दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ।। ५६ ।।
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ।। ५६ ।।
भाष्यम्
तदेव स्पष्टयत्युत्तरैस्त्रिभिः श्लोकैः । एतान्येव ज्ञानोपायानि । तच्चोक्तम्–‘तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत्तु लक्षणम्’ इति । शोभनाध्यासो रागः ।। ‘रसो रागस्तथा रक्तिः शोभनाध्यास उच्यते’ इत्यभिधानात् ।।
भावप्रदीपिका
पुनः श्लोकत्रयेऽपि लक्ष्यनिर्देशाल्लक्षणान्तरमुच्यत इति शङ्का मा भूदित्याह– तदेवेति ।। आत्मतुष्ट्यकामत्वलक्षणं जिज्ञासावतिव्याप्तमित्यत आह– एतानीति । उपायतया तत्र वर्तते, न तु ज्ञानिनीव स्वाभाविकतयेत्यर्थः । ‘विगत-स्पृह’पदात् ‘वीतराग’पदस्यार्थभेदमाह– शोभनेति ।। ५६ ।।
भावप्रकाशिका
‘दुःखेषु’ इत्यादिभिः ‘स्थितधीर्मुनिः’ ‘तस्य प्रज्ञा प्रतिष्ठिता’ इति पुनर्लक्ष्यनिर्देशाल्लक्षणान्तरोक्तिरिति नाशङ्कनीयमित्याह– तदेवेति ।। न केवलं ‘प्रजहाति’ इत्याद्युक्तिनिषिद्धसर्वकामप्रहाणादीनि ज्ञानिनामेव लक्षणत्वेनोच्यन्ते । किन्तु ज्ञानार्थिभिरप्यनुष्ठेयानीत्येतत् सप्रमाणकमाह– एतानीति । दुःखेषु वर्तमानेषु तत्परिहर्तुं नोद्विग्नमनाः । सुखेषु वर्तमानेषु ‘एवमेव स्यात्’ इति न स्पृहयतीत्यकामत्वमेव स्पष्टितं भवति । ‘विगतस्पृह’पदात् ‘वीतराग’पदस्यार्थभेदं सप्रमाणकमाह– शोभनेति ।। अशोभने शोभनत्वाध्यासरहितः । अतस्तत्रापि न कामः । वीतभयत्वात् तत्परिहर्तुं कामोऽपि न । वीतक्रोधादपि कामरहितः । ‘कामः कथं पुनरस्य मनः श्रयेत’ इति वचनात् । एवमुत्तरश्लोकाभ्यामपि ‘सर्वान् कामान् प्रजहाति’ इत्येतत् स्पष्टितं भवतीति ।। ५६ ।।
प्रमेयदीपिका
ननु लक्षणस्यानेनैवोक्तत्वात् किं ‘दुःखेषु’ इत्यादिना? इत्यत आह– तदेवेति ।। उक्तं लक्षणमेव । स्पष्टनं च कामशब्दोपलक्षितदोषान्तरत्याग-कथनादिनेति ज्ञेयम् ।। ननु कामत्यागादीनि ज्ञानसाधनतयोच्यन्ते ‘अमानित्वम्’ (१३.८) इत्यादौ ।। ततो ज्ञानिलक्षणस्य जिज्ञासावतिव्याप्तिरित्यत आह– एतान्ये-वेति ।। उप समीपे आयः फललाभो येषां तान्युपायानि साधनानि । सत्यमेतत् । तथाऽपि जिज्ञासौ प्रयत्नसाध्यानि, ज्ञानिनि तु स्वभावसिद्धानीति न दोष इति भावः ।।
