अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ।। १६ ।।

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ।। १६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– अपि च अनपेक्षः काम्यकर्मफलाभि-लाषरहितः शुचिः बाह्याभ्यन्तरशुद्धिमान्, उदासीनः कर्तव्य उपकारे अपकारे वा उपेक्षाबुद्धिमान््, गतव्यथः परकृतापकारैरनवाप्तमनःपीडः, सर्वारम्भपरित्यागी सर्वेषां कर्मणाम् आरम्भं परित्यक्तुं शीलमस्यास्तीति तथा ।। १६ ।।