अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ।। १८ ।।

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ।। १८ ।।

गीताक्षरार्थस्तु– ततः किम् । इत्यत उच्यते अव्यक्तादिति ।। ‘मामुपेत्य’ इत्युक्तस्यार्थस्य ‘यं प्राप्य न निवर्तन्ते’ इत्यव्यक्तविषयतया परामर्शात्, ‘अव्यक्तं परमं विष्णुम्’ इति पुराणे प्रयोगाच्चाव्यक्तो भगवान् । तस्माद् अहरागमे द्विपरार्धावसाने, सृष्टिकाल इति यावत् । ‘व्यज्यन्ते’ इति व्यक्तयः सृज्यपदार्थाः प्रभवन्ति उत्पद्यन्ते, रात्र्यागमे अव्यक्तसंज्ञके अव्यक्त इति संज्ञा यस्य सोऽव्यक्तसंज्ञकः, ‘आपोऽन्यतरस्याम्’ इति ह्रस्वः, शैषिकः कः । एतस्मिन् प्रलीयन्ते ।। १८ ।।