मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ।। ३० ।।
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ।। ३० ।।
भाष्यम्
अतः सर्वाणि कर्माणि मय्येव सन्न्यस्य भ्रान्त्या (भ्रान्तितः) जीवेऽ-ध्यारोपितानि मय्येव विसृज्य भगवानेव सर्वाणि कर्माणि करोतीति मत्पूजेति चात्मानं मामधिकृत्य यच्चेतः तदध्यात्मचेतः । सन्न्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ।। ३० ।।
भावप्रदीपिका
चतुर्थं व्याचष्टे– भ्रान्त्येति ।। आरोपितानां संन्यासः कीदृशः ? इत्यत आह– भगवानिति । संन्यासश्च परमेश्वरपरिचित्तत एव भवतीत्याह– आत्मानमिति ।। ‘संन्यास’ ‘निर्मम’शब्दयोरर्थभेदमाह– संन्यासस्त्विति ।। ३० ।।
भावप्रकाशिका
चतुर्थं व्याचष्टे– अत इति ।। यतः स्वतन्त्रकर्म विष्णो-रेव, तं प्रत्येव गुणभूतानि इन्द्रियाणीत्यादिविदेव न सक्तः स्यात्, अतस्तस्मिन्नेव सर्वाणि कर्माणि संन्यस्य युद्ध्यस्वेत्यर्थः । अतःशब्दोक्तहेतुविशेषज्ञानात् स्वकृतं कर्म भगवत्येव समर्प्येत्यपि प्रतीतिः स्यात् । तां व्यावर्तयति– भ्रान्तित इति ।। ननु जीवाध्यारोपितत्वे कर्मणां कथं विसर्गः ? स्वीयस्यैव विसर्जनीयत्वादित्याशङ्क्य, यत्कृतान्येतानि तत्कृतत्व-ज्ञानमेवैतेषां विसर्ग इति भावेनाह– भगवानिति । अनेनैव कर्मणां स्वरूपेणारोपितत्वं प्रत्युक्तम् ।
प्रकारान्तरेणापि भगवति कर्मविसर्गमाह– मत्पूजेति ।। मत्कृतान्येवैतानि कर्माणीत्येतदेवारोपितं जीवे । न तु मयि भगवता क्रियन्त इत्येतत् । अतः तत्प्रसादेन आत्मनि प्राप्तकर्मणां तत्पूजात्वेनार्पणं युक्तमिति भावः । परमात्मानमधिकृत्य यच्चेतः, तस्य सर्वोत्तमत्वसर्वनियामकत्वादिज्ञानम्, तेन तत्र सर्वकर्मसंन्यासो घटत इति भावेनाह– आत्मानमिति ।। संन्यासनिर्ममत्वयोर्भेदमाह– संन्यासस्त्विति ।। ३० ।।
प्रमेयदीपिका
‘मयि सर्वाणि’ इत्यस्य सङ्गतिं दर्शयति– अत इति ।। यतो विद्वत्कर्मैवंविधं, त्वं च विद्वानसि, अतः । ननु सन्न्यासो विसर्गः । स च स्वकीयस्य भवति । नच जीवस्य कर्माणि सन्तीत्युक्तम् । तत्कथं तेषां विसर्गो विधीयते? इत्यत आह– भ्रान्त्येति ।। ‘कर्मणां परमेश्वरे सन्न्यासो नाम तदात्मकत्वविज्ञानम्’ इति कश्चित् । तदसत् । अशाब्दत्वाद्, प्रमाणविरुद्धत्वाच्चेति भावेन स्वपक्षे तदभिप्रायमाह– भगवानिति ।। इति ‘ज्ञात्वा’ इति शेषः ।।
प्रकारान्तरं चाह– मदिति ।। इति ‘समर्पणं च कर्मणां मयि सन्न्यासः’ इति शेषः । ‘कर्माणि परमेश्वरात्मकत्वं प्रतिपद्य तत्प्राप्तये कल्प्यन्त इति अध्यात्मचेतसा’इति व्याख्यानम् अशाब्दमिति भावेन व्याचष्टे– आत्मानमिति ।। अनेनाव्ययीभावगर्भः कर्मधारय इत्युक्तं भवति । अस्य निराशीः इत्यनेनान्वयः । परमात्मलाभेन निराशीः आशारहित इत्यर्थः ।। ननु निर्ममत्वं न मम कर्माणि सन्तीति ज्ञानम् । तच्च ‘मयि सर्वाणि कर्माणि सन्न्यस्य’ इत्यनेन गतार्थमित्यतो द्वयोर्भेदमाह– सन्न्यासस्त्विति ।। उभयत्र ‘इति’शब्दात् परं ‘ज्ञानम्’ इति शेषः ।। ३० ।।
