सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।। १५ ।।

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।। १५ ।।

भाष्यम्

वेदनिर्णायात्मिका मीमांसा वेदान्तः । तथाच सामवेदे प्राचीन-शाला(ल)श्रुतिः– ‘स वेदान्तकृत् स कालक इति, स ह्येव युक्तिसूत्रकृत्’, ‘स कालकः’ इति ।। १५ ।।

भावप्रदीपिका

वेदान्तकृत् इत्यस्यार्थमुपनिषत्कर्तेति प्रतीतिनिरासाय सप्रमाणकमाह– वेदेति । कालकोज्ञानहारी ।। १५ ।।

प्रमेयदीपिका

‘वेदान्तकृत्’ इत्युपनिषदां कर्ता’ इत्यन्यथाप्रतीति-निरासार्थमाह– वेदेति ।। वेदः वेदार्थः । तस्यान्तो निर्णयः । तदात्मिका । तादर्थ्यात् ताच्छब्द्यम् । मीमांसा ब्राह्मी ।तस्याः ‘कर्ता’ इति शेषः । कुत एतत्? इत्यत आह– तथा चेति ।। युक्तिसूत्रकृत् वेदार्थनिर्णयार्थयुक्तिसूचकवाक्यकृत् । स कालकः इति द्वितीयेन कलधातोः ज्ञानाद्यर्थतया प्रसिद्धत्वान्निगदव्याख्यानमेतदित्याचष्टे ।। १५ ।।

भावदीपः

‘हि’इत्यन्तप्रतीकं गृहीत्वा ‘स हि’ इत्यादिना ‘वेदान्तकृत्’ इत्येतावदेव व्याख्यातम् । ‘स कालकः’ इत्येतत्कुतो न व्याख्यातम् इत्यत आह– स कालक इति द्वितीयेनेति ।। ‘इत्याचष्टे’ इत्यन्वयः ।। १५ ।।

भावरत्नकोशः

‘अयं वेदः’ इति निर्णये, ‘अयम् ऋग्वेदः’, ‘अयं यजुर्वेदः’ इत्यादिनिर्णये वा न मीमांसोपयागः इत्यतो भाष्यगतवेदशब्दविवक्षितार्थमाह– वेदो वेदार्थ इति ।। ‘अन्तोऽस्त्री निश्चये नाशे’ इत्यभिधानाद् ‘उभयोरपि दृष्टोऽन्तः’ इत्यत्र ‘अन्तो निर्णयः’ इति भाषणाच्चाह– अन्तो निर्णय इति ।। मीमांसाया वेदार्थनिर्णयरूपत्वाभावादाह– तादर्थ्यादिति ।। निर्णयप्रयोजनकत्वात् निर्णयशब्दार्थत्वमित्यर्थः । मुख्यो वेदार्थो हि भगवान् , तन्निर्णयात्मकत्वं च न कर्ममीमांसादेः, इत्यतोऽत्र मीमांसाशब्दविवक्षितार्थमाह– ब्राह्मीति ।। ‘तस्याः मीमांसायाः कर्ता’ इति वदन् मीमांसा वेदान्तः, तस्याः कर्ता वेदान्तकृत् इति भाष्यशेषो निरूपणीय इत्यभिसन्धत्ते । ‘युक्तिसूत्रकृत्’ इत्यत्र ‘युक्तीनां सूत्राणां कर्ता’ इति प्रतीतिनिरासायार्थमाह– वेदार्थेति ।। युक्तिसूचकं च वाक्यं ब्रह्ममीमांसैव । तस्या एव ‘आकाशस्तल्लिङ्गात्’ इत्यादिसूत्ररूपाणां आकाशादिशब्दानां वेदमुख्यार्थभगवद्ग्रहणे परोवरीयस्त्वादियुक्तिसूचकवाक्यत्वादिति भावः । व्यासस्य ब्रह्मसूत्रकर्तृत्वाद् ‘अहं कर्ता’ इति कथं गीताचार्य उपदिशति इति शङ्का ‘स एव व्यासरूपेण वेदान्तकृदुदाहृतः’ इति प्रमाणोदाहरणेनोत्तरप्रस्थाने परिहृता ।