अत्र प्रमाणमाह– तच्चेति ।। समुच्चयवादी त्वाह– ‘यानीह स्थितप्रज्ञलक्षणान्युच्यन्ते तान्येवापवर्गसाधनानि’ इति । तद्वाऽनेन दूषयति । ज्ञानसाधनान्येव नापवर्गसाधनानि । यथोक्तं ‘कामकारेण चैके’ (ब्र.सू.३.४.१५) इति । आनन्दवृद्ध्यर्थता त्वङ्गीकृतैव । ‘योगे त्विमां शृणु’ इत्युक्त्वा कथं योगादन्यदुच्यते? इत्यतो वेदमुदितमिति । विगतस्पृह-पदेनैव ‘वीतरागः’ इत्येतद् गतार्थमित्यत आह– शोभनेति ।। अशोभनेषु विषयेषु शोभनत्व भ्रान्तिः। रसः, रागः, रक्तिः इत्येतैः काम उच्यते । तथा शोभनाध्यासः उच्यत इत्यर्थः ।। ५६ ।।
भावबोधः
।। उप समीप इति ।। रूढस्यैव उपायशब्दस्य पुंलिङ्गत्वनियमो यौगिकस्य तु विशेष्यलिङ्गत्वमिति भावः । ‘तद्वै जिज्ञासुभिः’ इति उदाहरिष्यमाणवचनानु-सारेणाभिप्रायमाह– सत्यमेतदिति ।। स्वभावसिद्धानीति ।। एतच्च लक्षणे विवक्षितमिति भावः । कामकारेणेति ।। अनेन सूत्रेण परोक्षज्ञानोत्तरं विहिताकरणे विहितकरणे च ज्ञानिनो मुक्तिर्भवत्येवेत्युच्यते । समुच्चयसाध्यत्वे तद्विरोधः स्यादित्यर्थः ।।
भावदीपः
।। इत्यादाविति ।। ‘अमानित्वमदम्भित्वम्’ इति त्रयोदशेऽ-ध्याये ।। नपुंसकत्वनिर्वाहायाऽह– उप समीप इत्यादि ।। यथोक्तमिति ।। कामात्यागेऽपि ज्ञानिनो मोक्षो नियत इत्येतद् ज्ञानपादे सूत्रकृतोक्तमित्यर्थः । ‘कामकारेण च’ कामचारेणापि ज्ञानिनो मोक्षं ‘कामचाराः कामभक्षाः’ इत्येके शाखिनः पठन्तीत्यर्थः ।। अङ्गीकृतैवेति ।। ‘शमदमाद्युपेतः स्यात् तथाऽपि तु’ इति सूत्रकृतैवोक्तेरिति भावः ।। इदमुदितमिति ।। ‘एतान्येव’ इत्यादिकमुदितमित्यर्थः । ‘रसवर्ज्यम्’ इति वक्ष्यमाणोेपयोगायाऽह– इत्यैतेः काम उच्यत इति ।। अत्र ‘तथा’ इत्यनन्तरम् ‘अपि’ इत्येतदनुषज्यते ।। ५६ ।।
भावरत्नकोशः
।। अनेनैव अवश्यवक्तव्यस्य लक्षणस्य ‘प्रजहाति यदा’ इति श्लोकेनैवोक्तत्वादित्यर्थः । ‘दोषान्तरत्यागकथनादिना’ इत्यत्र दोषान्तरं भयादि । आदिपदेन द्वेषप्रसञ्जकप्रदर्शनं, द्वेषाभावप्रदर्शनं च गृह्यते । इत्यादौ त्रयोदशाध्याये । ननूपायशब्दस्येणो घञि निष्पन्नत्वाद् घञन्तस्य च ‘घञजबन्ताः’ इति पुंलिङ्गत्वानुशासनात् कथं भाष्ये नपुंसक-लिङ्गत्वमित्यत आह– उप समीप इति ।। तत्र विशेष्याकाङ्क्षायां शङ्कितातिव्याप्तिपरिहाराय भावमाह– सत्यमिति ।। एतत् कामत्यागादीनि ज्ञानसाधनतयोच्यन्त इत्येतत् । भाष्ये साध्य-पदस्वारस्यमनुरुन्धान आह– प्रयत्नसाध्यानीति । स्वभावेति ।। स्वाभाविककामादित्यागस्य ज्ञानिलक्षणत्वान्न जिज्ञासावतिव्याप्तिरिति भावः । समुच्चयवादी ज्ञानं