ञात्वा ध्यानवतः पुरुषस्य ध्यानात् ज्ञानं सम्यग्योग-प्रकारकं ज्ञानं विशिष्यते । ज्ञानमात्रं तु विशिष्यते । दर्शनं तु ध्यानादपि विशिष्यते’ इति भाष्यं योजितं भवति ।

भाष्ये ‘भज सेवायाम्’ इति धातोः सेवारूपभक्तेः ‘भजते’ इत्यनेनैव लाभ इति ‘भक्तेश्च’ इत्युक्तम् । ‘यस्मादधिकम्’ इत्यधिकशब्दयोगे पञ्चमीवत्, अत्रापि ‘साधनेभ्योऽधिकम्’ इति विग्रहाश्रयणे ‘दर्शनाच्चैव भक्तेश्च’ इति पञ्चम्यनन्वय इत्यतो व्याचष्टे– साधनेष्वधिकमिति ।। ‘तदस्मिन्नधिकम्’ इति दर्शनादधिकशब्दयोगे सप्तमी चास्ति । सा च ‘सप्तमी’ योगविभागात् समस्यत इति भावः ।।

योगिनामप्यस्ति तारतम्यमित्युच्यते– योगिनामिति । सर्वेषामपि योगिनां मध्ये यः श्रद्धाशब्दितमद्भक्तिमान् सः एव युक्तो मतः । तत्रापि यो मां भजते स युक्ततरो मतः, तत्रापि मद्गतेनान्तरात्मना फलकामनां विना यो मां भजते स युक्ततमः अतिशयेनोत्तमो मे मम मतः ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति षष्ठी ।। ४७ ।।

स्वतन्त्रः कर्ताऽयं मुररिपुरहं कर्मसु परं

प्रतिच्छायारूपः किमपि च करोमि स्वविहितम् ।

इति प्राज्ञैर्ज्ञात्वा सकलसुकृतानि प्रतिदिनं

हरावेव न्यस्यन् प्रथित इह तु जड (न) इति सः ।।

मादृशस्स्वलनं नैव दोषः श्रीभाष्यटीकयोः ।

किन्तु तत्सेवनोद्युक्ता शोध्या मद्गीर्दयालुभिः ।।

आर्यस्वान्ताम्भोजहंसायमानौ संसाराम्भोराशिनावौ समानौ ।

भूयास्तां तौ भूतये भूरिमानौ वेदव्यासानन्दतीर्थाभिधानौ ।।

श्रीमद्गीताभाष्यटीकाश्रीषष्ठाध्यायसेवया ।

गुणिनः परितुष्यन्तु गुणग्रहणभूषणाः ।।

।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सूरीन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रयतिविरचितायां भावरत्नकोशसमाख्यायां प्रमेयदीपिकाव्याख्यायां षष्ठोऽध्यायः ।।

भावदीपिका

।। तत्कथमिति ।। न हि फलवतः सकाशात् साधनवानधिक इति भावः । ‘पूताः’ इत्यनन्तरम् ‘उक्तत्वेन’ इति शेषः । ननु ज्ञानरूपमेव तपः कुतो न गृह्यत इति चेत्, तत्र प्रष्टव्यम्– किं ज्ञानशब्देन ब्रह्मापरोक्षज्ञानं गृहीत्वा तपस्विभ्यः ब्रह्मपरोक्षज्ञानिभ्यो ध्यानयोगी अधिक इत्यर्थो गृह्यते उत ज्ञानशब्देन योगज्ञानमात्रं गृहीत्वा तपस्विभ्यः योगज्ञान-वद्भ्यो ध्यानयोगी अधिक इत्यर्थो गृह्यते । नाद्य इत्याह– ब्रह्मज्ञानादिति ।। असम्भवादिति ।। ध्यानस्य ब्रह्मज्ञानाद् आधिक्यस्यास्भवेन तद्वतः सकाशात् ध्यानयोगिन आधिक्यं न सम्भव-तीत्यर्थः । न द्वितीय इत्याह– योगेति ।। । योगज्ञानवतः सकाशाद् ध्यानयोगिन आधिक्यस्य ‘ज्ञानिभ्योऽपि मतोऽधिकः’ इत्यनेनोक्तत्वेन ‘तपस्विभ्योऽधिको योगी’ इत्यस्य पौनरुक्त्य-प्रसङ्गादिति भावः । अत्रोपष्टम्भकमाह– अत एवेति ।। पौनरुक्त्यप्रसङ्गेन तपःशब्दस्य योग-ज्ञानपरत्वासम्भवप्रदर्शनार्थमेव पश्चादुक्तमपि ‘ज्ञानिभ्यः’ इति पदं ‘तपस्विभ्यः’ इत्यपेक्षया पूर्वं व्याख्यातमित्यर्थः । अन्यथा क्रमोल्लङ्घने निमित्ताभावादिति भावः । मुमुक्षुणामिति ।। नामि दीर्घाभावश्छान्दस इति भावः ।।

