यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ।। १९ ।।

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ।। १९ ।।

भाष्यम्

आत्मनः योगं भगवद्विषयं योगम् ।। १९ ।।

भावप्रदीपिका

युञ्जतो योगमात्मनः इत्येतद्व्याचष्टे –आत्मन इति ।।१९।।

भावप्रकाशिका

युञ्जतो योगमात्मनः इत्यत्रात्मा भगवान् । तस्य योग-सम्बन्धश्च विषयविषयिभाव इत्याह– आत्मन इति । आत्मा जीवश्चेत्, स किं योगस्य विषयः ? आश्रयो वा ? आद्ये पूर्वोक्तदोषः । द्वितीये, आत्मशब्दो व्यर्थ इति भावः ।। १९ ।।

प्रमेयदीपिका

युञ्जतो योगमात्मनः इत्यत्राऽत्मशब्दस्य षष्ठ्याश्च विवक्षित-मर्थमाह– आत्मन इति ।। ‘योगिन आत्मनः’ इत्यन्वयनिरासाय योगम् इत्युक्तम् । अन्यथा वैयर्थ्यात् ।। १९ ।।

भावरत्नकोशः

।। विवक्षितम् आत्मप्रातिपदिकस्य भगवानर्थः, विभक्तेश्च विषयविषयिभावः सम्बन्धोऽर्थ इति विवक्षितमर्थम् । इत्यन्वयेति । तथा च सङ्करः ‘योगिनः आत्मनः समाधिमनुतिष्ठतः स्वात्मनः’ इति । अत्र दूषणमाह– अन्यथेति । ‘योगिन आत्मनः’ इत्यन्वयाभ्युपगमे आत्मशब्दवैयर्थ्यम्, योगिन आत्मत्वाव्यभिचारादित्यर्थः । प्राचीनटीकायाम् ‘आत्मशब्दार्थो जीवश्चेत् स किं योगस्य विषय आश्रयो वा । आद्ये तस्य मुक्त्यर्थत्वेन स्वानधीनत्वान्मुक्तेरित्युक्तदोषः । द्वितीये आत्मशब्दो व्यर्थ इति भाव इति’ इदं भाष्यं व्याख्यातम् ।।

अथ तद्वतोऽवस्थितिरुच्यते– यथेति ।। निवातस्थः वातवर्जिते देशे स्थितः दीपः यथा नेङ्गते न चलति सा उपमीयते अनेनेत्युपमा दृष्टान्तः । ‘सा वैश्वदैव्यामिक्षा’ इत्यादाविव विधेयापेक्षया ‘सा’ इति स्त्रीलिङ्गम् । कस्येत्यत उक्तम्– योगिनः यतचित्तस्य आत्मनो भगवतः सम्बन्धिनं योगं भगवद्विषयकं समाधिं युञ्जतः कुर्वत इति ।। १९ ।।

भावदीपिका

।। अन्यथेति ।। योगिन आत्मन इत्यनङ्गीकार इत्यर्थः ।। १९ ।।

भावप्रकाशः

 ।। अन्यथेति ।। योगिन आत्मन इत्यन्वये आत्मशब्दवैयर्थ्यं स्यात् । योगिन आत्मत्वाव्यभिचारादित्यर्थः ।। १९ ।।