मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ।। ३४ ।।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ।। ३४ ।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोऽध्यायः ।। ९ ।।

भावरत्नकोशः

गीताक्षराप्थस्तु भजने प्रकारः, सप्रकारकभजनस्य फलं चोच्यते– मन्मना इति ।। मयि मनो यस्यासौ मन्मनाः भव मद्याजी मद्यजनशीलः । मन्मनस्त्वादिप्रकारेण मत्परायणः मदेकशरणः आत्मानं मनो मयि युक्त्वा समाधाय भजस्व । सति चैवं मामेव एष्यसि गमिष्यसि । अतो महापुरुषार्थसाधनं मद्भजनम् अवश्यमनुष्ठेयमिति

।। ३४ ।।

स्वतन्त्रः कर्ताऽयं लघुरहं कर्मसु परं प्रतिच्छायारूपं किमपि च करोमि स्वविहितम् ।

इति प्राज्ञैर्ज्ञात्वा सकलसुकृतानि प्रतिदिनं हरावेव न्यस्यन् प्रथित इह कर्मज्ञ इति सः ।।

।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सुरेन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रतीर्थविरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नकोशसमाख्यायां नवमोऽध्यायः ।।