अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ।। २८ ।।
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ।। २८ ।।
भाष्यम्
परकृतं दोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री । ‘परेण यः कृतो दोषः दीर्घकालकृतोऽपि वा । यस्तस्य सूचको दोषाद्दीर्घसूत्री स उच्यते’ इत्यभिधानात् ।। २८ ।।
भावप्रदीपिका
दीर्घसूत्री यथा तामसो भवति तथा तत्पदं व्याचष्टे– परेति ।। २८।।
प्रमेयदीपिका
दीर्घसूत्रित्वं कथं तामसत्वहेतुः? इत्यतः सप्रमाणकं व्याचष्टे– परेति ।। दीर्घकालकृतं चिरातीतकालकृतम् । अनुचितं वचनायोग्यम् । परोपद्रवहेतुत्वात् दोषात् मात्सर्यादेः ।।
भावदीपः
ननु बहुकालकृतस्यात्याज्यतार्थवचनयोग्यत्वेन कथमनुचितत्व-मित्यत आह– चिरातीतकृतमिति ।। दोषादिति प्रमाणस्यानुवादः, ‘मात्सर्यादेः’ इति व्याख्या
।। २८ ।।
भावरत्नकोशः
।। दीर्घसूत्रत्वम् ‘विषादी दीर्घसूत्री’ इति गीतोक्तम् । ननु यदा कदाचित्काले कृतोऽपि दोषो दीर्घकालकृत एव, सर्वदा कालस्य सत्त्वेन तद्दीर्घत्वस्य सदातनत्वात् । तत्किमुच्यते ‘दीर्घकालम्’ इत्यतोऽत्र विवक्षितं कालस्य दीर्घत्वं व्याचष्टे– चिरेति ।। चिरातीतकालकृतमित्यर्थः । सूचनायोग्यत्वमुपपादयति– परेति ।। ‘दोषात्’ इत्यभिधानस्य पदानुवादः ‘मात्सर्यात्’ इति व्याख्या । ‘न मद्वशोऽसौ’ इति चित्ततोदो मात्सर्यम् । आदिशब्देन असूयादिग्रहणम् ।।
गीताक्षरार्थस्तु अयुक्त इति ।। अयुक्तो भगवदर्पणादियोगरहितः, ‘भगवद्भक्तिसामर्थ्यात् प्रकृष्टो न कृतो हि यः । स प्राकृतः...’ उच्यते । स्तब्धो नाम असम्भावनया क्वाप्यनम्रः, शठो गूढद्वेषी, नैकृतिको नीचकर्मा, अलसः प्राप्तकाले कर्मण्युदासीनः , विषादी अवसादन-शीलः, सर्वव्यापारोपरमहेतुमनोदौर्बल्यशील इति स्वामिनः । उपद्रवहेतुत्वात् सूचनायोग्यं चिरातीतकृतं परकृतं दोषं यः सूचयति स दीर्घसूत्री एतादृशश्च कर्ता तामस उच्यते प्राज्ञैः
।। २८ ।।
भावदीपिका
कालस्य दीर्घत्वं नाम कीदृशम् इत्यत आह– चिरातीतेति
।। २८ ।।