सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ।। ५ ।।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ।। ५ ।।

भाष्यम्

बन्धप्रकारं दर्शयति साधनानुष्ठानाय– सत्त्वमित्यादिना ।। ५,६ ।।

भावप्रदीपिका

सत्वं रजस्तमः इत्यादि प्रघट्टकमवतारयति– बन्धेति

।। ५ ।।

प्रमेयदीपिका

ननु प्रतिज्ञातं ज्ञानं श्लोकद्वयेनोक्तम् । तत्किमुत्तरेण ग्रन्थेनाध्यायासङ्गतमुच्यते ? इत्यत आह– बन्धेति ।। यो हि बद्धोऽस्मीति जानाति स एव तन्निवृत्तिसाधनं विजिज्ञास्य ज्ञात्वा अनुतिष्ठति । अतो बन्धोच्छेद-साधनानुष्ठानाय तज्ज्ञापनार्थं जिज्ञासामुत्पादयितुं गुणत्रयकृतबन्धप्रकारम् आदौ तावद् दर्शयति इति नासङ्गतिरित्यर्थः ।। ५ ।।

भावबोधः

।। प्रतिज्ञातमिति ।। ‘परं भूयः’ इति प्रतिज्ञातम् । ज्ञायते इदमिति व्युत्पत्त्या ज्ञानम् ईश्वरादिमाहात्म्यं मम योनिरिति श्लोकद्वयेनोक्तमित्यर्थः ।। ५,६ ।।

भावदीपः

।। प्रतिज्ञातं ज्ञानमिति ।। ज्ञायत इति ज्ञानमिति कर्म-व्युत्पत्त्या प्रकृतेः सर्वकारणत्वरूपं प्रकृतौ भगवतः बीजाधायकत्वरूपं ज्ञातव्यमित्यर्थः । विजिज्ञास्य विचार्य ।। ५ ।।

भावरत्नकोशः

।। प्रतिज्ञातं ज्ञानमिति ।। ‘परं भूयः प्रवक्ष्यामि’ (१४. १) इति प्रतिज्ञातं प्रकृतेः सर्वकारणत्वरूपम् भगवतः प्रकृतौ बीजावापकर्तृत्वरूपं च ज्ञातव्यमित्यर्थः । ‘कृत्यल्युटो बहुलम्’ इति बहुलग्रहणाद् कर्मणि ल्युट् इति भावः। सन्निधानाद् ‘बन्धसाधनानुष्ठानाय’ इति प्रतीतिव्युदासाय सतात्पर्यं व्याचष्टे– यो हीति ।। तन्निवृत्तिसाधनं बन्धनिवृत्तिसाधनम् । विजिज्ञास्य विचार्य तज्ज्ञापनार्थं साधनानुष्ठान-ज्ञापनार्थम् ।।

सत्त्वं रजस्तमः’ इत्यादिगीताश्लोकाक्षरार्थस्तु ‘परं भूयः’ इति प्रतिज्ञातं’ मम योनिर्महद् ब्रह्म’ इति श्लोकद्वयेनोक्तम् । तत्र ज्ञातव्यार्थज्ञानं ‘परां सिद्धिमितो गताः’ ‘मम साधर्म्य-मागताः’ इति मोक्षसाधनमित्यभिहितम् । मोक्षश्च संसारलक्षणाद् बन्धादिति वक्तव्यम् । अतो बन्धस्वरूपं प्रतिज्ञाय तन्निवृत्तिसाधनम् अनुष्ठातव्यं मुमुक्षुणा । यो हि ‘बद्धोऽस्मि’ इति जानाति स एव तन्निवृत्तिसाधनं विजिज्ञास्य, ज्ञात्वा, अनुतिष्ठति । अतो बन्धोच्छेदसाध-नानुष्ठानाय तज्ज्ञापनार्थं जिज्ञासामुत्पादयितुं गुणत्रयकृतबन्धप्रकारस्तावद् आदौ प्रदर्श्यते– सत्त्वमित्यादिना ।। इति गुणाः इति संज्ञोपेताः गुणाः । ‘सम्भवत्यस्याः’ इति सम्पूर्वाद् भवतेः ‘ॠदोरप्’ (पा.३.३.५७) इत्यप्प्रत्यये सम्भवा । प्रकृतिः सम्भवा कारणं येषां ते प्रकृतिसम्भवाः । ‘प्रकृतेः सम्भवः उत्पत्तिः येषां ते’ इति व्यधिकरणबहुब्रीहिरित्यपि आहुः । देहे उपचीयमाने शरीरे स्थितम् अव्ययं स्वरूपेण व्ययरहितमपि देहिनं जीवं निबध्नन्ति । अत्र ‘देहे’ इत्युक्तिः भूतपूर्वगत्या मुक्तानामपि देहित्वाद् तान् बध्नन्तीति शङ्काव्युदासायेति स्वामिनः । देहे देहादिसंसारे भवितव्ये गुणाः श्री भूदुर्गादेवीभिः नियता देहिनं जीवं बध्नन्ति आवृण्वत इत्यपि योजयन्ति ।। ५ ।।

भावदीपिका

।। प्रतिज्ञातमिति ।। ‘परं भूयः प्रवक्ष्यामि’ इति प्रतिज्ञातम् । ‘ज्ञायते’ इति कर्मव्युत्पत्त्या ज्ञानम् ईश्वरादिमाहात्म्यं ‘मम योनिः’ इत्यादिश्लोकद्वयेनोक्त-मित्यर्थः । ननु साधनानुष्ठाने बन्धप्रकारप्रदर्शनं कथमुपयोगि इत्यत आह– यो हीति ।। विजिज्ञास्य विचार्य ।। ५ ।।

भावप्रकाशः

।। ज्ञानमिति ।। ‘कृत्यल्युटो बहुलम्’ इति कर्मणि ल्युट् । ज्ञेयं भगवन्माहात्म्यमित्यर्थः ।। ५ ।।