ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।। ४१ ।।

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।। ४१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- इदानीं भगवदाराधनात्मकस्य कर्मणः ‘स्वे स्वे कर्मणि’ इति कर्म, ‘यतः प्रवृत्तिः’ इत्यत्र च ज्ञानलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारि-जीवानां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नवृत्या सह कर्तव्यकर्मस्वरूपमुच्यते– ब्राह्मणेत्या-दिना ।। हे परन्तप शक्तिसम्पन्न ब्राह्मणानां क्षत्रियाणां विशां वैश्यानाम्, द्विजत्वाभाव-द्योतनार्थं ‘शूद्राणां च’ इति समासात् पृथक्करणम् । कर्माणि प्रविभक्तानि प्रकर्षेण विभागतो विहितानि । केन निमित्तेन स्वभावप्रभवैः गुणैः स्वभावः सत्त्वप्रधानत्वादिलक्षणः, ब्राह्मणत्वादि-लक्षणः, योग्यतालक्षणो वा प्रभवति प्रादुर्भवति व्यक्तीभवति येभ्यस्ते स्वभावप्रभवाः, तैः गुणैः सत्त्वादिभिः तानि च शुणु इति योज्यम् ।। ४१ ।।