परस्तस्मात्तु भावोऽन्योऽव्यक्तो व्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।। २० ।।

परस्तस्मात्तु भावोऽन्योऽव्यक्तो व्यक्तात्सनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।। २० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- भूतग्राम इव किं भगवानप्युत्पत्त्यादिमान् ? नेत्युच्यते पर इति द्वाभ्याम् । अव्यक्तो भगवांस्तु तस्मात् उत्पत्तिलयोपेताद् व्यक्ताद् भूतग्रामाद् अन्यो विलक्षणो भावयतीति भावः स्वतन्त्रः पदार्थः ।

सृष्टिः स्थितिश्च संहारो भावनं समुदाहृतम् ।

 तद्यः करोति पुरुषः स भाव इति कीर्तितः ।।’

इति वचनादिति विवृतिकृत्सूक्तिः । परः उत्तमो यः सनातनः चिरन्तनः भूतेषु सर्वेषु नश्यत्सु अपि न विनश्यति ।। २० ।।