स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते।। ३१ ।।

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते।। ३१ ।।

भावरत्नकोशः

तथा चाष्टश्लोक्या अयमक्षरार्थः, यदुक्तं ‘सीदन्ति मम गात्राणि’, ‘वेपथुश्च शरीरे मे’ इत्यादि तत्रोच्यते– स्वधर्ममिति ।। अपि च हे भारत स्वधर्मं विष्णुद्विट्तदनुबन्धिनिग्रहरूप-मलौकिकश्रेयस्साधनम् अवेक्ष्य अवलम्ब्य विकम्पितुं प्रचलितुं नार्हसि । यच्च ‘न च श्रेयोऽ-नुपश्यामि’ इत्युक्तं तत्रोच्यते धर्म्याद्धीति । धर्मादनपेतात् न्याय्याद् युद्धाद् अन्यत् श्रेयः क्षत्रियस्य न विद्यते । हिशब्देन शास्त्रेषु कर्तव्यतया प्रसिद्धत्वमाह ।। ३१ ।।