नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ।। १६ ।।
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ।। १६ ।।
भाष्यम्
अनशनादिनिषेधोऽशक्तस्य । उक्तं हि–
‘निद्राशनभयश्वासचेष्टातन्द्र्य•दिवर्जनम् ।
कृत्वाऽऽनिमीलिताक्षस्तु शक्तो ध्यायन् प्रसीदति ।।’
इति नारदीये ।। १६ ।।
भावप्रकाशिका
‘नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । जाग्रतो नैव च ’ इत्येतदशक्तविषयमित्येतत् सप्रमाणकमाह– अनशनेति ।। १६ ।।
प्रमेयदीपिका
न चैकान्तमनश्नतः, जाग्रतो नैव च इति युञ्जानस्यानशन-जागरणनिषेधः क्रियते । ‘स सर्वविषयः’ इति प्रतीतिनिरासायार्थमाह– अनशनादीति ।। कुतः? इत्यतः शक्तस्य तद्विधानादित्याह– उक्तं हीति ।। आनिमीलिताक्षः ईष-न्निमीलिताक्षः । शक्तस्तु इति सम्बन्धः ।। १६ ।।
भावरत्नकोशः
।। युञ्जानस्य योगं कुर्वाणस्य । तद्विधानात् अनशनादि-विधानात् । ‘निमीलिताक्षः’ इति पदच्छेदे ‘सम्प्रेक्ष्य नासिकाग्रं स्वम्’ इति गीताविरोधः स्यात्, इत्यतो विवक्षितं पदं दर्शयन् तदर्थमाह– आनिमीलिताक्ष इति ।। ‘ईषदर्थे क्रियायोगे आङं विद्याद्’ इति वचनादाह– ईषदिति ।।
आहारादिनियमाभावे योगसम्पत्तिर्न, सति तु तस्मिन् साऽस्तीति योगिन इत्थम्भावान्तरं नात्यश्नत इत्यादिश्लोकद्वयेनोच्यते । अत्यश्नतः अधिकं भुञ्जानस्य इन्द्रियोत्सेकापत्तेरिति भावः । एकान्तम् अत्यन्तं श्रमादेरवर्जनीयत्वादिति भावः । ‘अतिस्वप्नशीलस्य’ इत्यत्र स्वप्नशब्देन निद्रा ग्राह्या । ‘जाग्रतः’ इत्यत्रापि ‘एकान्तम्’ इत्यन्वेति । अत्राशनजागरणादिनिषेधो अशक्तविषय इति भाष्ये व्यक्तम् ।। १६ ।।
भावप्रकाशः
‘निमीलिताक्ष’ इति योजनायां ‘सम्प्रेक्ष्य नासिकाग्र’मिति गीताविरोध इत्यत आह– आनिमीलिताक्ष इति ।। १६ ।।