अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ।। ५ ।।
अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ।। ५ ।।
भाष्यम्
मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तम्–
‘मुक्तानां च गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः’ इति मोक्षधर्मे ।। ५ ।।
भावप्रदीपिका
‘मद्भाव’पदमन्यथाप्रतीतिनिरासाय व्याचष्टे– मद्भावमिति । कथं सर्वेश्वरसादृश्यं जीवस्य ? इत्यत आह– निर्दुःखेति । मयि सत्ताम् इति पाठे तु सर्वेषामपि भगवदाश्रयत्वात् को विशेषः ? मुक्तानामित्याशङ्क्याह निर्दुःखेति । प्रतीतार्थ एव किं न स्यात् ? इत्यत आह– मुक्तानां चेति ।। ५ ।।
प्रमेयदीपिका
‘मद्भावम्’ इत्यस्य ‘मदात्मकत्वम्’ इत्यन्यथाप्रतीतिनिरासाय आह– मद्भावमिति ।। ननु भगवति स्थितिः सर्वदाऽस्ति । सा कथं फलम्? इत्यतो विशिनष्टि– निर्दुःखेति ।। क्वचित् पाठो मद्भावं मद्वद्भावम् इति । तत्र भगवत्प्रतिबिम्बानां जीवानां तत्सादृश्यं सदाऽस्ति । तत् कथं प्राप्यमुच्यते? इत्यत उक्तम्– निर्दुःखेति ।। अत्र आत्मकमिति पाठः।। ‘अभिव्यक्तम्’ इति शेषः । प्रतीत एवार्थः किं न स्यात्? इति चेन्न । मुक्तानां भगवदाश्रितत्वेन तद्भावायोगात् । तदपि कुतः? इत्यत आह– तच्चेति ।। क्षेत्रज्ञः परमात्मा गतिरिति समर्थितः ।। ५ ।।
भावदीपः
।। अत्रेति ।। ‘मद्वद्भावम्’ इति पाठपक्ष इत्यर्थः । भावपदस्य पुल्लिङ्गत्वादिति भावः । कल्पितपदार्थः समर्थित इति ।। ५ ।।
भावरत्नकोशः
भगवत्प्रतिबिम्बानां भगवता भिन्नत्वे सति अर्थप्रकाशत्वा-नुकूलवेदनीयत्वादिना तज्ज्ञानानन्दादिसदृशज्ञानानन्दादिरूपकिञ्चित्सादृश्यसम्पन्नानाम् । लिङ्गानन्वयमाशङ्क्याह अत्रेति । ‘मद्वद्भावम्’ इति पाठपक्षे, इति पाठ इति । ‘निर्दुःख-निरतिशयानन्दात्मकम्’ इति भाष्यपाठ इत्यर्थः । निर्दुःखनिरतिशयानन्दात्मकरूपसादृश्यस्यापि
‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।
स्वरूपाण्येव जीवस्य ..........................।।’
इति सनातनत्वात् कथं फलत्वम् ? इति कृतचोद्यं परिहर्तुं भाष्ये शेषमाह– अभिव्यक्त-मिति । अभिव्यक्तिस्तु प्राङ् नैवेति भावः । प्रतीत एवार्थः ‘मद्भावम्’ इत्यस्य ‘मदात्मकत्वम्’ इत्यापातप्रतीत एवार्थः । तदपि तदेव । क्षेत्रज्ञशब्दार्थं वदन् तदन्वितम् ‘इति’ शब्दं व्यत्यस्य योजयति क्षेत्रज्ञ इति । ‘स ह्यन्तरात्मा भूतानां क्षेत्रज्ञ इति कथ्यते’ इति, ‘आत्मा भिन्नः स विज्ञेयः ततस्तं पूजयावहे’ इति आत्मादिशब्देन परमात्मा प्रस्तुत इति भावः । गम्यत इति गतिः आश्रयः । ‘कृपू सामर्थ्ये’ इति धातुव्याख्यानादाह– समर्थित इति । ‘ब्रह्मन्’ इति नारदसम्बोधनम् ।। ५ ।।
गीताक्षरार्थस्तु- अन्तकाले ‘किमर्थं स्मर्तव्योऽसि ?’ इत्यस्य परिहार उच्यते अन्तकाल इति । प्रयाणकाले मामेव स्मरन् कलेवरं देहं त्यक्त्वा यः प्रयाति गच्छति स मद्भावं मयि सत्तां निर्दुःखनिरतिशयानन्दात्मिकां याति । मद्वद्भावम् अभिव्यक्तनिरतिशयानन्दानुभवात्मकम् इति वा । मत्प्राप्तिमेवान्तकाले मत्स्मरणं फलतीति ।। ५ ।।
भावदीपिका
‘मद्भावं मद्वद्भावम्’ इति पाठपक्षे ‘निर्दुःखनिरतिशया-नन्दात्मिकाम्’ इति पाठासम्भवादाह– अत्रात्मकमिति ।। गतिरिति ।। आश्रय इत्यर्थः ।। ५ ।।