रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ।।२३।।

रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।

बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ।।२३।।

भावरत्नकोशः

गीताक्षरार्थस्तु विस्मये निमित्तमुच्यते– रूपं महत्ते इति ।। बह्वीभिः दंष्ट्राभिः करालं भीषणं ‘वीक्षन्ते’ इत्युक्तवीक्षणं ‘दृष्ट्वा’ इत्यनूद्य तत्कार्यमुच्यते– ‘लोकाः प्रव्यथितास्तथाऽहमिति ।। अत्र लोकशब्दः लोकत्रयशब्द इव व्याख्यातव्यः । अहमपि तथा प्रव्यथितः ।। २३ ।।