भावदीपः
।। इत्युक्तमिति ।। ‘प्रकृतेः’ (३.२७) इति श्लोकभाष्ये ‘नहि प्रतिबिम्बस्य क्रिया’ इत्यादिनोक्तमित्यर्थः ।। ३० ।।
वाक्यार्थप्रदीपः (पां.टि.)– ।। अनेनाव्ययीभावगर्भ इति । विभक्त्यर्थेऽधिकरणत्वे ‘अव्ययं विभक्ति’ इत्यनेनाव्ययीभावः । ततश्च अध्यात्मम्=आत्मनीत्यर्थः । ततोऽव्ययीभाव-गर्भोऽध्यात्मं च तत् चेतश्चेति तत्पुरुषः समानाधिकरणः कर्मधारय इति कर्मश्चारय इत्यर्थः ।।
भावरत्नकोशः
एवंविधं गुणकर्मविभागज्ञानपूर्वमनुष्ठेयत्वाद् अविद्वत्कर्म-विलक्षणमित्यर्थः । ‘विसृज्य’ इति भाषणादाह– विसर्ग इति ।। इत्युक्तं ‘न हि प्रतिबिम्बस्य क्रिया’ (गी.भा. ३.२७) इत्यत्रेति शेषः । तेषां कर्मणाम् । भ्रान्त्या सर्वकर्मस्वहमेव कर्तेति स्वातन्त्र्यभ्रमेण । अध्यारोपितानि स्वामीयत्वेनाभिमतानीति भाष्यपदार्थः । प्रमाणेति ।। कर्मणां जडत्वेन भगवत्तादात्म्यस्य ‘नेति नेति’ इत्यादिप्रमाणविरुद्धत्वादित्यर्थः । तदभिप्रायं संन्यासशब्दाभिप्रायम् । भाष्यगतम् ‘इति’पदमनूद्यानन्तरम् अध्याहार्यमाह– इति ज्ञात्वेति शेष इति ।। तथा च ‘संन्यस्य’, ‘विसृज्य’ इत्येतद् भगवानेव मयि स्थित्वा सर्वाणि कर्माणि करोतीति ज्ञात्वेति तात्पर्यतो व्याख्यातं भवतीति भावः । ‘युध्यस्व’ इति मूलेनान्वयः । ‘इति’ इत्यनूद्य शेषमाह– इति समर्पणं चेति ।।
।। प्रतिपद्य प्राप्य । तत्प्राप्तये परमेश्वरप्राप्तये । व्याचष्टे अध्यात्मचेतःपदम् । अनेन ‘आत्मानं माम्’ इति भाष्येण । अव्ययीभावगर्भ इति ।। ‘आत्मनीत्यध्यात्मम्’ इति विभक्त्यर्थेऽव्ययीभावः । ‘अनश्च’ इति समासान्तष्टच् । ‘नस्तद्धिते’ इति टिलोपः । ‘नाव्ययी-भावादतोऽम् त्वपञ्चम्याः’ इत्यम्भावः । ततोऽध्यात्मं च तत् चेतश्चेति कर्मधारय इत्यर्थः । न चाधिकरणशक्तिप्रधानस्याध्यात्मशब्दस्य कथं चेतश्शब्देन सामान्याधिकरण्यम्? इति वाच्यम् । ‘शोभनं प्रातः प्रातस्तनकर्मास्य सुप्रातः’ इत्यत्र बहुव्रीहौ प्रातश्शब्दस्य तत्कालकर्मलक्षकत्वेन सामानाधिकरण्यवद् अध्यात्मशब्दस्य अध्यात्मविषयकत्वलक्षकत्वेन सामानाधिकरण्य-सम्भवात् । लक्ष्यार्थप्रदर्शनायैव भाष्ये ‘आत्मानमधिकृत्य’ इति विग्रहो दर्शितः । ल्यपो निर्वाहाय ‘वर्तमानम्’इत्यध्याहारे लक्ष्यार्थलाभ इति युक्त एव कर्मधारय इति ।
।। अस्य ‘अध्यात्मचेतसा’ इत्यस्य । एवमन्वयेन लब्धमर्थमाह– परमात्मेति ।। परमात्मरूप-महाविषयलाभेनातिफल्गुविषयाभिलाषरहित इति ‘अध्यात्मचेतसा निराशीः’ इत्यस्यार्थो बोद्धव्य इत्यर्थः । ‘ममतावाची ममशब्दो विभक्तिप्रतिरूपकमव्ययम्’ इति ‘पितुर्य-त्पुत्रो मम कस्य’ इति ऋग्भाष्यटीकायामुक्तम् । तथा चामरशेषे ‘ममत्ववाक्’ इत्यत्र ‘ममेत्यव्ययं ममत्वं वक्ति’ इति हरिदीक्षितः । ततस्त्वप्रत्यये निर्गतं ममत्वं ममैवैतानि कर्माणीत्यभिमानो यस्मात् स निर्मम इति ‘निरादयः क्रान्ताद्यर्थे पञ्चम्या’ इति समास इति तदर्थमाह– निर्ममत्वमिति ।। द्वयोः संन्यासनिर्ममत्वयोः । उभयत्रेति ।। ‘भगवान् कर्माणि करोतीति ज्ञानम्’ संन्यासः । निर्ममत्वं ‘नाहं करोमीति ज्ञानम्’ इत्युभयत्र शेषः । तथा चार्थभेदान्न गतार्थताशङ्केति भावः ।। ३० ।।
