द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।। १६ ।।

 द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

 क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।। १६ ।।

भाष्यम्

क्षरभूतानि ब्रह्मादीनि । कूटस्थः प्रकृतिः । तथा च शार्कराक्ष्यश्रुतिः ‘प्रजापतिप्रमुखाः सर्वजीवाः क्षरोऽक्षरः पुरुषो वै प्रधानम् ।

 तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम्’ इति ।।१६।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चदशोऽध्यायः ।।

भावप्रदीपिका

क्षरः सर्वाणि इत्यादि व्याचष्टे– क्षरेति । द्वौ इत्यादेः सङ्ग्रहेण श्रुत्यर्थमाह– तथा चेति । जननमरणसहितं च तद्रहितं च जालाजालम्

।। १६-२० ।।

।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीभगवद्गीताभाष्यभावप्रदीपिकायां पञ्चदशोऽध्यायः ।।

प्रमेयदीपिका

‘क्षराक्षरशब्दौ जडजीवार्थौ’ इत्यपव्याख्याननिरासार्थ-माह– क्षरेति ।। भूतग्रहणं युक्तिसूचनार्थम् । नहि जडमात्रे भूतशब्दो रूढः । किन्तु जीवेष्वपि । पुरुषशब्दस्य चैतदुपलक्षणम् । प्रकृतिः चेतना । ‘अक्षरः’ इति वक्तव्ये ‘कूटस्थः’ इति वचनमपि युक्तिसूचनार्थमेव । न हि जीवानां कूटस्थत्वमस्ति । सुखादिमत्त्वेन विकारित्वात् । श्रुतिसम्मत्या चायमेवार्थ इत्याह– तथा चेति ।। क्षरः इत्यनुवादेन ‘प्रजापतिः’ इत्यादि व्याख्यानम् । अन्यं परमात्मानम् । क्षरान्तर्भूतोऽपि मातरिश्वा विवक्षाविशेषेणाक्षरोऽपि भवतीत्युच्यते– जालेति ।। जालं संसारबन्धः । सोऽस्यास्तीति जालः । ‘अर्श आदिभ्य अच् । तद्रहितश्चाजालः । अभिमानाभावात्

।। १६-२० ।।

।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां पञ्चदशोऽध्यायः ।। १५ ।।

भावबोधः

।। युक्तीति ।। क्षरशब्दार्थतया जडग्रहणे बाधिका जीवग्रहणे साधिका या इत्यर्थः । तत्कथमित्यत आह – न हीति ।। आकाशादिभूतपञ्चक एव जडेष्वित्यर्थः । ततश्च सर्वाणीत्येतदनुपपन्नमिति भावः । जीवेष्विति ।। .....इति भावः । पुरुषशब्दस्येति ।। जीवजडग्रहणयोः साधकबाधकरूपस्येत्यर्थः।। १६ ।।

।। इति श्रीरघूत्तमतीर्थप्रणीता गीताभाष्ये भावबोधाभिधा टिप्पणी पञ्चदशोऽध्यायः ।।

भावदीपः

युक्तिसूचनार्थमित्युक्तं व्यनक्ति– नहीति ।। ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादौ जीवेष्वेव प्रयोगादिति भावः । न केवलं भूतपदप्रयोगान्न जडं क्षरपदार्थः । किन्तु ‘द्वाविमौ पुरुषौ’ इति निर्दिष्टपुरुषपदायोगाच्चेति भावेनाऽह– पुरुषशब्दस्य चैतदुपलक्षणमिति ।। विवक्षाविशेषेणेति ।। सत्यपि संसारे तत्कृतविकाराभावरूपकूटस्थत्व-विवक्षयेत्यर्थः । ‘जालश्चासावजालश्च’ इति विग्रहमुपेत्याह– जालमिति ।। एतेन ‘मातरिश्वा-नमेकमक्षरमुदाहरन्ति’ इति योजना सूचिता ।। १४ ।।