विहितकरण-निषिद्धाकरणसमुच्चितमेव मोक्षहेतुरिति समुच्चयवादी । तद्वा अनेन तन्मतं वा ‘एतान्येव ज्ञानोपायानि’ इति भाष्येण । एवकारं व्यत्यस्य योजयंस्तद्व्यावर्त्यमाह– ज्ञानेति ।। स्थितप्रज्ञ-लक्षणान्यपवर्गसाधनानीत्यत्रापवर्गशब्देन मोक्षमात्रमुच्यते ? उत तत्रत्यानन्दोत्कर्षोऽपीति विकल्प्य आद्य आह– यथोक्तमिति ।। यथेष्टाचारेणापि ज्ञानिनो मोक्षं ‘कामचाराः काम-भक्षाः’ इत्येके शाखिनः पठन्तीति सूत्रार्थः । अस्मिन् सूत्रे ज्ञानिनो विरुद्धकामादित्यागा-भावेऽपि मोक्षनियमोक्तेः ‘प्रजहाति यदा कामान्’ इत्याद्युक्तलक्षणान्यपवर्गसाधनमित्युक्त-मयुक्तमिति भावः ।
द्वितीय आह– आनन्देति ।। ‘शमदमाद्युपेतः स्यात् तथाऽपि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात्’ इत्यादौ सूत्रकृतैव आनन्दातिशयहेतुताया उक्तत्वादिति भावः । पूर्वयोजनापेक्षयाऽन्तरङ्गत्वात् प्रकारान्तरमाह– योगे त्विमामिति ।। इदं ‘एतान्येव’ इत्यादिकं प्रमाणम् । गमनिका तु पूर्ववदेवेति भावः । शुभार्थे प्रेम्णो गुणत्वात् तत्प्रहाणमयुक्त-मित्यतोऽध्यासपदार्थं वक्तुं शेषमाह– अशोभनेष्विति ।। शोभनत्वमात्यन्तिकसुखसाधनत्वम् । इत्येतैः शब्दैः । काम इति शेषोक्तिः । तथाशब्दस्वारस्यायाह– तथेति ।। उच्यते क्वचित् । अत्र चापौनरुक्त्याय शोभनाध्यास एव ग्राह्य इति भावः । एतेन यत्प्राग् वक्ष्यतीत्युक्तं तदपि ज्ञापितं भवति ।। ५६ ।।
भावदीपिका
।। अमानित्वमित्यादाविति ।। ‘अमानित्वम्’ इत्यादौ ‘असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु’ इत्याद्युक्त्वाऽन्ते ‘एतज्ज्ञानमिति प्रोक्तम्’ इति ज्ञान-साधनत्वोक्तेरित्यर्थः । जिज्ञासौ ज्ञानेच्छावत्परोक्षज्ञानिनीत्यर्थः । ननूपायशब्दस्य नित्यपुंलिङ्ग-त्वादुपायानीति कथमित्यत आह– उप समीप इति ।। फलेति ।। ज्ञानाख्यफलेत्यर्थः । तथाच रूढस्यैवोपायशब्दस्य पुंलिङ्गत्वनियमेन यौगिकस्य तस्य तु विशेष्यनिघ्नत्वम् । अयं तूपायशब्दो यौगिक इत्याशयेन योगः प्रदर्शित इत्याशयः ।। सत्यमेतदिति ।। एतान्येव ज्ञानोपायानीति ज्ञानिलक्षणस्य जिज्ञासावतिव्याप्तिरिति यद्यपीत्यर्थः ।। स्वभावसिद्धानीति ।। प्रकृते च स्वभावसिद्धान्येव लक्षणत्वेन विवक्षितानीति न जिज्ञासावतिव्याप्तिरिति भावः । मूले ज्ञानिनां यत् लक्षणं तज्जिज्ञासुभिः साध्यम् । ज्ञानिनां तु स्वभावसिद्धमिति शेषः । तान्येव कामादिवर्जनान्येव । ज्ञानसहितानीति शेषः ।