गीताक्षरार्थस्तु– यतो विद्वत्कर्मैवंविधं, त्वं च विद्वानसि, अतः सर्वाणि वर्णाश्रमोचितानि कर्माणि नित्यनैमित्तिकानि मयि वासुदेवे संन्यस्य भ्रान्तितो जीवेऽध्यारोपितानि भगवानेव तु सर्वाणि कर्माणि करोतीति भगवत्पूजात्मकानि चेति ज्ञात्वा विसृज्य समर्प्येति यावत् । अध्यात्मचेतसा परमात्मविषयकेण मनसा निराशीः परमात्मलाभेनेतराशारहितः निर्ममः नाहं कर्माणि करोमि मम कर्माणि न सन्तीति ज्ञानवांश्च भूत्वा इति विधेये कर्मणि गुणविधानम् । विगतज्वरः त्यक्तशोको युध्यस्व इति ।। ३० ।।
भावदीपिका
।। एवंविधम् अविद्वत्कर्मविलणम् । विद्वत्कर्मण एवंविधत्वे मम किम्? इत्यत आह– त्वं चेति ।। उक्तमिति ।। ‘न हि प्रतिबिम्बस्य क्रिया’ इत्यने-नेत्यर्थः । कथञ्चिच्छाब्दत्वे त्वाह– प्रमाणेति ।। जडेश्वरभेदप्रतिपादकप्रमाणेत्यर्थः । तदभि-प्रायम् ‘सन्न्यस्य’ इति शब्दाभिप्रायम् । इति ज्ञात्वेत्यस्य ‘युध्यस्व’ सति गीतापदेनान्वयः । अव्ययीभावगर्भ इति ।। आत्मानमधिकृत्य विद्यमानं यत् तद् अध्यात्मम् इत्यव्ययीभावः । पश्चादध्यात्मं च तत् चेतश्चाध्यात्मचेतः, तेनेति कर्मधारयो द्रष्टव्यः । ननु भगवानेव सर्वाणि कर्माणि करोति, तत्पूजेति चेत्यनुसन्धानस्य सन्न्यासशब्देनैव लाभात् ‘अध्यात्मचेतसा’ इत्यस्य ‘सन्न्यस्य’ इत्यनेनान्वयो न युक्त इत्याशयेनाऽह– अस्येति ।। अन्वयलब्धमर्थं दर्शयति – परमात्मलाभेनेति ।। ‘अध्यात्मचेतसा’ इत्यस्य तात्पर्यकथनमेतदिति ज्ञातव्यम् ।। ३० ।।
भावप्रकाशः
।। विसर्ग इति ।। ‘त्यागे विसर्जनीयेे च विसर्गः स्यात् मलेऽपि च’ इति कोशात् त्याग इत्यर्थः । इत्युक्तमिति ।। ‘न हि प्रतिबिम्बस्य क्रिया’ इत्यनेनेति शेषः । अव्ययीभावगर्भः कर्मधारय इति ।। आत्मन्यधिकृत्याध्यात्मम्, विभक्त्यर्थेऽव्ययीभावः । ‘अनश्च’ इति समासान्तष्टच् । ततोऽध्यात्मं च तत् चेतश्च इति ‘अध्यात्मचेत’ इति कर्मधारय इत्यर्थः । नन्वधिकरणशक्तिप्रधानस्याध्यात्मशब्दस्य चेतःशब्दसामानाधिकरण्याभावात् कथं कर्मधारयः? इति वाच्यम् । प्रातःशब्दस्याधिकरणशक्तिप्रधानत्वेऽपि ‘शोभनं प्रातरस्य सुप्रातः’ इत्यत्र बहुव्रीहौ प्रातस्तनकर्मलक्षकत्वेन सामानाधिकरण्यवद् अध्यात्मशब्दस्यात्मविषयकत्व-लक्षकत्वेन सामानाधिकरण्योपपत्तेः । लक्ष्यार्थप्रदर्शनायैव च भाष्ये ‘आत्मानमधिकृत्य’ इति विग्रहः प्रदर्शितः । समानकर्तृकत्वलाभार्थं वर्तमानमित्यध्याहारे लक्ष्यार्थलाभ इति । अस्येति ।। अध्यात्मचेतस्कस्येत्यर्थः । अन्वयमेवाह– परमात्मेति ।। ३० ।।