कृछ्रादेः’ इति प्रमाणस्यायमर्थः । कृछ्राद्यपेक्षया ध्यानयोगो विशिष्यते । तत्रापि ध्यानयोगेऽपि भगवद्भक्त एव कार्यार्थे शेषादिध्यानं करोति तद्ध्यानतः हरेर्ध्यानं मोक्षेतरफलकामनया क्रियमाणं कोटिगुणं प्रोक्तम् । मुमुक्षुणां मोक्षेतरफलकामनां विहाय केवलं मोक्षेच्छूनां यद् हरेर्ध्यानं तत् पूर्वोक्तकोटिगुणध्यानापेक्षया अधिकं वा अधिकमेवेति । यथोक्तं तात्पर्ये ‘मद्भक्तोऽपि हि कार्यार्थी यो ध्यायेदन्यदेवताः’ इत्यादि ।।

एतेनेति ।। मद्भक्त एव यः कार्यार्थमन्यदेवताध्यानं करोति स युक्तो ध्यानी मे मत इत्यादौ ग्राह्यम् । सर्वेषामपि योगिनां मध्ये इतरफलकामनया यो मां भजते स मे युक्ततरो मत एतद्व्यानस्यान्यदेवताध्यानात् कोटिगुणत्वात् । तत्रापि मद्भजकेष्वपि इतरकामनां त्यक्त्वा मोक्षेच्छया मद्गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मतः । इतरकामनया क्रियमाण-हरिध्यानापेक्षयैतद्ध्यानस्याधिकत्वादित्यर्थः ।

योगमितीति ।। तथा च योगापरपर्यायध्यानस्वरूपमज्ञात्वा ध्यायिनः ध्यानं कुर्वतो ध्यानात् ज्ञानं योगापरपर्यायध्यास्वरूपज्ञानमेव विशिष्यते । ज्ञानमात्रात् योगापरपर्यायध्यानस्वरूपज्ञान-मात्रात् ज्ञात्वा ध्यानं योगापरपर्यायध्यानस्वरूपं ज्ञात्वा तत्पूर्वकं क्रियमाणं ध्यानं विशिष्यत इत्यर्थो द्रष्टव्यः । ‘साधनेभ्योऽधिकम्’ इत्यर्थस्य प्रकृतानुपयोगात् तदनूद्य व्याचष्टे– साधनाधिकमिति

।। ४६–४७ ।।

इति यदुवरगीताभाष्यटीकासु युक्ताऽऽशयमतिललिताभिर्गीर्भिरावेदयित्री ।

सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा समगमदयमध्यायोऽन्तमस्यां तु षष्ठः ।।

।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्भगवद्गीताभाष्यटीकाविवृतौ भावदीपिकाख्यायां षष्ठोऽध्यायः ।।

भावप्रकाशः

यदि ‘ज्ञानतपसा पूता’ इत्येतदनुसारेण ‘तपस्विभ्य’ इत्यत्र तपो ज्ञानं तदा ज्ञानाधिक्यमनेनोक्तं स्यात् । तत्र किं ब्रह्मज्ञानादाधिक्यं विवक्षितं योगज्ञानाद्वेति विकल्प्याद्यं दूषयति– ब्रह्मज्ञानादिति ।। द्वितीयं प्रत्याह– योगेति ।। पृथगिति ।। ‘ज्ञानिभ्योऽपि मतोऽधिकः’ इत्यनेनेत्यर्थः । अत एवेति ।। तपःशब्दस्य योगज्ञानपरत्वासम्भवप्रदर्शनार्थमेवेत्यर्थः ।

ननु नामीति दीर्घे ममुक्षूणामिति स्यादित्यत आह– मुमुक्षुणामिति ।। एतेनेति ।। तत्रापि शेषश्रीब्रह्मेत्याद्युक्तेनेत्यर्थः । सर्वेषामपीति ।। शेषादिसाधारण्येन ध्यानमात्रवन्तो योगिनः । तत्र ये विष्णुध्यायिनः ते युक्ततराः । तत्रापि मद्गतेनान्तरात्मना विशिष्टध्यानवन्तः ते युक्ततमा इत्यर्थः । यस्मादधिकमिति ज्ञापकाद् अधिकशब्दयोगे पञ्चमी इत्यभिप्रेत्य साधनेऽभ्योऽधिकमिति कृते दर्शनाच्चैव भक्तेश्चेति पञ्चम्यनन्वय इत्यत आह– साधनेष्वधिकमिति ।। तदस्मिन्नधिकमिति ज्ञापकाद् अधिकशब्दयोगे सप्तमी इति भावः ।। ४६,४७ ।।

।। इति श्रीमत्तिरुमलाचार्यसुतकृष्णविरचितायां प्रमेयदीपिकाभावप्रकाशे षष्ठोऽध्यायः ।।