अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।। ८ ।।

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।। ८ ।।

भाष्यम्

सन्ति च भजन्तः केचिदित्याह– अहमित्यादिना ।। ८ ।।

भावप्रदीपिका अजोऽनादिर्भगवानिति सामान्यविशेषाभ्यामुक्तम् । तत्कुतः ? इत्यतः श्लोकमवतारयति– सन्ति चेति ।। ८ ।।

प्रमेयदीपिका

ननु ‘एतां विभूतिम्’ इति परिज्ञातुः फलमुक्तम् । तत्किमर्थं पुनरुच्यते ? इत्यतस्तात्पर्यान्तरमाह– सन्ति चेति ।। ‘उक्तफले विश्वासजननार्थम्’ इति शेषः ।। ८ ।।

भावरत्नकोशः

।। फलमुक्तमिति ।। ‘योगेन युज्यते’ इत्यविकम्प-योगावाप्तिरूपं फलमुक्तमित्यर्थः । पुनरिति ।। ‘बुद्धियोगं ददामि’, ‘तमो नाशयामि’ इति च फलं परिज्ञातुः पुनरुच्यत इत्यर्थः । तात्पर्यान्तरम् न फलोक्तौ तात्पर्यम्, येन पुनरुक्तिः स्यात् । किन्तूक्तफले विश्वासजननार्थं ‘सन्ति भजन्तः केचित्’ इत्यर्थप्रतिपादने तात्पर्यमिति तात्पर्यान्तरमित्यर्थः ।।

उक्तफले विश्वासजननार्थं ‘सन्ति च तथा भजन्तः केचित्’ इत्युच्यते– अहमित्यादिना ।। ‘प्रभवसत्ताप्रतीत्यादिकारणत्वात् प्रभवभोक्तृत्वाच्च प्रभवः’ इति सप्तमभाष्यम् । ‘प्रभवत्यस्मात्’ इति प्रभवः उत्पादक इति वा, प्रवर्तते स्वस्वव्यापारेषु । ‘प्रलयादिरपि मत्त एव’ इत्यप्युप-लक्ष्यते । ‘माम्’ इत्यनुक्तेः जीवेश्वरैक्याभिप्रायेण स्वात्मानमुद्दिश्य ‘अहमेव सर्वस्य प्रभवः’ इत्यादि मत्वा भजन्त इति प्रतीतिः स्यात्, तन्निवृत्त्यर्थम् ‘अहं सर्वस्य प्रभवः’ इत्यादिनैव ‘माम्’ इति सिद्धावपि, पुनः ‘माम्’ इत्युक्तम् । बुधाः अवगतभगवत्तत्त्वाः । भावसमन्विताः भक्त्या समुपेताः ।। ८ ।।