कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया ।। १७ ।।

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।

केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया ।। १७ ।।

गीताक्षरार्थस्तु निरन्तरमच्चिन्तनया विभूतिरूपाणि जानीहि । किमिति मद्वचनं प्रार्थयसे ? इत्यत उच्यते– कथमिति ।। त्वां सदा परिचिन्तयन् अपि अहं त्वद्वचनाभावे हे योगिन् अचिन्त्यशक्ते  अज्ञानिबोधनसामर्थ्यातिशय  इदं सम्बोधनम् । तव विभूतीः कथं विद्यां विजानीयाम्् । अतो हे भगवन् मया केषु केषु भावेषु पदार्थेषु विभूतिरूपेण स्थितस्त्वं चिन्त्योऽसि ।। १७ ।।