साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ।। ४ ।।
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ।। ४ ।।
भाष्यम्
सन्न्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः । ‘न तस्य तत्वग्रहणाय’ (भाग.५.११. ३) इत्यादौ । अतः कथं सोऽवमः? इत्यत आह– साङ्ख्ययोगाविति ।। उभयोरप्यन्तरङ्गत्वे न विरोधः ।
भावप्रदीपिका
ननु द्वन्द्वत्यागस्य ज्ञानान्तरङ्गत्वात् कथमसाववमः ? किन्तु तदुत्तम एवेत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतार्य व्याचष्टे– संन्यासो हीति ।। साङ्ख्यं ज्ञानम्, कर्मयोगश्च पृथङ् न भवतः । कर्मयोगोऽपि ज्ञानान्तरङ्गम् । तथा च नासौ संन्यासादवमः । किन्तु भगवत्पूजारूपत्वेन केवलसंन्यासादधिक एवेत्यर्थः ।। ४ ।।
भावप्रकाशिका
ननु यो गृहमेधसौख्यं हेयत्वेन न मन्यते, किन्तूपादेयत्वेन वाञ्छति, क्रुद्ध्यति च तद्विरोधिनः, तस्य च वरीयस्योऽपि वाचस्तत्त्वग्रहणाय न स्युः । यस्तु कामक्रोधविहीनः, तस्यैव तत्त्वग्रहणाय स्युरिति ज्ञानान्तरङ्गत्वेनोच्यमानत्वात् द्वन्द्वत्यागोऽपि संन्यासः कथं कर्मयोगादवरः स्यात् ? किन्तूत्तम इत्याशङ्क्य, एतत्परिहारायोत्तरं श्लोकमवतार्य व्याचष्टे– संन्यासो हीति ।। योगस्यापि ज्ञानान्तरङ्गत्वान्न तस्य हीनत्वं द्वन्द्वत्यागात् । किन्तूत्तमत्वमेव भगवत्पूजात्मकत्वेनेति भावेनाह– उभयोरपीति ।। ४ ।।
प्रमेयदीपिका
‘सन्न्यासं गृहीत्वा योगं त्यक्ष्यामि’ इत्याशयेन द्वयोः श्रेयसि पृष्टे ‘द्वावपि निःश्रेयसकरौ। तत्रापि सन्न्यासाद्योगो विशिष्टः । अतो न युद्धं त्वया त्याज्यम्’ इति परिहारो जातः ।किमर्थं इदानीं साङ्ख्ययोगौ इत्युच्यते? इत्यत आह– सन्न्यासो हीति ।। हिशब्दो हेतौ । ज्ञानान्तरङ्गत्वेन ज्ञानोत्पत्तावत्यावश्यकत्वेन । न तस्य इत्यत्र विषय-वैराग्याभावे ज्ञानानुत्पत्तिवचनेन तत एव तदुत्पत्तिरिति हि लभ्यते । एवं कर्मयोगस्तु ज्ञान-विरोधित्वेनोक्तः अग्निमुग्धः इत्यादावित्यपि ग्राह्यम् । अवमः योगात् । अनेन योगस्य निःश्रेयसकरत्वमप्याक्षिप्तम् ।।
ननु साङ्ख्यं ज्ञानम् । योगः कर्म । तयोः कथमत्र पृथक्त्वाभाव उच्यते? कथं वाऽने-नोक्ताक्षेपपरिहारः ? इत्यत आह– उभयोरपीति ।। न केवलं सन्न्यासस्य । किन्तु योगस्या-पीत्युभयोरपि ज्ञानान्तरङ्गत्वात् न उक्तविरोध इत्यर्थः । अनेन ‘साङ्ख्ययोगौ पृथक् साध्य-साधनभावहीनाविति न पण्डिता मन्यन्ते’ इत्येवं व्याख्यातं भवति ।।
भावबोधः
।। धूमादित्वमेवेति ।। श्रुतौ धूमशब्दो रात्र्यादिपुनरावृत्तिमार्गोपलक्षक इति भावः ।।
भावदीपः
‘सन्न्यासः कर्मयोगश्च’ इति श्लोकार्थमनुवादव्याजेन व्यनक्ति– सन्न्यासमिति ।। वैराग्यं कामादिवर्जनमित्यर्थः । योगं भगवत्पूजात्वेन युद्धादिकर्मानुष्ठानम् । वैराग्यस्य ज्ञानान्तरङ्गत्वोक्तिलाभप्रकारं व्यनक्ति ।। न तस्येत्यत्रेति ।। ‘न तस्य तत्वग्रहणाय साक्षात्’ इति पञ्चमस्कन्धस्थभागवतश्लोकः पूर्वत्र द्वितीयाध्याये व्याख्यातः ।। अतःशब्दात् पूर्वं भाष्ये शेषमाह– कर्मयोगस्त्वित्यादिनोक्तविरोध इति ।। एतेन भाष्ये न विरोधः इति पदच्छेदः सूचितः ।।
भावरत्नकोशः
।। हिशब्दो हेताविति ।। ‘यतः’ इत्यर्थे वर्तते । अतःशब्देन च तस्य सम्बन्ध इति भावः । न तस्येत्यत्रेति ।।
‘न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधसौख्यं न यस्य हेयानुमितं स्वयं स्यात्’