।। श्रीमद्गीताभाष्यटीकाभावदीपे श्रीराघवेन्द्रयतिविरचिते पञ्चदशोऽध्यायः।। १५ ।।

भावरत्नकोशः

।। इत्यपव्याख्यानेति ।। तथा च शङ्करः ‘क्षरतीति क्षरः विनाशी पुरुषः, समस्तं विकारि जडजातम् । न कदाचित् क्षरतीत्यक्षरः पुरुषः संसारी जन्तुः’ इति । ‘युक्तिसूचनार्थम्’ इत्यत्र क्षरशब्दस्य जडार्थत्वे बाधिका, जीवार्थत्वे साधिका च या युक्तिः तत्सूचनार्थम् इत्युक्तयुक्तिमेवाह– न हि जडमात्र इति ।। ‘मात्रे’ इति वदन् पञ्चभूतेषु भूतशब्दवृत्तिमङ्गीकरोति । रूढ इति ।। तथा च जडग्रहणे रूढिबाधः, जीवग्रहणे रूढिस्वीकार एव युक्तिरिति भावः । किन्तु जीवेष्विति ।। ‘यतो वा इमानि भूतानि जायन्ते’, ‘एतस्यैवा-नन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति’, ‘तं भूतान्यभ्यक्रोशन् इत्यादाविवेति भावः । न केवलं भूतपदरूढिबाधात् न जडं क्षरपदार्थः, किन्तु ‘द्वाविमौ पुरुषौ’ इत्युपात्तपुरुषपदप्रयोगाच्च इति युक्त्याऽपीति भावेन तां युक्तिमाह– पुरुषशब्दस्य चेति ।। एतद् भूतग्रहणम् । जडप्रकृतेर्विकारितया कूटस्थत्वायोगादाह– प्रकृतिश्चेतनेति ।।

क्षरो भूतानि’ इतिवत् ‘अक्षरः प्रकृतिः’ इति भाषणीयेऽपि; एवमुक्तेः प्रयोजनमाह– अक्षर इतीति ।। तामेव युक्तिं दर्शयति– न हीति ।। विकारित्वात् उच्चनीचतालक्षण-विकारवत्त्वात् । अनेन भाष्ये कूटस्थशब्दो निर्विकारार्थकः, पुरुषशब्दापेक्षया च पुंलिङ्गम् इति भावितं भवति । क्षरशब्दस्यैवात्र गीतागतस्य व्याख्यातव्यत्वाद् भाष्यं व्यत्यस्य योज्यमित्याह– क्षर इतीति ।। ‘प्रधानम्’ इति श्रौतपदस्य चेतनप्रकृतिरर्थः । ‘परमात्मेत्युदाहृतः’ इति गीतानुसारेणान्यपदार्थमाह– अन्यं परमात्मानमिति ।। क्षरान्तर्भूतोऽपि क्षरपदार्थोऽपि विवक्षाविशेषेण सत्यपि संसारे तत्राभिमानाभावेन विकारित्वाभावलक्षणकूटस्थत्वविवक्षाविशेषेण । अच्मत्वर्थीय इति भावः । अभिमानाभावादिति ।।

ब्रह्मा निरभिमानित्वात् शरीर्यप्यशरीरवान् । तदप्यनभिमानतः’ इत्यादिशास्त्राद्

वायुर्हि ब्रह्मतामेति तस्मात् ब्रह्मैव स स्मृतः’

इति वचनाद् ब्रह्मशब्दो वाय्वर्थक इति तस्य संसाराभिमानाभावाद् अजालशब्दित-संसाराभाववचनं युक्तमित्यर्थः । अनेन ‘जालश्चासौ अजालश्च’ इति बहुलग्रहणाद् विशेषणयोरपि समास इति विभावितं भवति । ‘जननमरणरहितं जालाजालम्’ इति भावप्रदीपिका

।।

गीताक्षरार्थस्तु एवं सर्वान्तर्यामित्वं प्रपञ्च्य यद् ‘ऊर्ध्वमूलम्’ इत्यत्र ऊर्ध्वशब्देन सर्वोत्तमत्वमुक्तम्, तद् अध्यायशेषेण प्रपञ्चयते– द्वाविमौ पुरुषावित्यादिना ।। ‘इमौ’ इति प्रमाणसिद्ध्या सूच्यते । पुरुषौ चेतनौ, एवशब्दस्य ‘द्वावेव’ इति सम्बन्धः । तद्घटनाय परमपुरुषं व्यावर्तयितुम्– ‘लोके’ इत्युक्तम् । चशब्दौ परस्परसमुच्चये । कौ तौ पुरुषौ इत्यत उच्यते– क्षर इति ।। सर्वाणि भूतानि ब्रह्मशिवसुराद्याः जीवाः शरीरक्षरणात् क्षराः पुरुषाः, कूटस्थः पुरुषोऽक्षरदेहत्वात् महालक्ष्मीः । तदनेन उत्तमपुरुषनिरूपणस्यापेक्षितं पुरुषनिरूपणं कृतम् ।। १६ ।।

