मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।। ३२ ।।

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।। ३२ ।।

भावरत्नकोशः

गीताक्षराप्थस्तु भक्तेर्महिमा कैमुत्येनोच्यते– मां हीति ।। हे पार्थ मां व्यपाश्रित्य संसेव्य ये पापादियोनयः अस्वाभाविकाः स्त्रियो वैश्याः तथा शूद्राः ब्राह्मणाः राजर्षयश्च भक्ताः स्यु भवेयुः, तेऽपि परां गतिं यान्ति ।। ३२ ।।