इति भागवते । ननु तत्र स्वप्ने निरुक्त्या स्वप्नप्रतीतार्थदृष्टान्तेन गृहमेधसौख्यं विषयसौख्यं हेयत्वेनानुमिनोति, तस्य वरीयसीः वरीयस्योऽपि वाचः तत्त्वग्रहणाय नासन् न स्युरिति विषयवैराग्याभावे ज्ञानानुत्पत्तिरेवावेद्यते, न पुनः संन्यासस्य ज्ञानान्तरङ्गत्वम्, इत्याशङ्क्य श्लोकं तात्पर्यतो व्याकुर्वन् तस्य ज्ञानान्तरङ्गत्वलाभप्रकारं दर्शयति– विषयेत्यादि ।। तत एव तद्व्यतिरेकेण कार्यव्यतिरेकप्रतिपादकात् उक्तवचनादेव, वैराग्यादेवेति वा । तदुत्पत्तिः ज्ञानो-त्पत्तिः । गीताभाष्ययोः ‘उभयोः’ इत्युक्तेर्गमनिकाभाष्येऽनुक्तमपि संयोज्यमित्याह– एवं कर्मयोगस्त्विति ।।
‘अतः स नावमः’ इति भाषयितुं शक्येऽपि, ‘कथम्’ इत्युक्तेस्तात्पर्यं दर्शयति– अनेनेति ।। ‘कथम्’ इति वचनेन । यत् ‘निःश्रेयसकरावुभौ’ इति कर्मयोगस्य निःश्रेयसकरत्वमुक्तं तद् अयुक्तम् । संन्यासस्य ज्ञानान्तरङ्गत्वेन तत उत्तमत्वे वाच्ये ज्ञानविरुद्धत्वेनोक्तस्य योगस्यावमत्व-प्राप्तेरुचितत्वात् निःश्रेयसकरत्वमप्याक्षिप्तं भवतीत्यर्थः । न केवलं संन्यासस्य योगादवमत्वमयुक्तम्, योगस्य निःश्रेयसकरत्वमपि इति अपिशब्दः । समुच्चयान्तरस्याभावाद् अपिशब्दः परस्परसमुच्चयार्थ इति भावेनाह– न केवलमिति ।। विरोध इति । ज्ञानं प्रत्यन्तरङ्गत्वाभावलक्षणः, निःश्रेयस-करत्वाभावलक्षणो वा विरोध इत्यर्थः । ‘ननु साङ्ख्यम्’ इति कृतचोद्यं भाष्यतात्पर्यं वदन् निरसितुमाह– अनेनेति ।।
भावदीपिका
।। द्वयोर्मध्ये ।। ननु ‘न तस्य’ इत्यादौ कथं संन्यासस्य ज्ञानोत्पत्तावावश्यकत्वमुक्तमित्यतस्तदुपपादयति– न तस्येत्यत्रेति ।। विषयवैराग्याभाव इति ।। विषयेषु विगतरागत्वं हि वैराग्यम् । इदमेव च कामादित्यागरूपः संन्यास इत्याशयः ।। तत एवेति ।। वैराग्यापरपर्यायकामादित्यागरूपसंन्यासादेवेत्यर्थः ।। तदुत्पत्तिः ज्ञानोत्पत्तिः ।। लभ्यत इति ।। ततश्च ज्ञानोत्पत्तावत्यावश्यकत्वाख्यान्तरङ्गत्वं लब्धमिति भावः ।
ननु गीतायां योगज्ञानयोः साध्यसाधनभाव एवोच्यते, न तूक्तशङ्कापरिहार इत्यत आह– एवमिति ।। ज्ञानविरोधित्वेनेति ।। ज्ञानानुकूलत्वे ‘अग्निमुग्ध’ इत्यादिनिन्दा न स्यात् । तथा च ज्ञानविरोधिनो योगात् ज्ञानान्तरङ्गस्य संन्यासस्यावमत्वं कथमित्यभिप्रायः ।। अनेन योगस्येति ।। ‘अग्निमुग्ध’ इत्यादौ ज्ञानविरोधित्ववचनेन ‘संन्यासः कर्मयोगश्च निश्रेयसकरावुभौ’ इति यद् योगस्य निश्रेयसकरत्वमुक्तं तदप्याक्षिप्तं भवति । ज्ञानविरोधित्वे मोक्षविरोधित्वावश्यम्भावादिति भावः ।
पृथक्त्वाभाव इति ।। ऐक्यमित्यर्थः ।। उच्यत इति ।। ‘साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिता’ इत्यनेनेत्यर्थः ।। नोक्तो विरोध इति ।। ‘अग्निमुग्ध’ इति श्रुत्यनुसारेणोक्तो योगस्य ज्ञानविरोधो नास्तीत्यर्थः । तथा चोभयोर्ज्ञानान्तरङ्गत्वेऽपि योगस्य मुख्यान्तरङ्गत्वात् योगाङ्गतया संन्यासस्यान्तरङ्गत्वेन, अन्तरङ्गतायां तारतम्यसद्भावाद् योगात् संन्यासस्यावमत्वमिष्टमेवेति भावः ।। अनेनेति ।। कर्मयोगस्य ज्ञानान्तरङ्गत्ववचनेनेत्यर्थः ।।
भावप्रकाशः
नैतावता सन्न्यासस्य योगावरत्वाक्षेपः सिद्ध्यतीत्यत आह– एवं कर्मयोगस्त्विति ।। साङ्ख्ययोगाविति गीतायां योगस्य निःश्रेयसकरत्वोक्तेः तदनुसारेणाह– अनेनेति ।। उभयोरपीत्यपिशब्दो नान्यसमुच्चयार्थः । अन्यस्य समुच्चेयस्याभावात् । किन्तु उभशब्दोक्तयोः मध्ये परस्परसमुच्चयार्थ इति भावेनाह– न केवलमिति ।। तान्त इत्यस्यार्थः – ग्लान इति ।। तमु ग्लानाविति धातुव्याख्यानादिति भावः ।।