समुच्चयवादी प्रष्टव्यः । एतेषां कामत्यागादीनामपवर्गसाधनत्वं वदता त्वयाऽपवर्गशब्देन किं विवक्षितमिति । लिङ्गभङ्गो वा, आनन्दवृद्धिर्वा? नाऽद्य इत्याह– नापवर्गेति ।। लिङ्गभङ्ग-रूपेत्यर्थः । कुत इत्यत आह– कामकारेण चैक इति ।। ‘कामचारा कामभक्षा कामवादा कामेनैवेमं लोकं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’ इति चैके पठन्तीति सूत्रार्थः । तथाचानेन सूत्रेणापरोक्षज्ञानोत्तरं विहिताकरणे निषिद्धकरणे च ज्ञानिनो लिङ्गभङ्गरूपा मुक्तिर्भवत्येवेत्युच्यते । समुच्चयसाध्यत्वे तद्विरोधः स्यादिति भावः । द्वितीये त्विष्टापत्तिरित्याह– आनन्देति ।। इदम् कामत्यागादिरूपं लक्षणम् । इदमुदितम् एतान्येवेति वाक्यम् । तथाच यानि स्वभावसिद्धानि ज्ञानिलक्षणानि तान्येव जिज्ञासुना साधितानि सन्ति, ज्ञानोपायान्यपि भवन्तीति योगत्वं युक्तमित्याशयः । रसशब्दस्य रागवाचित्वं तूक्ताभिधानादवगन्तव्यमित्युत्तरत्र वक्ष्यमाणत्वादत्र च तदनुक्तेस्तदर्थमध्याहारेण योजयति– काम उच्यत इति ।। ५६ ।।
भावप्रकाशः
।। कथनादिनेति ।। आदिपदेन द्वेषप्रसञ्जकप्रदर्शनं द्वेषा-भावकारणप्रदर्शनं च सङ्गृह्यते ।। ननूपपूर्वादिणः करणे घञन्तत्वादुपायशब्दः पुंलिङ्गः । ‘घञबन्त’ इति लिङ्गानुशासने घञन्तस्य पुंस्त्वविधानात् । तत्कथं ज्ञानोपायानीत्युक्तमित्यत आह– उप समीप इति ।। दिगन्तराललक्षणभिन्नबहुव्रीहिस्तावद् विशेष्यनिघ्नबहुव्रीहिः । अमरेण (तथोक्तेः) तथोक्तत्वात् । उपायशब्दोऽपि तादृशो बहुव्रीहिः । अतो न पुंस्त्वनियमः । नच तथाऽपि नपुंसकत्वे विनिगमकाभावः । ‘सामान्ये नपुंसकम्’ इति तदुपपत्तेरिति भावः ।।
‘तद्वै जिज्ञासुभिः’ इत्यग्रिमप्रमाणानुसारेणाभिप्रायमाह– सत्यमेतदिति ।। स्वभाव-सिद्धानीति ।। तथा च स्वाभाविकस्य कामत्यागादेः लक्षणत्वान्नातिव्याप्तिरिति भावः । अपवर्गसाधनत्वे किम् अनिष्टनिवृत्त्यादिरूपापवर्गसाधनत्वमुत आनन्दोद्रेकरूपतत्साधनत्वमिति विकल्प्याद्य आह– यथोक्तमिति ।। यथेष्टाचारेणापि ज्ञानिनो मोक्षमेके शाखिनः पठन्तीति सूत्रार्थः । तथा च सूत्रे विरुद्धकामादित्यागाभावेऽपि ज्ञानिनो नियमेन मोक्षोक्तेरुक्तमयुक्तमिति भावः । द्वितीये त्वाह– आनन्देति ।। तथाशब्दस्वारस्याय योजयति– रसो राग इति ।। एतेन ‘रसो राग इति वक्ष्यति’ इति यत्प्रागुक्तं तत्प्रमापितम् ।। ५६ ।।