सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ।। २ ।।
श्रीभगवानुवाच–
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ।। २ ।।
भाष्यम्
नायं सन्न्यासो यत्याश्रमः । ‘द्वन्द्वत्यागात् तु सन्न्यासान्मत्पूजैव गरीयसी’ इति वचनात् । ‘तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’(म.ना.१६.१२) इतिच ।।
भावप्रदीपिका
नन्वेवं प्रश्नाभिप्रायकथनादपि वरं ‘संन्यास’पदोक्तयत्याश्रम ‘योग’पदोक्तपारमहंस्ययोः किं वरमित्याभिप्रायकथनमित्यत आह– नायमिति ।। अत्र संन्यासादपि योगस्याधिक्यमुच्यते । तच्च ‘संन्यास’पदेन द्वन्द्वत्यागग्रहण एवोपपन्नं न यत्याश्रमग्रहणे, तस्य योगादुत्तमत्वात् । अतो नात्राश्रमसंन्यास इत्यभिप्रायेणाह– द्वन्द्व इति
।। २ ।।
भावप्रकाशिका
नन्वेतत्प्रश्नपरिहारविषयौ द्वन्द्वत्यागकर्मयोगौ कस्मात् ? यत्याश्रमकर्मयोगौ किं न स्यातामित्याशङ्क्य, द्वन्द्वत्यागादेव संन्यासात् कर्मयोगस्याधिक-वचनात्, यत्याश्रमात् गृहस्थादिकर्मणामाधानाग्निहोत्रादीनामवरत्ववचनाच्च, इति भावेनाह– नायमिति ।। यान्येतानि आधानाग्निहोत्रादीनि तपांसि तान्यवराणि वै न्यास एवात्यरेचयत् अधिकोऽभवदित्यर्थः । ‘एतत् खलु वाव तप इत्याहुः, यः स्वयं सन्ददाति’ इति तपस्त्वेन श्रूयमाणदक्षिणादानपूर्वत्वात् तपस्त्वमाधानादीनाम् ।।
प्रमेयदीपिका
‘सन्न्यासम् ’(५.१) इति प्रश्नवाक्ये ‘सन्न्यासः’ (५.२) इति परिहारवाक्ये च सन्न्यासयोगशब्दौ यतिगृहस्थाश्रमविषयावेव । तयोः सर्वकर्मत्याग-तदनुष्ठानरूपत्वात् । ‘ज्ञेयः’ इति वचनं तु न सन्न्यासशब्दव्याख्यानपरम् । किन्तु यो द्वेषादि-वर्जितो गृही सोऽपि सन्न्यासी ज्ञातव्य इति स्तुतिपरमेव’ इत्यत आह– नायमिति ।। अयं परिहारवाक्यस्थः । प्रश्नवाक्यस्थस्य तात्पर्यनिर्णये तथाऽभ्युपगतत्वात्। योगश्च न गृहस्थाश्रम इत्यपि द्रष्टव्यम् । कुतो नेति चेत् - अत्र ‘तयोस्तु’ इति सन्न्यासात् कर्मयोगस्य विशिष्टत्व-वचनात् । तस्य चास्मत्पक्ष एव सम्भवात् । अन्यत्रासम्भवादिति भावः । कुतो भवत्पक्षे सम्भव इत्यत आह– द्वन्द्वेति । मत्पूजा मदर्पणबुद्ध्या कर्मानुष्ठानम् ।। आश्रमार्थत्वे कुतोऽसम्भवः? इत्यत आह– तानीति ।। तानि आधानादीनि । अत्यरेचयत् अत्यरिच्यत । ‘इति च वचनात्’ इति वर्तते ।।
भावबोधः
।। आधानादीति ।। गृहस्थाश्रमविहिताग्न्याधानादीनीत्यर्थः ।।
भावदीपः
।। तात्पर्येति ।। ‘योगसन्न्यस्तकर्माणम् ’इत्यादौ ‘न्यासशब्दः’ इत्यादिना गीतातात्पर्यनिर्णये यतिपरत्वाभ्युपगमादित्यर्थः ।। अस्मत्पक्ष एवेति ।। कामादिवर्जनं सन्न्यासशब्दार्थः; भगवदर्पणबुद्ध्या कर्मानुष्ठानं कर्मयोग इति पक्ष एव । न तु गृहस्थयतिपरः सन्न्यासादिशब्दः इति पक्ष इत्यर्थः ।। इत्यनुवर्तत इति ।। एवञ्च गृहस्थाश्रमतो न्यासशब्दित-यतेरुत्कर्षस्य च वचनसिद्धत्वाद् गीतायां ‘तयोः’ इत्यर्धे सन्न्यासात् कर्मयोगपदोक्तगार्ह-स्थ्यस्योत्तमत्वोक्तिः तद्विरुद्धेति भावः ।।
भावरत्नकोशः
