एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ।। ३९ ।।

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ।। ३९ ।।

भावरत्नकोशः

किं नश्यति नरकाद्यनर्थं प्राप्नोति, आहोस्विन्न नश्यतीति प्रश्नमूलम् एतत् संशयं त्वमेव विनाशयितुमर्हसीति स्पष्टम् उपपद्यते सम्भवति ।। ३९ ।।