समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।। २४ ।।

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।। २४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु  तस्यैवाचारान्तरमुच्यते– समदुःखसुख इति ।। समे दुःखसुखे यस्य, प्रायो हेयतया वैषयिकसुखमपि दःखसमत्वेन यस्यानुभवारूढं स तथोच्यते । स्वस्थः प्रायेण निर्विकारः प्रायेण समलोष्ठाश्मकाञ्चनः प्रायेण प्रियाप्रियवस्तुनोः उपनतयोः तुल्यबुद्धिः । अत एव भगवदुत्तमत्वे स्थिरमतिः । तुल्ये निन्दात्मसंस्तुती यस्य स तथा, प्रायेणात्मनो निन्दायां संस्तुतौ वोपनतायाम् अनुन्नाहः उन्नाहहीनः ।। २४ ।।