भावदीपिका

।। युक्तीति ।। क्षरशब्दार्थतया सर्वजडग्रहणे बाधिकायाः, जीवमात्रग्रहणे साधिकायाः युक्तेः सूचनार्थमित्यर्थः । तदेव दर्शयति– न हीति ।। आकाशादिभूतपञ्चक एव रूढः, न सर्वजडेषु । अतः क्षरशब्देन जडमात्रग्रहणमयुक्तमित्यर्थः । किन्त्विति ।। ‘सर्वेषु’ इति शेेषः । यद्वा जडमात्रे केवलजड एव रूढो न, किन्तु जीवेष्वपि । अतो जीवा एव ग्राह्या इत्याशयः । तथात्वे विनिगमनाभावः इत्यतो निरवकाशज्ञापकमाह– पुरुषशब्दस्य चेति ।। जीवग्रहणे साधकस्य, जडग्रहणे बाधकस्येत्यर्थः । अत्र ‘द्वाविमौ पुरुषौ’ इति प्रक्रान्तपुरुषप्रभेदस्यैवोच्यमानत्वेन क्षरशब्देन जडग्रहणे तत्र चेतनत्वापरपर्याय-पुरुषत्वायोगात्, जीवेषु तत्सम्भवात् क्षरशब्देन जीवा एव ग्राह्याः न जडमिति भावः ।।

।। युक्तीति ।। प्रकृतिग्रहणे साधिकायाः जीवग्रहणे बाधिकायाश्च युक्तेः सूचनार्थमित्यर्थः । तत्कथम्? इत्यत आह– न हीति ।। कूटस्थत्वं निर्विकारत्वम् । विकारित्वादिति ।। उच्चनीचत्वादिविकारित्वादित्यर्थः । प्रकृतेस्तु नित्याभिव्यक्तसुखवत्त्वेन अस्त्येव कूटस्थत्वमिति भावः । अत्र ‘सर्वजीवाः’ इत्यनुवादेन ‘क्षरः’ इति व्याख्यानमिति प्रतीयते । तदसङ्गतम् । क्षरशब्दस्यैव व्याख्येयत्वाद् एकवचनायोगश्चेत्यत आह– क्षर इतीति ।। एकवचनं तु ‘वेदाः प्रमाणम्’ इतिवद्युज्यत इति भावः । अर्शआदिभ्य इति ।। तथा च जालशब्दस्यापि अर्शआदिगणस्थत्वेन तस्मात् मत्वर्थीयाच्प्रत्यये चकारलोपे, भस्य लकारस्थस्याकारस्य लोपे, प्रत्ययाकारसम्बन्धे च सति ‘जाल’ इति भवतीति द्रष्टव्यम् । नन्वधुनाऽपि मातरिश्वनो लिङ्ग-देहवत्त्वेन संसारबन्धवत्त्वात् कथं तद्राहित्यरूपाजालत्वम् इत्यत आह– अभिमानाभावा-दिति ।। ‘ब्रह्मा निरभिमानित्वात् शरीर्यप्यशरीरवान्’ इति वचनात् । मातरिश्वनोऽपि भाविब्रह्मत्वादिति भावः ।। १६ ।।

इति यदुपतिवरगीताभाष्यटीकासुयुक्ता–

शयमतिललिताभिर्गीर्भिरावेदयित्री ।

सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा

दशम अगमदध्यायोऽन्तमस्याः सपंचः ।।

।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्भगवद्गीताभाष्यटीकाविवृत्तौ भावप्रदीपिकाख्यायां पञ्चदशोऽध्यायः ।।

भावप्रकाशः

 ।। युक्तीति ।। अक्षरशब्दस्य जडार्थत्वे बाधिका जीवार्थत्वे साधिका या युक्तिः तत्सूचनार्थमित्यर्थः । तां युक्तिमाह– न हीति ।। तथा च क्षरशब्देन जडग्रहणे रूढिबाधः । जीवग्रहणे च तदानुगुण्यमिति भावः । जीवेष्वपीति ।। ‘सदेहजीवा भूतानि’ इत्युक्तेरिति भावः । जडप्रकृतेः कूटस्थत्वाभावादाह– प्रकृतिश्चेतनेति ।। विकारित्वादिति ।। नीचोच्चतादिरूपविकारोपेतत्वादित्यर्थः ।। १६ ।।

।। इति श्रीमत्तिर्मलाचार्यसूरिसूनुकृष्णविरचिते प्रमेयदीपिकाभावप्रकाशे पञ्चदशोऽध्यायः ।।