।। संन्यासमितीति ।। ‘संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि’ इति प्रश्नवाक्ये, ‘संन्यासः कर्मयोगश्च निश्रेयसकरावुभौ’ इति परिहारवाक्ये चेत्यर्थः । तयोः यतिगृहस्थाश्रमयोः । संन्यासशब्दस्य यत्याश्रमरूपसर्वकर्मत्यागपरत्वे भगवद्व्याख्यान-विरोधः ? इत्याशङ्क्याह– ज्ञेय इति वचनं त्विति ।। प्रश्नवाक्येऽपि तस्य सद्भावात् किं विशिष्याभिधीयते ‘अयं परिहारवाक्यस्थः’ इति ? इत्यत आह– प्रश्नवाक्यस्थस्येति ।। ‘संन्यासं कर्मणां कृष्ण’ इति प्रश्नवाक्यस्थसंन्यासशब्दस्य ‘योगसंन्यासयोर्भिन्नपुन्निष्ठत्वाभिप्रायेण पृच्छति’ इति तात्पर्यनिर्णयपर्यालोचनायां यत्याश्रमपरत्वेनाभ्युपगतत्वावेदनाद्, अत्र भाष्ये परिहारवाक्यस्थ एव संन्यासशब्दो न यत्याश्रमार्थ इत्युक्तमिति भावः । संन्यासयोगशब्दौ यतिगृहस्थाश्रम-विषयावेवेति शङ्कनाद् भाष्ये कथमेकस्यैव प्रतिक्षेपः ? इत्याशङ्क्य ‘नायम्’ इति भाष्यमुपलक्षण-मिति भावेनाह– योगश्चेति ।। अत्र परिहारवाक्ये । अस्मत्पक्ष एव ‘भगवदर्पणबुद्ध्या कर्मानुष्ठानं कर्मयोगः’ इति पक्ष एव । अन्यत्र गृहस्थयत्याश्रमविषयत्वे ।
प्रकृतासङ्गतिमाशङ्क्य भाष्यं व्याचष्टे – मत्पूजेति ।। ‘तानि’ इत्यनुवादः, ‘आधानादीनि’ इति व्याख्या । ‘सत्यं परं परं सत्यम्’ इत्यादिना नारायणानुवाके ‘सत्यतपोदमशमदान-धर्मप्रजननाग्न्याधानाग्निहोत्रयज्ञमानससंन्यासानां मध्ये सत्यादीनामादित्वेन पाठेऽपि अग्न्या-धानाग्निहोत्रयज्ञानामत्र ग्रहणं गृहस्थकर्मतोऽपि संन्यासस्य स्फुटमतिशयं द्योतयितुम् । गार्हस्थ्य-संन्यासयोः प्रस्तुतत्वात् सत्यादीनामुभयसाधारणत्वात्, ‘तस्मादग्नय आधातव्याः’ इत्यग्न्याधानादे-र्विशिष्य विधानाच्च ‘आधानादीनि’ इत्युक्तम् । श्रुतिशेषार्थतपस्त्वघटना च ‘यान्येतानि आधानाग्निहोत्रादीनि तान्यवराणि वै’ इति । ‘एतत्खलु वाव तप इत्याहुः यः स्वं सन्ददाति’ इति यजुःसंहितावाक्योदाहरणपूर्वं तपस्त्वेन श्रूयमाणदक्षिणादानपूर्वत्वात् तपस्त्वमाधानादीनामिति प्राचीनटीकायां कृता ।
णिचः स्वार्थिकत्वम्, लङश्च ‘छन्दसि लुङ्लङ्लिटः’ इति लडर्थत्वम् इत्यभिप्रेत्य व्याचष्टे– अत्यरेचयत् अतिरिच्यत इति ।। अधिको भवतीत्यर्थः । ‘अधिकोऽभवत्’ इति प्राचीनटीकारीत्या अत्रापि ‘अत्यरिच्यत’ इत्यपि भवति । ‘इति च’ इति भाष्यपदमनूद्य तदन्वयायाह– इतीति ।।
भावदीपिका
।। तयोः यतिगृहस्थाश्रमयोः । रूपत्वादिति ।। तथा च तत्प्रतिपादकत्वमेव संन्यासयोगशब्दयोर्युक्तम् इति भावः । ननु कथं संन्यासशब्दो यत्याश्रमपरः ? ‘ज्ञेयः स नित्यसंन्यासी’ इति संन्यासशब्दार्थस्य पृथगेवाभिधानादित्यत आह– ज्ञेय इतीति ।। परिहारवाक्यस्थः ‘संन्यासः कर्मयोगश्च’ इति परिहारवाक्यस्थः । ‘अयम्’ इति विशिष्योक्तौ निमित्तमाह – प्रश्नवाक्यस्थस्येति ।। संन्यासशब्दस्येत्यर्थः । तथा यत्याश्रमपरत्वेन । आधानादीनीति ।। गृहस्थाश्रमविहिताग्न्याधानादीनि कर्माणीत्यर्थः । ‘रिच वियोजनसम्पर्कयोः’ इति धातोरात्मनेपदित्वादाह – अत्यरिच्यतेति ।।
भावप्रकाशः
।। अभ्युपगतत्वादिति ।। योगसन्न्यासयोः भिन्नपुंन्निष्ठत्वाभिप्रायेण पृच्छतीति प्रश्नवाक्यस्यावतारितत्वादिति भावः । आधानादीनीति ।। गृहस्थाश्रमविहिताग्न्या-धानादीनीत्यर्थः । ननु अत्यरेचयदित्यत्र णिचो लङश्चानर्थक्यमित्याशङ्क्य स्वार्थे णिच् च्छन्दसि लुङ्-लङ्-लिट इत्युक्तेः लङ् वर्तमानार्थ इति भावेन व्याचष्टे– अतिरिच्यत इति ।। ब्रह्मैव न्यास इतीति । न्यास एवत्यरेचयदितिश्रुत्युक्त इति शेषः ।।