ननु वेदान्तकृच्छब्द इव कालकशब्दोऽपि श्रुतावुपात्तः किमिति न व्याख्यातः पुनरुक्तश्च इत्यतः तदभिप्रायमाह– स कालक इति द्वितीयेनेति ।। पुनरनुवादेनेत्यर्थः । ‘कलधातोः’ इति वदन् कलधातुः पचाद्यजन्तः । कलयति जानातीति कलः, स एव प्रज्ञादित्वात् कालः, स एव कालकः, स्वार्थे कः, ‘ज्ञाता’ इत्यर्थ इत्यभिसन्धत्ते । ‘ज्ञानाद्यर्थत्वात्’ इत्यत्रादिशब्दार्थः ‘कालोऽस्मि लोकक्षयकृत् प्रवृद्धः’ इत्यत्र भाष्य एव स्फुटः । भावप्रदीपिकायां तु ‘कालकोऽ-ज्ञानहारी’ इति व्याख्यातम् । निगदव्याख्यानम् निगदः पाठः, स एव व्याख्यानम् अर्थकथनं यस्य तत् तथा । एतत् कालकपदमित्यर्थः ।। १५ ।।

गीताक्षरार्थस्तु किञ्च सर्वस्य प्राणिजातस्य हृदि अन्तर्यामितया सन्निविष्टः अस्मि । मत्तः ‘पञ्चम्यास्तसिल्’। मत् एव स्मृतिः पूर्वानुभूतार्थविषया प्रतीतिः ज्ञानम् अनुभवः, स्मृतिज्ञानयोः अपोहनम् अपगमनं प्रमोषश्च भवति । अपोहनं विपरीतप्रत्यय इत्यपि आहुः । सर्वैर्वेदैरहमेव परममुख्यया वृत्त्या वेद्यो ज्ञातव्यः । वेदान्तकृद् वेदस्य अन्तो वेदान्तः, करोतीति कृत्, वेदान्तस्य कृत् वेदान्तकृद् इत्यत्र वेदशब्देन वेदार्थो गृह्यते । अन्तशब्देन निर्णयवचनेन निर्णायकग्रन्थः, तादर्थ्यात् ताच्छब्द्यम् । तथा च वेदार्थनिर्णायकमीमांसा वेदान्तशब्दार्थः, तस्याः कर्ता व्यासरूपेणाहमेवेति स तथोच्यते । वेदवित् वेदार्थस्य वेदिता च अहमेव मुख्यः ।।१५।।

भावदीपिका

‘मीमांसा मेयशेधनम्’ इत्युक्तत्वेन वेदरूपशब्दनिर्णयाकत्वा-भावादाह– वेदो वेदार्थ इति ।। ‘मीमांसा त्रिविधा ज्ञेया ब्राह्मी दैवी च कार्मिकी’ इति वचनेन मीमांसायास्त्रैविध्याद् अत्र कर्ममीमांसादिग्रहणे तस्या जैमिन्यादिकृतत्वेन व्यासकृतत्वा-भावादाह– ब्राह्मीति ।। कर्तेति ।। ‘व्यासरूपेण’ इति शेषः । ‘स एव व्यासरूपेण वेदान्तकृदुदाहृतः’ इति तात्पर्योक्तेरिति ध्येयम् । निगदेति ।। निगदनम् उच्चारणमेव तद्व्याख्यानमित्यर्थः । तथा च ‘कल ज्ञाने’ इत्यादिधातोज्ञ•तृत्वादिना कालः, स्वार्थे कः । तथा च ‘काल एव कालकः’ इति स्पष्टमिति द्रष्टव्यम् ।। १५ ।।

भावप्रकाशः

 ‘अन्तोऽस्त्री निश्चये नाशे’ इति विश्वोक्तेराह– अन्तो निर्णय इति ।। १५ ।।