यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। १८ ।।

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।। १८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु स कः इत्यतोऽहमेवेति सप्रमाणकमुच्यते– यस्मादिति ।। ‘क्षरं चातीतः’ इति चशब्दान्वयः । क्षराच्चोत्तम इत्यर्थः । लोकशब्देन पौरुषेयागम उच्यते । प्रथितः प्रख्यातः ।। १८ ।।