इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ।। ५० ।।

सञ्जय उवाच–

इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।

आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा

।। ५० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवमुक्तो भगवान् अपेक्षितरूपमदर्शयदिति सञ्जय आहेत्युच्यते– सञ्जय उवाच– इत्यजुर्नमिति ।। अर्जुनं प्रति इति उक्तप्रकारेण उक्त्वा कृष्ण एव ‘स्वकं रूपं न विश्वरूपम्’ इति भ्रान्तलोकप्रतीत्यनुवादेनोच्यते– स्वकं रूपमिति ।। प्रमाणप्रतीत्या तु विश्वरूपमपि स्वकमेवेति मन्तव्यम् । सौम्यवपुः अक्रूरविग्रहः ।। ५० ।।

Load More