श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।। ३५ ।।
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।। ३५ ।।
भाष्यम्
तथाप्युग्रं युद्धकर्मेत्यत आह– श्रेयानिति ।।
भावप्रदीपिका
ननु ममाधिकारिकत्वात् युद्धस्य ज्ञानसाधनत्वेऽपि, न तत्र मां नियोजय । तत्र रागाङ्गद्वेषसम्भवात्, अतोऽज्ञानसम्भवात् । अतो ज्ञानसाधन-समावेशत्व एव नियोजयेत्याशङ्क्य, श्लोकमवतारयति– तथाऽपीति ।।
भावप्रकाशिका
ननु मा भूद्बहूनां भगवन्मताननुष्ठानान्यथानुपपत्त्या ‘ये मे’ इत्यादिवाक्ययोः तन्मतप्रशंसामात्रपरत्वम् । किन्तु तन्मतानुष्ठानाननुष्ठानादिना भाविफल-सङ्कीर्तनात्मकत्वमेव । तथाऽप्युग्रत्वाद् युद्धकर्मणः स्यातामेव रागद्वेषौ तत्कर्तुः । द्वेष-शब्दस्तु लोभादीनामप्युपलक्षकः । अतो ‘युद्ध्यस्व’ इत्युक्त्वा ‘तयोर्न वशमागच्छेत्’ इति कथमुच्यते ? इति भावेनाशङ्क्य, तत्परिहारायोत्तरं श्लोकमवतारयति– तथाऽपीति ।।३५।।
प्रमेयदीपिका
‘श्रेयान्’ इत्यस्य सङ्गतिमाह– तथापीति ।। ‘ज्यायसी चेत्’ (३.१) इत्यत्र द्वावाक्षेपावर्जुनेन कृतौ । तत्राद्यो ‘लोकेऽस्मिन्’(३.३) इत्यादिना परिहृतः । इदानीं ‘युध्यस्व विगतज्वरः’ (३.३०), ‘तयोर्न वशमागच्छेत्’ (३.३४) इत्युक्त्या स्मारितं द्वितीयमाक्षेपमाशङ्क्य परिहरतीत्यर्थः । यद्यपि कर्म कर्तव्यम् । तथाऽपि उग्रम् अवर्जनीयरागद्वेषम् । ‘न कुर्याम्’ इति शेषः ।। ३५ ।।
भावबोधः
।। स्मारितमिति । यदि रागद्वेषयोर्वशं नागच्छेत्तर्हि युद्धे रागद्वेष-योरवर्जनीयत्वात्तद्युक्तत्वेन घोरे युद्धाख्ये कर्मणि किमिति मा नियोजयसीति स्मारितमित्यर्थः
।। ३५ ।।
भावदीपः
।। तथापीति ।। तात्कालिककिञ्चित्करत्वाभावेऽपीत्यर्थः ।। द्वावा-क्षेपाविति ।। यत्याश्रमधर्मेषु शमदमादिषु नियोजनं विना काम्यकर्मसु किमर्थं नियोजयसीत्येकः । तत्रापि नरकहेतुकामक्रोधादिभिरुपेते घोरे युद्धाख्ये कर्मणि नियोजनमयुक्तमिति द्वितीय इति ‘द्वौ’इत्युक्तम् । ‘उग्रम्’ इत्यनुवादः, ‘अवर्जनीय’ इत्यादि व्याख्या ।। ३५ ।।
भावरत्नकोशः
।। द्वाविति । ‘कर्मणि किमिति नियोजयसि’ इत्येकः । ‘घोरे’ इति द्वितीय इति द्वावित्यर्थः । स्मारितमिति । ‘युध्यस्व’ इति युद्धाख्यं कर्म विदधासि । ‘तयोर्न वशमागच्छेत्’ (३.३४) इति निषेधसि च । विप्रतिषिद्धमेतत् । युद्धे कामक्रोधयोर-वर्जनीयत्वात् । ततोऽवर्जनीयकामक्रोधत्वेन घोरे युद्धाख्ये कर्मणि मन्नियोजनमयुक्तमिति स्मारितमित्यर्थः । ‘तथाऽपि’ इति भाष्यं संयोजयति– यद्यपीति ।। ‘उग्रम्’ इत्यनूद्यार्थमाह– अवर्जनीयेति ।। ‘युद्धकर्म’ इत्यनन्तरं शेषमाह– न कुर्यामिति ।। ३५ ।।
गीताक्षरार्थस्तु– यद्यपि कर्म कर्तव्यम्, तथाऽप्यवर्जनीयरागद्वेषतया घोरं युद्धाख्यं कर्म न कुर्याम् इत्यर्जुनाक्षेपः परिह्रियते– श्रेयानिति । स्ववर्णाश्रमोचितो धर्मः स्वधर्मः विगुणः अल्पाङ्गहीनोऽपि स्वनुष्ठितात् सर्वाङ्गसाकल्येन कृतात् परधर्मात् ‘चतुर्थाश्रमं स्वीकृत्य तद्धर्म-निष्ठो भव’ इत्येव नियोक्तव्योऽहम् इत्यभिमताद् अन्यवर्णाश्रमोचितधर्मात् श्रेयान् प्रशस्ततरः । कुतः ? स्वधर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणमपि श्रेयस्करम् । परधर्मः वर्णान्तराश्रमान्तर-धर्मस्तु भयावहः निषिद्धत्वादनर्थप्रापको यत इति ।। ३५ ।।
भावदीपिका
।। विगतज्वरः विगतरागद्वेषः ।। स्मारितमिति ।। यदि रागद्वेषयोर्वशं नाऽगच्छेत् तर्हि युद्धे रागद्वेषयोरवर्जनीयत्वाद् अवर्जनीयरागद्वेषाद्युपेततया घोरे युद्धाख्ये कर्मणि किमिति मां नियोजयसि? इति स्मारितमित्यर्थः ।। ३५ ।।
भावप्रकाशः
।। स्मारितमिति ।। यदि रागद्वेषयोर्वशं नागच्छेत् तर्हि युद्धे रागद्वेषयोरवर्जनीयत्वात्तद्युक्तत्वेन घोरे युद्धाख्ये कर्मणि किमिति मां नियोजयसीति स्मारित-मित्यर्थः ।। ३५ ।।